சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீவிநாயகஸ்தோத்ரம்

श्रीविनायकस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

श्रीविनायकस्तोत्रम्

गण्डस्थलद्धरागलन्मदवारिधारा सौरभ्यलुभ्यदलिडिम्भकगुम्भनादैः । वाचालिताखिलदिशं वरदं नतानां वन्दामहे गजमुखं वयमादिदेवम् ॥ १॥ गर्विष्ठखेचरपुरत्रयनाथदैत्य- भङ्गोद्यतः स्वयमयं परमेश्वरोऽपि । आदौ यमेव परिपूज्य विधूतसर्व- विघ्नो जिगाय तमिमं वयमाश्रयामः ॥ २॥ प्रणष्टवर्णततिपञ्चमषष्ठवर्ण- युग्माविधेयविरहादतिमात्रदीनम् । प्रायेत मामनुदिनं निजपुष्करात्त- कुम्भस्थरत्ननिकरानभिवृध्य देवः ॥ ३॥ पद्मासहायगिरिजापतिरत्यवागधीश- देवादिनाकनिलयैर्वनितासहायैः । अन्वास्यमानमखिलास्वपि दिक्षु सिद्ध - लक्ष्मीसहायमनिशं शरणं भजामः ॥ ४॥ तन्वीत नः शुभमतिं तरुणारुणश्री दायादकायरुचिरिन्दुक्तंससूनुः । प्रत्यूहभङ्गपटुभिः सहितो वधूभि रामोदमुख्यनिजपारिषदैः समेतः ॥ ५॥ ये चिन्तयन्ति निमिषार्धमपि प्रभो त्वां- श्रीमानिभानन विधूतभिदान्धकाराः । बाभासमानमनिशं हृदये समुद्य- दानन्दबोधघनमेकममी नमस्याः ॥ ६॥ न श्रौतकर्मसु रतिर्न च बोधनिष्ठा स्वामिन्नुमासुत न जातु कृतापि पूजा । निस्सारवैषयिकसौख्यदुराशयैव नीतान्यहान्यहह किं कथये दयस्व ॥ ७॥ वस्त्राज्यदुग्धमधुभिः सितशर्कराद्यैः पुण्ड्रेक्षुखण्डकदलीफलनारिकेलैः । लाजैश्च मोदकयुतैः परिपूजितुं त्वां (लाभैश्च) धन्याः क्षमाः परमहं शरणं प्रपद्ये ॥ ८॥ समीरैः प्रोच्चण्डैः श्रवणयुगलीचालनभवै- र्नतानां प्रत्यूहच्छलजलदराशिं विदलयन् । कटायोगोदश्चन्मदसुरभिलादोषभुवनः शिवाचन्द्रोत्सप्रणयपरिणामोऽवतु गजः ॥ ९॥ ॥ इति श्रीविनायकस्तोत्रम् ॥
ஜப எண்ணிக்கை: 0/108