सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्

stotra-a62767f5
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

श्रीगणपतिगकाराष्टोत्तरशतनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । ॐ गकाररूपो गम्बीजो गणेशो गणवन्दितः । गणनीयो गणो गण्यो गणनातीतसद्गुणः ॥ १॥

गगनादिकसृद्गङ्गासुतो गङ्गासुतार्चितः । गङ्गाधरप्रीतिकरो गवीशेड्यो गदापहः ॥ २॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः । गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ ३॥

गञ्जानिरतशिक्षाकृद्गणितज्ञो गणोत्तमः । गण्डदानाञ्चितो गन्ता गण्डोपलसमाकृतिः ॥ ४॥

गगनव्यापको गम्यो गमानादिविवर्जितः । गण्डदोषहरो गण्डभ्रमद्भ्रमरकुण्डलः ॥ ५॥

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः । गन्धप्रियो गन्धवाहो गन्धसिन्दुरवृन्दगः ॥ ६॥

गन्धादिपूजितो गव्यभोक्ता गर्गादिसन्नुतः । गरिष्ठो गरभिद्गर्वहरो गरलिभूषणः ॥ ७॥

गविष्ठो गर्जितारावो गभीरहृदयो गदी । गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ ८॥

गर्भाधारो गर्भवासिशिशुज्ञानप्रदायकः । गरुत्मत्तुल्यजवनो गरुडध्वजवन्दितः ॥ ९॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः । गदाधरावतारी च गन्धर्वनगरार्चितः ॥ १०॥

गन्धर्वगानसन्तुष्टो गरुडाग्रजवन्दितः । गणरात्रसमाराध्यो गर्हणस्तुतिसाम्यधीः ॥ ११॥

गर्ताभनाभिर्गव्यूतिः दीर्घतुण्डो गभस्तिमान् । गर्हिताचारदूरश्च गरुडोपलभूषितः ॥ १२॥

गजारिविक्रमो गन्धमूषवाजी गतश्रमः । गवेषणीयो गहनो गहनस्थमुनिस्तुतः ॥ १३॥

गवयच्छिद्गण्डकभिद्गह्वरापथवारणः । गजदन्तायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ १४॥

गजचर्मामयच्छेत्ता गणाध्यक्षो गणार्चितः । गणिकानर्तनप्रीतो गच्छन्गन्धफलीप्रियः ॥ १५॥

गन्धकादिरसाधीशो गणकानन्ददायकः । गरभादिजनुर्हर्ता गण्डकीगाहनोत्सुकः ॥ १६॥

गण्डूषीकृतवाराशिः गरिमालघिमादिदः । गवाक्षवत्सौधवासी गर्भितो गर्भिणीनुतः ॥ १७॥

गन्धमादनशैलाभो गण्डभेरुण्डविक्रमः । गदितो गद्गदारावसंस्तुतो गह्वरीपतिः ॥ १८॥

गजेशाय गरीयसे गद्येड्यो गतभीर्गदितागमः । ? गर्हणीयगुणाभावो गङ्गादिकशुचिप्रदः ॥ १९॥

गणनातीतविद्याश्रीबलायुष्यादिदायकः । एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ २०॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् । पूजान्ते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ २१॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति । दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ २२॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि । तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ २३॥

॥ इति श्रीगणपति गकाराष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ ॐ श्रीगणेशाय नमः । ॐ गकाररूपो गम्बीजो गणेशो गणवन्दितः । गणनीयो गणो गण्यो गणनातीतसद्गुणः ॥ १॥

॥ इति श्रीगणपति गकाराष्टोत्तरशतनामस्तोत्रम् ॥

पाठ जप: 0/108