சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

முத்³க³லபுராணோக்தம்ʼ விஜ்ஞானக³ணராஜஸ்தோத்ரம்

मुद्गलपुराणोक्तं विज्ञानगणराजस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px
विज्ञानगणराजस्तोत्रम् श्री गणेशाय नमः । अत्रिरुवाच । श‍ृणु पुत्र प्रवक्ष्यामि शान्तियोगं सनातनम् । ब्रह्मणा कथितं ह्येतद्येन शान्तोऽहमञ्जसा ॥ १॥ अस्माकं कुलदेवत्वं प्राप्तो गणपतिःप्रभुः । स वै देवाधिदेवानां कुलदेवः प्रकीर्तितः ॥ २॥ शान्तियोगस्वरूपं तं जानीहि त्वं महामते । भजस्व सुप्रयत्नेन तदा शान्तिमवाप्स्यसि ॥ ३॥ गणेशात्सर्वमुत्पन्नं तेन संस्थापितं सुत । तस्याराधनमात्रेण कृतकृत्याः शिवादयः ॥ ४॥ नामरूपात्मकं सर्वं जगद् ब्रह्म प्रकथ्यते । तदेव शक्तिरूपाख्यं ब्रह्मासद्रूपकं परम् ॥ ५॥ तत्रामृतमयं भानुमात्माकारेण संस्थितम् । सद्रूपं तं विजानीयाद् ब्रह्म वेदे प्रकीर्तितम् ॥ ६॥ तयोरभेदतो ब्रह्म समं सर्वत्र संस्थितम् । सदसन्मयगं विष्णुं जानीहि वेदवादतः ॥ ७॥ तेभ्यो विलक्षणस्तुर्या नेतिरूपः प्रकीर्तितः । निर्मोहः शिवसंज्ञश्च स्वाधीनं ब्रह्म तद्बुधैः ॥ ८॥ चतुर्णां ब्रह्मसंयोगे स्वानन्दः कथ्यते बुधैः । स वै मायामयः साक्षाद्गुणेशो वेदवादिभिः ॥ ९॥ अन्तर्बाह्याः क्रियाः सर्वा ब्रह्माकारः प्रदृश्यते । कर्मयोगः स विज्ञेयः संयोगः कर्मणां सुत ॥ १०॥ ज्ञानात्मचक्षुषा ज्ञानं यद्यद्भवति योगिनाम् । तेषामभेदको योगो ज्ञानयोगः प्रकीर्तितः ॥ ११॥ ज्ञानानां कर्मणाम् चैव भेदे योगः समात्मकः । आनन्दात्मकरूपोऽयं द्वैधनाशे स प्राप्यते ॥ १२॥ स्वेच्छया कर्मयोगश्च धृतो येन महात्मना । स्वेच्छया ज्ञानयोगश्च स्वेच्छयानन्दयोगकः ॥ १३॥ स्वेच्छया स त्रिभिर्हिनः सहजाख्यः प्रकथ्यते । सदा स्वाधीनरूपश्च स्वेच्छया क्रीडते स्वयम् ॥ १४॥ ब्रह्मभूतात्मको योगः स्वानन्दाख्यः प्रकीर्तितः । तत्र स्वाधीनता पुत्र पराधीना त्रिधा कृता ॥ १५॥ ब्रह्मणि ब्रह्मभूतस्य स्वतः परत एव च । उत्थानं नास्ति संयोगात्स्वस्वरूपिणि योगिनः ॥ १६॥ स्वानन्दे सुतसंयोगो जगतां ब्रह्मणां भवेत् । सर्वाभेदेन योगोऽयं तस्मान्मायासमन्वितः ॥ १७॥ अयोगात्मकयोगश्च सदा संयोगवर्जितः । जगतां ब्रह्मणां तत्र प्रवेशोऽतो न विद्यते ॥ १८॥ सदा निर्मायिको योगः स्वसंवेद्यविवर्जितः । स्वकीयाभेदहीनत्वान्निवृत्तिर्योगिभिर्धृता ॥ १९॥ ब्रह्म ब्रह्माणि संस्थं यन्नागतं न गतं पुनः । स्वानन्दनाशतस्तुभ्यं ब्रह्मभूतमयोगकम् ॥ २०॥ ब्रह्मस्वानन्दवासी स गणेशः कथ्यते बुधैः । स्वानन्दात्मात्मकः प्रोक्तो वेदेषु वेदवादिभिः ॥ २१॥ क्रीडात्मको गणेशानः स्वानन्दः परिकीर्तितः । संयोगात्मकरूपेण स्वस्वरूपेण तिष्ठति ॥ २२॥ क्रीडाहीनो गणेशानो योगरूपः प्रकीर्तितः । निरानन्दात्मकत्वेन सदा ब्रह्मणि संस्थितः ॥ २३॥ संयोगायोगयोगेन तयोर्नाशे गणेश्वरः । शान्तियोगात्मकः प्रोक्तो योगिभिर्योगसेवया ॥ २४॥ पूर्णयोगात्मकस्तत्र गणेशः परिकीर्तितः । मायायुक्तविहीनत्वं भ्रान्तिमात्रं प्रकीर्तितम् ॥ २५॥ पञ्चचित्तस्वरूपां त्वं बुद्धिं जानीहि पुत्रक । तत्र मोहकरी सिद्धिर्भ्रान्तिदा मोहरूपिणी ॥ २६॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रदृश्यते । ब्रह्मभूतमयी सिद्धिः कथिता योगिभिस्तथा ॥ २७॥ पञ्चधा चित्तवृत्तिर्या तत्र यद्बिम्बितं सुत । तदेव गणराजस्य रूपं बिम्बात्मकं परम् ॥ २८॥ धर्मार्थकाममोक्षेषु ब्रह्मभूतेषु यत्स्मृतम् । ऐश्वर्यं मोहदं जन्तुर्भ्रमति यत्र लालसः ॥ २९॥ पञ्चैश्वर्येषु यद्बिम्बं तदेव गणपस्य च । जीवं जानीहि पुत्र त्वं शान्तियोगस्य सेवया ॥ ३०॥ पञ्चचित्तप्रणाशे वै पञ्चैश्वर्ये लयं गतः । अधुना गणराजस्त्वं भविताऽसि न संशयः ॥ ३१॥ त्यजावधूतमार्गं त्वं भाववधूतमुख्यकः । अवधूय महच्चित्तं महदैश्वर्यमादरात् ॥ ३२॥ सदा शान्तिं भजस्व त्वं योगेन दत्त सत्वरम् । ददामि ते महामन्त्रं गणेशस्य विधानतः ॥ ३३॥ तत एकाक्षरं मन्त्रं ददौ पुत्राय भावतः । अत्रिर्योगविदां श्रेष्ठस्तं प्रणम्य ययावजः।३४ । साक्षाद्विष्णुस्वरूपश्च दत्तो योगविदांवरः । गङ्गाया दक्षिणे तीरे पूजयामास विग़्ह्नपम् ॥ ३५॥ त्यक्त्वा भूमिस्वरूपं स शान्तिमास्थाय योगवित् । अभजत्तं तु भावेन गणपं हृदि चिन्तयन् ॥ ३६॥ महायोगी स्वयं दत्तो वर्षेणैकेन शौनक । शान्तिं प्राप्तो विशेषेण गाणपत्यो बभूव ह ॥ ३७॥ तं द्रष्टुं गणपस्तत्र ययौ भक्तं निजेच्छया । भक्तवात्सल्यभावेन दत्ताश्रमसुशान्तिदः ॥ ३८॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम कृतांजलिः । तुष्टाव सुस्थिरो भूत्वा विघ्नेशं कुलदैवतम् ॥ ३९॥ दत्त उवाच । नमो गणपते तुभ्यं नमो योगस्वरूपिणे । योगिभ्यो योगदात्रे च शान्तियोगात्मने नमः ॥ ४०॥ सिद्धिबुद्धिपते तुभ्यं पञ्चचित्तप्रधारकम् । नानाविहारशीलाय गणेशाय नमो नमः ॥ ४१॥ सिद्धिदात्रे समस्तेभ्यो नानैश्वर्यप्रधारिणे । मोहहन्त्रे मोहकर्त्रे हेरम्बाय नमो नमः ॥ ४२॥ स्वानन्दवासिने तुभ्यं संयोगाभेदधारिणे । नानामायाविहाराय विघ्नेशाय नमो नमः ॥ ४३॥ सांख्याय ब्रह्मनिष्ठाय बोधहीनाय धीमते । परतोत्थानरूपाय विदेहाय नमो नमः ॥ ४४॥ बोधाय सर्वरूपाय देहदेहिमयाय च । स्वत उत्थानरूपाय प्रकृतेर्लय ते नमः ॥ ४५॥ सोऽहङ्काराय देवाय जगदीशाय ते नमः । महते बिन्दुरूपाय जगद्रूपाय ते नमः ॥ ४६॥ नादात्मकगुणेशाय नानावेषप्रधारिणे । ब्रह्मणे सृष्टिकर्त्रे च पितामह नमोऽस्तु ते ॥ ४७॥ हरये पालकायैव नानादेहधराय च । संहर्त्रे शङ्करायैव कर्माकाराय भानवे ॥ ४८॥ शक्तये च क्रियामूर्ते देवमानवरूपिणे । नागासुरमयायैव ढुण्ढिराजाय ते नमः ॥ ४९॥ स्थावराय नमस्तुभ्यं जङ्गमाय नमो नमः । जगद्रूपाय देवाय ब्रह्मणे ते नमो नमः ॥ ५०॥ किं स्तौमि त्वां गणाधीश योगाकारेण संस्थितम् । वेदादयः समर्था न त्वामतः प्रणमाम्यहम् ॥ ५१॥ धन्यो देहो मदीयोऽद्य पितरौ कुलमेव च । विद्या योगस्तपश्चैव त्वदंग़्ह्रियुगदर्शनात् ॥ ५२॥ इत्युक्त्वा भक्तिभावेन परिप्लुतो महामुनिः । ननर्त हृष्टरोमाऽसौ आनन्दाश्रूः सृजन्मुहुः ॥ ५३॥ ततस्तं स्वकरे धृत्वा गणनाथः प्रसस्वजे । उवाच योगिनं पूर्णैर्वचनं परमाद्भुतम् ॥ ५४॥ गणेश उवाच । धन्योऽसि दत्त योगीन्द्रो जातोऽसि मदनुग्रहात् । शान्तिं लभसि पूर्णां त्वमचलां मयि सर्वदा ॥ ५५॥ कदापि ते न भेदो मे भविष्यति महामुने । त्वत्प्रीतिसम्प्रवृद्ध्यर्थमत्र स्थास्यामि निश्चलः ॥ ५६॥ गणेशज्ञानमाहात्म्यं त्वया ह्यत्रेर्मुखाच्छुतम् । साक्षात्कारकृतं तस्मादिदं विज्ञानक्षेत्रकम् ॥ ५७॥ विज्ञानगणपो दत्तनाम्ना ख्यातो भवाम्यहम् । दर्शनाच्छान्तिसन्दाता भविष्याम्यत्र मानद ॥ ५८॥ अत्र वासं प्रकुर्वन्ति मदर्थं भक्तिसंयुताः । शान्तियोगं सदा तेभ्यो दास्यामि ते स्वसन्निधौ ॥ ५९॥ इदं पुरा शिवेनैव ज्ञानं साक्षात्कृतं स्वयम् । विज्ञानेश्वरनामा मे कृतो मया स शङ्करः ॥ ६०॥ तस्यात्र सन्निधिं स्थित्वा त्वया तथा सुसाधितम् । अतः शङ्करमित्रत्वं प्राप्तोऽसि मदनुग्रहात् ॥ ६१॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । पठतां श‍ृण्वतां नॄणां ब्रह्मीभूतकरं तथा ॥ ६२॥ धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति । सर्वसिद्धिप्रदं चैव सर्वेभ्यो ज्ञानदायकम् ॥ ६३॥ इत्युक्त्वाऽन्तर्दधे तत्र गणेशो भक्तवत्सलः । दत्तः खिन्नश्च तं ध्यात्वा तस्थौ तत्र प्रजापते ॥ ६४॥ ततस्तत्कृपया तेन स्वात्मा तत्र समर्पितः । योगाभेदमयत्वेन जात आत्मनिवेदकः ॥ ६५॥ दत्तो भक्तो गणेशश्च स्वामी तस्येति नाशितम् । स्वामिनि सेवकः सोऽपि तदाकारेण संस्थितः ॥ ६६॥ इयं भक्तिर्गणेशस्यात्मनिवेदनरूपिणी । दत्तेन सा धृता मुख्या शान्तियोगमयत्वतः ॥ ६७॥ एतस्मिन्नन्तरे तत्र प्रकटोऽभूत्स्वयं शिवः । विज्ञानेश्वरनामासौ दत्तं तं परिषस्वजे ॥ ६८॥ अहो दत्त महाभाग मम मित्रत्वमागतः । अत्रैवाहं गणेशानं ध्यायामि योगसेवया ॥ ६९॥ ततो दत्तं पुरस्कृत्य शङ्करो ब्राह्मणैः सह । गणेशं स्थापयामास गङ्गाया दक्षिणे तटे ॥ ७०॥ विज्ञानगणराजेति नाम चक्रे महर्षिभिः । तदादिक्षेत्रविख्यातं बभूव गणपस्य तत् ॥ ७१॥ विज्ञाननामकं पुण्यं शान्तियोगफलप्रदम् । सर्वसिद्धिकरं क्षेत्रं यात्राकारि जनस्य च ॥ ७२॥ इति मुद्गलपुराणोक्तं विज्ञानगणराजस्तोत्रम्
ஜப எண்ணிக்கை: 0/108