.. પૂર્વદિનચર્યા ..
॥ श्रीदेवराजगुरुभिरनुगृहीता ॥
सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥
अङ्के कवेरकन्यायास्तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनं वन्दे वरवरं मुनिम् ॥ १॥
मयि प्रविशति श्रीमन्मन्दिरं रङ्गशायिनः । पत्युः पदाम्बुजं द्रष्टुमायान्तमविदूरतः ॥ २॥
सुधानिधिमिव स्वैरस्वीकृतोदग्रविग्रहम् । प्रसन्नार्कप्रतीकाशप्रकाशपरिवेष्टितम् ॥ ३ ॥ पार्श्वतः पाणिपद्माभ्यां परिगृह्य भवत्प्रियौ । विन्यस्यन्तं शनैरङ्घ्री मृदुलौ मेदिनीतले ॥ ४॥
आम्लानकोमलाकारमाताम्रविमलाम्बरम् । आपीनविपुलोरस्कमाजानुभुजभूषणम् ॥ ५॥
मृणालतन्तुसन्तानसंस्थानधवलत्विषा । शोभितं यज्ञसूत्रेण नाभिबिम्बसनाभिना ॥ ६॥
अम्भोजबीजमालाभिरभिजातभुजान्तरम् । ऊर्ध्वपुण्ड्रैरुपश्लिष्टमुचितस्थानलक्षणैः ॥ ७॥
काश्मीरकेसरस्तोमकडारस्निग्धरोचिषा । कौशेयेन समिन्धानं स्कन्धमूलावलम्बिना ॥ ८॥
मन्त्ररत्नानुसन्धानसन्ततस्फुरिताधरम् तदर्थतत्वनिध्यानसन्नद्धपुलकोद्गमम् ॥ ९॥
स्मयमानमुखाम्भोजं दयमानदृगञ्चलम् । मयि प्रसादप्रवणं मधुरोदारभाषणम् ॥ १०॥
आत्मलाभात्परं किञ्चिदन्यन्नास्तीति निश्चयात् । अङ्गीकर्तुमिव प्राप्तमकिञ्चनमिमं जनम् ॥ ११॥
भवन्तमेव नीरन्ध्रं पश्यन्वश्येन चेतसा । मुने !मुनेवरवर! स्वामिन् मुहुस्त्वामेव कीर्तयन् ॥ १२॥
त्वदन्यविषयस्पर्शविमुखैरखिलेन्द्रियैः । भवेयं भवदुःखानामसह्यानामनास्पदम् ॥ १३॥
परेद्युः पश्चिमे यामे यामिन्यास्समुपस्थिते । प्रबुध्य शरणं गत्वा परां गुरुपरम्पराम् ॥ १४॥
ध्यात्वा रहस्यत्रितयं तत्वयाथात्म्यदर्पणम् । परव्यूहादिकान् पत्युः प्रकारान् प्रणिधाय च ॥ १५॥
ततः प्रत्युषसि स्नात्वा कृत्वा पौर्वाह्निकीः क्रियाः । यतीन्द्रचरणद्वन्द्वप्रवणेनैव चेतसा ॥ १६॥
अथ रङ्गनिधिं सम्यगभिगम्य निजं प्रभुम् । श्रीनिधानं शनैस्तस्य शोधयित्वा पदद्वयम् ॥ १७॥
ततस्तत्सन्निधिस्तम्भमूलभूतलभूषणम् । प्राङ्मुखं सुखमासीनं प्रसादमधुरस्मितम् ॥ १८॥
भृत्यैः प्रियहितैकाग्रैः प्रेमपूर्वमुपासितम् । तत्प्रार्थनानुसारेण संस्कारान् संविधाय मे ॥ १९॥
अनुकम्पापरीवाहैरभिषेचनपूर्वकम् । दिव्यं पदद्वयं दत्त्वा दीर्घं प्रणमतो मम ॥ २०॥
साक्षात्फलैकलक्ष्यत्वप्रतिपत्तिपवित्रितम् । मन्त्ररत्नं प्रयच्छन्तं वन्दे वरवरं मुनिम् ॥ २१॥
ततस्सार्धं विनिर्गत्य भृत्यैर्नित्यानपायिभिः । श्रीरङ्गमङ्गलं द्रष्टुं पुरुषं भुजगेशयम् ॥ २२॥
महतिं श्रीमति द्वारे गोपुरं चतुराननम् । प्रणिपत्य शनैरन्तः प्रविशन्तं भजामि तम् ॥ २३॥
देवी गोदा यतिपतिशठद्वेषिणौ रङ्गशृङ्गं सेनानाथो विहगवृषभश्श्रीनिधिस्सिन्धुकन्या । भूमानिलागुरुजनवृतः पूरुषश्चेत्यमीषामग्रे नित्यं वरवरमुनेरङ्घ्रियुग्मं प्रपद्ये ॥ २४॥
मङ्गलाशासनं कृत्वा तत्रतत्र यथोचितम् । धाम्नस्तस्माद्विनिष्क्रम्य प्रविश्य स्वं निकेतनम् ॥ २५॥
अथ श्रीशैलनाथार्यनाम्नि श्रीमति मण्डपे । तदङ्घ्रिपङ्कजद्वन्द्वच्छायामध्यनिवासिनाम् ॥ २६॥
तत्त्वं दिव्यप्रबन्धानां सारं संसारवैरिणाम् । सरसं सरहस्यानां व्याचक्षाणं नमामि तम् ॥ २७॥
ततः स्वचरणाम्भोजस्पर्शसम्पन्नसौरभैः । पावनैरर्थिनस्तीर्थैर्भावयन्तं भजामि तम् ॥२८॥
आराध्य श्रीनिधिं पश्चादनुयागं विधाय च । प्रसादपात्रं मां कृत्वा पश्यन्तं भावयामि तम् ॥ २९॥
ततश्चेतस्समाधाय पुरुषे पुष्करेक्षणे । उत्तंसितकरद्वन्द्वमुपविष्टमुपह्वरे ॥ ३०॥
अब्जासनस्थमवदातसुजातमूर्ति - मामीलिताक्षमनुसंहितमन्त्ररत्नम् । आनम्रमौलिभिरुपासितमन्तरङ्गै- र्नित्यं मुनिं वरवरं निभृतो भजामि ॥ ३१॥
ततश्शुभाश्रये तस्मिन्न्निमग्नं निभृतं मनः । यतीन्द्रप्रवणं कर्तुं यतमानं नमामि तम् ॥ ३२॥
॥ इति पूर्वदिनचर्या समाप्ता ॥