सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीवेङ्कटेश शरणागतिस्तोत्रम्

stotra-a498b0b9
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

Venkatesha Sharanagati Stotram श्रीवेङ्कटेश शरणागतिस्तोत्रम्

शेषाचलासमासाद्य कश्यपाद्या महर्षयः । वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥

कलिसन्तारकं पुण्यं स्तोत्रमेतत् जपेन्नरः । सप्तर्षि वा प्रसादेन विष्णुः तस्मै प्रसीदती ॥

कश्यप उवाच कारि ह्रीमन्त विद्यायाः प्राप्यैव परदेवता । कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजेत् ॥

अत्री उवाच अकारादि क्षकारान्त वर्णैः यः प्रतिपाद्यते । कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापती ॥

भरद्वाज उवाच भगवान् भार्गवीकान्तो भक्ताभीप्सित दायक । भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥

विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञान विग्रहः । विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥

गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः । शरणं गौतमास्यास्त वेङ्कटाधि शिरोमणिः ॥

जमदग्निरुवाच जगत्कर्ता जगत्भर्ता जगन्नाथो जगन्मया । जमदग्निः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥

वसिष्ठ उवाच भक्तिज्ञानमात्रं च यन् निर्विशेषं सुखं च सत् । तत्र हैवाहमस्मीति वेङ्कटेशं भजेत् सदा ॥

सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन् नरः । सोऽभयं प्राप्नुयान् सत्यं सर्वत्र विजयी भवेत् ॥

॥ इति श्रीवेङ्कटेशशरणागतिस्तोत्रं सम्पूर्णम् ॥

पाठ जप: 0/108