ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

.. ಶ್ರೀರಂಗನಾಥಾಷ್ಟೋತ್ತರಶತನಾಮ ಸ್ತೋತ್ರಂ ..

॥ श्रीरङ्गनाथाष्टोत्तरशतनाम स्तोत्रम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 5
23px
धौम्य उवाच । श्रीरङ्गशायी श्रीकान्तः श्रीप्रदः श्रितवत्सलः । अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः ॥ १ ॥ सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः । हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥ २ ॥ भक्तार्तिभञ्जनो वाग्मी वीरो विख्यातकीर्तिमान् । भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ ३ ॥ नारायणो नरहरिर्नीरजाक्षो नरप्रियः । ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्माङ्गो ब्रह्मपूजितः ॥ ४ ॥ कृष्णः कृतज्ञो गोविन्दो हृषीकेशोऽघनाशनः । विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ ५ ॥ त्रिविक्रमस्त्रिलोकेशः त्रय्यर्थस्त्रिगुणात्मकः । काकुत्स्थः कमलाकान्तः कालीयोरगमर्दनः ॥ ६ ॥ कालाम्बुदश्यामलाङ्गः केशवः क्लेशनाशनः । केशिप्रभञ्जनः कान्तो नन्दसूनुररिन्दमः ॥ ७ ॥ रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः । दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ ८ ॥ पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः । आदिमूर्तिर्दयामूर्तिः शान्तमूर्तिरमूर्तिमान् ॥ ९ ॥ परम्ब्रह्म परन्धाम पावनः पवनो विभुः । चन्द्रश्छन्दोमयो रामः संसाराम्बुधितारकः ॥ १० ॥ आदितेयोऽच्युतो भानुः शङ्करश्शिव ऊर्जितः । महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥ ११ ॥ दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् । पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ १२ ॥ जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः । चक्रपाणिः शङ्खधारी शार्ङ्गी खड्गी गदाधरः ॥ १३ ॥ एवं विष्णोश्शतं नाम्नामष्टोत्तरमिहेरितम् । स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ १४ ॥ सर्वदा सर्वरोगघ्नं चिन्तितार्थफलप्रदम् । त्वं तु शीघ्रं महाराज गच्छ रङ्गस्थलं शुभम् ॥ १५ ॥ स्नात्वा तुलार्के कावेर्यां माहात्म्य श्रवणं कुरु । गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ १६ ॥ द्वादश्यां पायसान्नेन सहस्रं दश भोजय । नामरत्नस्तवाख्येन विष्णोरष्टशतेन च । स्तुत्वा श्रीरङ्गनाथं त्वमभीष्टफलमाप्नुहि ॥ १७ ॥ ॥ इति तुलाकावेरीमाहात्म्ये शन्तनुं प्रति धौम्योपदिष्ट श्रीरङ्गनाथाष्टोत्तरशतनाम स्तोत्रम् ॥
ಜಪ ಎಣಿಕೆ: 0/108