સનાતન સ્તોત્ર સંગ્રહ
Anushthan
સનાતન દેવ

.. શ્રી લલિતા ષોડશોપચાર પૂજા ..

॥ श्री ललिता षोडशोपचार पूजा ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px
॥ श्री ललिता षोडशोपचार पूजा ॥ पूजा विधानम् पूर्वाङ्गम् श्री महागणाधिपतये नमः । श्री गुरुभ्यो नमः । हरिः ॐ । शुचिः ॥ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥ (नमस्कारं) शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥ अगजानन पद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥ दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ यश्शिवो नाम रूपाभ्यां या देवी सर्व मङ्गला । तयोः संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः । एषां इन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यम्बके गौरी नारायणि नमोस्तु ते ॥ श्री लक्ष्मी नारायणाभ्यां नमः । उमा महेश्वराभ्यां नमः । वाणी हिरण्यगर्भाभ्यां नमः । शची पुरन्दराभ्यां नमः । अरुन्धती वशिष्ठाभ्यां नमः । श्री सीतारामाभ्यां नमः । माता पितृभ्यो नमः । सर्वेभ्यो महाजनेभ्यो नमः । आचम्य ॥ ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा । ॐ माधवाय स्वाहा । ॐ गोविन्दाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ सङ्कर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अथोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्री कृष्णाय नमः । दीपाराधनम् ॥ दीपस्त्वं ब्रह्म रूपोसि ज्योतिषां प्रभुरव्ययः । सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥ भो दीप देवि रूपस्त्वं कर्म साक्षी ह्यविघ्नकृत् । यावत्पूजां करिष्यामि तावत्वं सुस्थिरो भव ॥ दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु । पूजार्थे हरिद्रा कुङ्कुम विलेपनं करिष्ये । भूतोच्छाटनम् ॥ ॐ उत्तिष्ठन्तु भूत पिशाचाः य एते भूमि भारकाः । एतेषामविरोधेन ब्रह्मकर्म समारभे ॥ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥ प्राणायामम् ॥ ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यं । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोमृतं ब्रह्म भूर्भुवस्सुवरोम् । सङ्कल्पम् ॥ मम उपात्त समस्त दुरितक्षय द्वारा श्री परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य .... प्रदेशे ...., .... नद्योः मध्य प्रदेशे लक्ष्मी निवास गृहे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री ...._ नाम संवत्सरे .... अयने .... ऋतौ .... मासे .... पक्षे .... तिथौ .... वासरे .... नक्षत्रे .... योगे .... करण एवं गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् .... गोत्रोद्भवस्य .... नामधेयस्य (मम धर्मपत्नी श्रीमतः .... गोत्रस्य .... नामधेयः समेतस्य) मम/अस्माकं सहकुटुम्बस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर अभिवृद्ध्यर्थं धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फल सिद्ध्यर्थं धन कनक वस्तु वाहन समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री ....उद्दिश्य श्री .... प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार* पूजां करिष्ये ॥ आदौ निर्विघ्नेन पूजा परिसमाप्त्यर्थं श्री महागणपति पूजां करिष्ये । तदङ्ग कलशाराधनं करिष्ये । कलशाराधनम् ॥ कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य । कलशे उदकं पूरयित्वा । कलशस्योपरि हस्तं निधाय । ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः मूले तत्र स्थितो ब्रह्म मध्ये मातृगणाश्रिता । कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुन्धरा ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः । अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः । ॐ आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते । आपो॒ वा इ॒दग्‌ं सर्वं॒ विश्वा॑ भू॒तान्याप॑: प्रा॒णा वा आप॑: प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑: स॒म्राडापो॑ वि॒राडाप॑: स्व॒राडाप॒श्छन्दा॒ग्॒‍स्यापो॒ ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्याप॑: स॒त्यमाप॒: सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒: सुव॒राप॒ ओम् । गङ्गे च यमुने कृष्णे गोदावरी सरस्वती । नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु । कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी । भागीरथी च विख्याताः पञ्च गङ्गाः प्रकीर्तिताः । आयान्तु मम पूजार्थं दुरित क्षयकारकाः ॐ ॐ ॐ कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥ शङ्ख पूजा  कलशोदकेन शङ्खं पूरयित्वा । शङ्खे गन्धकुङ्कुमपुष्पतुलसीपत्रैरलङ्कृत्य । शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् । पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥ त्रैलोक्येयानि तीर्थानि वासुदेवस्यदद्रया । शङ्खे तिष्ठन्तु विप्रेन्द्रा तस्मात् शङ्खं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ॥ गर्भादेवारिनारीणां विशीर्यन्ते सहस्रधा । नवनादेनपाताले पाञ्चजन्य नमोऽस्तु ते ॥ ॐ शङ्खाय नमः । ॐ धवलाय नमः । ॐ पाञ्चजन्याय नमः । ॐ शङ्ख देवताभ्यो नमः । सकल पूजार्थे अक्षतान् समर्पयामि ॥ घण्ट पूजा ॥ ॐ जयध्वनि मन्त्रमातः स्वाहा । घण्टदेवताभ्यो नमः । सकलोपचार पूजार्थे अक्षतान् समर्पयामि । घण्टनादम् । आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् । घण्टारवं करोम्यादौ देव आह्वान लाञ्चनम् ॥ इति घण्टानादं कृत्वा ॥ पुनः सङ्कल्पम् ॥ पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री ललिता परमेश्वरी देवतामुद्दिश्य श्री ललिता परमेश्वरी प्रीत्यर्थं सम्भवद्भिः द्रव्यैः सम्भवद्भिः उपचारैश्च सम्भविता नियमेन सम्भविता प्रकारेण श्रीसूक्त विधानेन यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥ पीठपूजा ॥ आधारशक्त्यै नमः । वराहाय नमः । दिग्गजेभ्यो नमः । पत्रेभ्यो नमः । केसरेभ्यो नमः । कर्णिकायै नमः । आत्मने नमः । ब्रह्मणे नमः । सप्तप्राकारं चतुर्द्वारकं सुवर्ण मण्डपं पूजयेत् । प्रागाम्नायमय पूर्वद्वारे द्वार श्रियै नमः । दक्षिणाम्नायमय दक्षिणद्वारे द्वार श्रियै नमः । पश्चिमाम्नायमय पश्चिमद्वारे द्वार श्रियै नमः । उत्तराम्नायमय उत्तरद्वारे द्वार श्रियै नमः । तन्मध्ये क्षीरसागराय नमः । क्षीरसागरमध्ये रत्नद्वीपाय नमः । रत्नद्वीपमध्ये कल्पवृक्षवाटिकायै नमः । तन्मध्ये रत्नसिंहासनाय नमः । रत्नसिंहासनोपरिस्थित श्री ललिता देवतायै नमः । ध्यानम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखै- -रहमित्येव विभावये भवानीम् ॥ ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ ॐ श्री ललिता देव्यै नमः ध्यायामि । प्राणप्रतिष्ठ ॥ ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒: पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् । ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒ मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥ अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑: प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥ आवाहिता भव स्थापिता भव । सुप्रसन्नो भव वरदा भव । स्थिरासनं कुरु प्रसीद प्रसीद । सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ आवाहनम् ॥ ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयमण्टपमध्यमेहि मात- -र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ ॐ श्री ललिता देव्यै नमः आवाहयामि । आसनम् ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥ कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् । भगवति तव सन्निवासहेतो- -र्मणिमयमन्दिरमेतदर्पयामि ॥ ॐ श्री ललिता देव्यै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि । पाद्यम् ॥ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् । श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥ दूर्वया सरसिजान्वितविष्णु- -क्रान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ॐ श्री ललिता देव्यै नमः पादयोः पाद्यं समर्पयामि । अर्घ्यम् ॥ कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑- -मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् । प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ गन्धपुष्पयवसर्षपदूर्वा- -सम्युतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नै- -रर्घ्यमेतदुररीकुरु मातः ॥ ॐ श्री ललिता देव्यै नमः हस्तयोः अर्घ्यं समर्पयामि । आचमनीयम् ॥ च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् । तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये- -ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥ जलजद्युतिना करेण जाती- -फलतक्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतै- -र्भगवत्याचमनं विधीयताम् ॥ ॐ श्री ललिता देव्यै नमः मुखे आचमनीयं समर्पयामि । मधुपर्कम् ॥ निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥ ॐ श्री ललिता देव्यै नमः मधुपर्कं समर्पयामि । पञ्चामृत स्नानम् ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्नपयामि तवाहमादरा- -ज्जननि त्वां पुनरुष्णवारिभिः ॥ ॐ श्री ललिता देव्यै नमः पञ्चामृत स्नानं समर्पयामि । शुद्धोदक स्नानम् ॥ आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः । तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै- -र्माणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा- -त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ ॐ श्री ललित देव्यै नमः शुद्धोदक स्नानं समर्पयामि । स्नानानन्तरं शुद्धाचमनीयं समर्पयामि । वस्त्रम् ॥ उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ ॐ श्री ललिता देव्यै नमः वस्त्रयुग्मं समर्पयामि । आभरणम् ॥ क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- -त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ ॐ श्री ललिता देव्यै नमः सर्वाभरणानि समर्पयामि । गन्धम् ॥ ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥ मातः फालतले तवातिविमले काश्मीरकस्तूरिका- -कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं पादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥ ॐ श्री ललिता देव्यै नमः श्री गन्धान् धारयामि । ॐ श्री ललिता देव्यै नमः हरिद्रा कुङ्कुम कज्जल कस्तूरी गोरोजनादि सुगन्ध द्रव्याणि समर्पयामि । अक्षतान् ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ ॐ श्री ललिता देव्यै नमः अक्षतान् समर्पयामि । पुष्पाणि ॥ मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि । प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥ पारिजातशतपत्रपाटलै- -र्मल्लिकावकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ ॐ श्री ललिता देव्यै नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि । ॥ अथ अष्टोत्तरशतनाम पुजा ॥ श्री ललिता अष्टोत्तरशतानामावली पश्यतु । श्री ललिता सहस्रनामावली पश्यतु । ॐ श्री ललिता देव्यै नमः अष्टोत्तरशतनाम पुजां समर्पयामि । धूपम् ॥ क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम । श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- -र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ ॐ श्री ललिता देव्यै नमः धूपं आघ्रापयामि । दीपम् ॥ आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे । नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥ रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै- -र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ ॐ श्री ललिता देव्यै नमः दीपं समर्पयामि । नैवेद्यम् ॥ आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥ सापूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्तपरमान्नपुरःसराणि । शाकोल्लसन्मरिचिजीरकबाह्लिकानि भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ॐ भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥ सत्यं त्वा ऋतेन परिषिञ्चामि । (सायङ्काले ॥ ऋतं त्वा सत्येन परिषिञ्चामि) अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि । ॐ प्रा॒णाय॒ स्वाहा᳚ । ॐ अ॒पा॒नाय॒ स्वाहा᳚ । ॐ व्या॒नाय॒ स्वाहा᳚ । ॐ उ॒दा॒नाय॒ स्वाहा᳚ । ॐ स॒मा॒नाय॒ स्वाहा᳚ । मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । ॐ श्री ललिता देव्यै नमः नैवेद्यं समर्पयामि । ताम्बूलम् ॥ आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् । सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥ एलालवङ्गादिसमन्वितानि तक्कोलकर्पूरविमिश्रितानि । ताम्बूलवल्लीदलसम्युतानि पूगानि ते देवि समर्पयामि ॥ ॐ श्री ललिता देव्यै नमः ताम्बूलं समर्पयामि । नीराजनम् ॥ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚- -न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥ इन्द्रादयो नतिनतैर्मकुटप्रदीपै- -र्नीराजयन्ति सततं तव पादपीठम् । तस्मादहं तव समस्तशरीरमेत- -न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ॐ श्री ललिता देव्यै नमः नीराजनं समर्पयामि । नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । प्रदक्षिण ॥ पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तत्सर्वपापक्षय हेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ यानिकानि च पापानि जन्मान्तरकृतानि च तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे । पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव । त्राहिमां कृपया देवी शरणागतवत्सले । अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरी । ॐ श्री ललिता देव्यै नमः प्रदक्षिण नमस्कारान् समर्पयामि । पुष्पाञ्जलि ॥ चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ ॐ श्री ललिता देव्यै नमः पुष्पाञ्जलिं समर्पयामि । सर्वोपचाराः ॥ ॐ श्री ललिता देव्यै नमः छत्रं आच्छादयामि । ॐ श्री ललिता देव्यै नमः चामरैर्वीजयामि । ॐ श्री ललिता देव्यै नमः नृत्यं दर्शयामि । ॐ श्री ललिता देव्यै नमः गीतं श्रावयामि । ॐ श्री ललिता देव्यै नमः आन्दोलिकान्नारोहयामि । ॐ श्री ललिता देव्यै नमः अश्वानारोहयामि । ॐ श्री ललिता देव्यै नमः गजानारोहयामि । ॐ श्री ललिता देव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि । नमस्कारान् ॥ मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता- -मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ॐ श्री ललिता देव्यै नमः प्रार्थनानमस्कारान् समर्पयामि । क्षमा प्रार्थना ॥ अपराध सहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी । आवाहनं न जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि क्षमस्व परमेश्वरी । मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी । यत्पूजितं मया देवी परिपूर्णं तदस्तुते । अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री ललिता देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥ तीर्थप्रसाद ग्रहणम् ॥ अकालमृत्यहरणं सर्वव्याधिनिवारणम् । समस्तपापक्षयकरं श्री ललिता देवी पादोदकं पावनं शुभम् ॥ ॐ श्री ललित देव्यै नमः प्रसादं शिरसा गृह्णामि । ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ श्री ललिता षोडशोपचार पूजा ॥
પાઠ જપ: 0/108