ಸನಾತನ ದೇವ
.. ಹನುಮತ್ಪಂಚರತ್ನಂ ..
॥ हनुमत्पञ्चरत्नम् ॥
ಲಿಪಿಯನ್ನು ಆಯ್ಕೆಮಾಡಿ:
देवनागरी (संस्कृत)
वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम्। सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम्॥१॥
तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम्। सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम्॥२॥
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम्। कम्बुगलमनिलदिष्टं बिम्ब-ज्वलितोष्ठमेकमवलम्बे॥३॥
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः। दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः॥४॥
वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम्। दीन-जनावन-दीक्षं पवनतपः पाकपुञ्जमद्राक्षम्॥५॥
एतत् पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम्। चिरमिह-निखिलान् भोगान् भुक्त्वा श्रीराम-भक्तिभाग् भवति॥६॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं हनुमत्पञ्चरत्नं सम्पूर्णम् ॥