सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ मत्सरासुरेण कृता वक्रतुण्डस्तुतिः ॥

stotra-a57ab5fc
रचयिता: पारंपरिक पाठ संख्या: 1
23px

वक्रतुण्डस्तुतिः

मत्सरासुर उवाच - नमामि वक्रतुण्डं च चतुष्पादं चतुःपरम् । चतुर्देहविहीनं च बिन्दुमात्रे व्यवस्थितम् ॥ ३९॥ साकारं च निराकारं मायारूपधरं प्रभुम् । नमामि मायिनं तं च मायाहीनस्वरूपकम् ॥ ४०॥ जगन्मयं च तद्धीनं सर्वकामप्रपूरकम् । ब्रह्मभूयप्रदं चैव नमामि गणनायकम् ॥ ४१॥ सिंहारूढं चतुर्बाहुं विघ्ननाशं नमामि च । सिद्धिबुद्धिपतिं चैव सिद्धिबुद्धिप्रदायकम् ॥ ४२॥ अनन्तलीलया युक्तं लीलाहीनं नमामि तम् । अव्यक्तं व्यक्तरूपं वै नमामि स्वहृदिस्थितम् ॥ ४३॥ वेदान्तवेद्यं सज्योतिर्ज्योतिषामपि भासकम् । नमामि सच्चिदानन्ददेहरूपं जगाननम् ॥ ४४॥ योगिनां हृदि संस्थं च योगिभ्यो योगदायकम् । भावाभावमयं देवं नमामि भववर्जितम् ॥ ४५॥ सर्वत्र पक्षहीनं तं सर्वपक्षधरं प्रभुम् । नमामि वक्रतुण्डाख्यं ब्रह्मब्रह्माधिपं विभुम् ॥ ४६॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । सर्वाकारनिराकारहीनोऽयं वक्रतुण्डकः ॥ ४७॥ शरणं ते प्रपन्नोऽस्मि पाहि मां भक्तवत्सल । प्रवणं त्वत्पदे नित्यं संसारोत्तारणैषिणम् ॥ ४८॥ इति मत्सरासुरेणप्रोक्ता वक्रतुण्डस्तुतिः
पाठ जप: 0/108