ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
Sri Ganesha Stotram
ಸನಾತನ ದೇವ

.. ಹೇರಂಬೋಪಸ್ಥಾನಂ ..

॥ हेरम्बोपस्थानम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 7
23px
॥ हेरम्बोपस्थानम् ॥ प्रथमः खण्डः (शशिवदनावृत्तम्) श्रियमसमानां मम शुभनामा । दिशतु गणानां पतिरतिधामा ॥ १॥ विजितजराधिं विनिहतरोगम् । द्विरदमुखो मे वितरतु योगम् ॥ २॥ वितरतु मह्यं निजपदभक्त्तिम् । गणपतिरग्रयामपि भुजशक्त्तिम् ॥ ३॥ हरतनयो मे विभुरतिहृद्यम् । वितरतु भूतप्रविमलविद्याम् ॥ ४॥ मम करिवक्त्रः प्रभुरनवद्याम् । दिशतु भविष्यद्विदमुडुविद्याम् ॥ ५॥ निजविषयाजिष्वघहिमभानो । इममविजेयं कुरु हरसूनो ॥ ६॥ सुमधुरमाध्वीधरपदजातम् । करिमुख दासं कुरु कविमेतत् ॥ ७॥ गणपतिरूपं मनसि करोमि । गणपतिकिर्तीं वचसि तनोमि ॥ ८॥ मम गणनाथः शमयतु पापम् । सपदि विमुष्णात्वपि परशापम् ॥ ९॥ शशिवदनानां नवकृतिरेषा । भजतु गणेशं पतिमिव योषा ॥ १०॥ द्वितीयः खण्डः (मदलेखावृत्तम्) आह प्राज्ञजनस्त्वां मूलाधारनिशान्तम् । मन्दे सुप्तमिभास्य ज्ञे युक्त्ते विलसन्तम् ॥ ११॥ अस्ति व्योम्नि गुरुर्यस्तस्यैव त्वमिहासि । विध्नेशानविवर्तः सद्भक्तेषु विभासि ॥ १२॥ कोऽपि प्राभवशाली मूलाधारविहारी । प्रज्ञासिद्धिवधूभ्यं श्लिष्टो भात्यघहारी ॥ १३॥ आशा मे तव शक्त्तिं देहे द्रष्टुमपाराम् । पातुं चेश्वरसूनो मूर्धन्यामृतधाराम् ॥ १४॥ या चित् सा तव माता यः श्रेष्ठः स पिता ते । सिद्धिर्बाह्यमतिर्ये ते नाथ प्रमदे ते ॥ १५॥ या लिप्सा हृदये मे तां पूर्णां कुरु मा वा । एषाङ्गीक्रियतां मे मत्तेभानन सेवा ॥ १६॥ ना खे याति सुरो वा त्वं चेत् किञ्चिदुदास्यम् । आधारे विदधासि स्कन्दस्याग्रज लास्यम् ॥ १७॥ न स्वार्थे मम यत्नो निःस्वार्थे मम सोऽयम् । उद्योगः शिवसूनो सद्यो देहि सहायम् ॥ १८॥ माहात्म्यं ननु वक्त्तुं कः शक्त्तः पुरुषस्ते । हस्तीन्द्रानन भाग्यं सर्वेषां तव हस्ते ॥ १९॥ एतः सम्मदकत्रीर्हैरम्बीर्मदलेखाः । सेवन्तां कविभृङ्गाश्चान्द्रीर्भा इव लेखाः ॥ २०॥ तृतीय खण्डः (इन्द्रवज्रावृत्तम्) एकादशानां प्रवरं सुतानां रुद्रस्य मन्त्रधिपतिं नमामि । शास्त्राणि सर्वाण्यपि यस्य कीलाः सूर्यानपोह्यं तिमिरं हरन्ति ॥ २१॥ प्राज्ञेन बुद्धया यदकारि पद्यं सधारणस्तत्र तवोपकारः । हेरम्ब यन्मन्त्रमृषिश्चकार व्यक्तोविशिष्टस्तव तत्र यत्र ॥ २२॥ जिह्वास्थलं नाथ विगाहमानं त्वामाहुरुच्छिष्टमयि छलोक्त्या । उच्छिष्टता चेत्तव रुद्रसूनो स्वाध्यायनिष्ठीवनतोर्भिदा का ॥ २३॥ सर्वाणि धान्यानि च भक्षयन्तं दन्तैः शितैर्देव सहायवन्तम् । एतं बिलस्थं रसनाह्वयं ते वाहं विदो मूषिकमामनन्ति ॥ २४॥ आधारचक्रे वसतो गणेश ज्योतिर्मयाणोर्ज्वलतः सदाते । एकः पचत्यन्नमशेषमूष्मा सम्प्र्रेरयन्त्य इमास्तु वाचः ॥ २५॥ वैश्वानरोऽग्निः सकलस्य जीवो वागिन्द्रियाग्निः शिवनन्दन त्वम् । यो वेद नैव युवयोर्विभेदं पिण्डेषु ना मुह्यति स प्रसङ्गे ॥ २६॥ त्वां ब्रह्मणस्पत्यभिधानमाहुः केचिद्विभोरीशपदस्य पुत्रम् । अन्यैर्बृहस्पत्यभिधान उक्तो धीरैर्विभोरिन्द्रपदस्य मन्त्री ॥ २७॥ जिह्वैव वेदिस्तव तोयपूता लोकप्रसङ्गस्तव तत्र धूमः । ज्वाला जगन्नाथकथा पवित्रा चेतो घृतं जुह्यति यत्र सन्तः ॥ २८॥ विद्युन्मयीमूर्तिरगादि जिष्णोर्या मौनिभिः सैव तव स्वरूपम् । इन्द्रस्य भेदस्तव चोदितो यः स प्राणविद्युत्तनुभेदमूलः ॥ २९॥ दिव्याग्रिगात्रं धिषणा कलत्रं भर्गस्य पुत्रं प्रणतस्य मित्रम् । दिव्याग्रिरुचो भजन्तामेताः करीन्द्राननमिन्द्रवज्राः ॥ ३०॥ चतुर्थः खण्दः (वसन्ततिलकवृत्तम्) किं बृंहितानि कुरुषे कलुषेण भग्ने मग्ने महाविपदि देव निजे विवर्ते । निद्रामि चेद्वरद बोधय हस्तघाता - द्गच्छामि चेदपथमाशु निवर्तयस्व ॥ ३१॥ वेषस्त्वायमपरो यदि देव नाट्य- मारभ्यतां तदुचित्तं किमुपैषि मौनम् । एतां प्रभो यवनिकामपसारयन्तु सक्षाद्गणास्तव कुतः क्रियते विलम्बः ॥ ३२॥ एतत्तमो नयनशक्त्तिहरं गुहायं मर्गं रुणद्धि न विलोकितुमस्मि शक्त्तः । स्रेहोऽस्ति काचन दशास्ति विभो कटाक्ष- ज्योतिर्लव सदय देहि पुरो व्रजेयम् ॥ ३३॥ घोरं करोमि न तपो यदि तेऽपराधः किं प्रेरणं न कृतवानसि रुद्रसूनो । सम्प्रेरितश्च भवता यदि नाचरेयं सम्प्रेरणस्य तव का गजवक्त्र शक्त्तिः ॥ ३४॥ कार्यं न मे किमपि तत् खलु निर्जराणां रूपं न मे किमपि तत्तव कोऽपि वेषः । इष्टं नु कष्टमथ कस्य करीन्द्रवक्त्र शिष्टं तु मे किमपि नाम नराङ्गसङ्गि ॥ ३५॥ नामापि तत्तव भवत्यथवा गजास्य चर्चा विनश्वरतमे तनुकञ्चुके का । विष्णोरिवेन्दुधवलं भविता यशश्चेत् तद्दन्तकान्तिषु तवैव लयं प्रयातु ॥ ३६॥ स्थूलां तनूमसुमशेषमनोरथानां स्थानं मनश्च धिषणां प्रमदं च मूलम् । आक्रम्य कोशमखिलं च विभो खलारे विध्नाधिराज मयि दर्शय ते विभूतिम् ॥ ३७॥ देवी मतिर्जलपत्रविशालनेत्रा देवी च सिद्धिरकलङ्कसुधाकरास्या । छयोष्णता च दिननाथमिव ज्वलन्तं नित्यं भवन्तमिभवक्त्र विभो भजे ते ॥ ३८॥ सिद्धेन्द्रवेषभृति भूमिहिताय रुद्रे कैलासशैलमधितिष्ठति वज्रपाणिः । धृत्वा गजेन्द्रमुखवेषममुष्य पुत्रो भूत्वा विभुर्नयति पारिषदानशेषान् ॥ ३९॥ सम्मोदयन्तु हृदयं द्विरदाननस्य देवस्य सिद्धिधिषणा हृदयेश्वरस्य । एता वसन्ततिलकाः कविकुञ्जरेण गीताः कयाऽप्यमलभावनया युतेन ॥ ४०॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिर्हेरम्बोपस्थानं समाप्तम् ॥
ಜಪ ಎಣಿಕೆ: 0/108