சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

.. க³ணாதி⁴பாஷ்டகம் ..

॥ गणाधिपाष्टकम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px

गणाधिपाष्टकम्

ॐ श्रीगणेशाय नमः । श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः शिवतनयः शिरोविधृतशीतमयूखशिशुः । अविरतकर्णतालजमरुद्गमनागमनै- रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥ १॥ सकलसुरासुरादिशरणीकरणीयपदः करटिमुखः करोतु करुणाजलधिः कुशलम् । प्रबलतरान्तरायतिमिरौघनिराकरण- प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥ २॥ द्विरदमुखो धुनोतु दुरितानि दुरन्तमद- त्रिदशविरोधियूथकुमुदाकरतिग्मकरः । नतशतकोटिपाणिमकुटीतटवज्रमणि- प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥ ३॥ कलुषमपाकरोतु कृपया कलभेन्द्रमुखः कुलगिरिनन्दिनीकुतुकदोहनसंहननः । तुलितसुधाझरस्वकरशीकरशीतलता- शमितनताशयज्वलदशर्मकृशानुशिखः ॥ ४॥ गजवदनो धिनोतु धियमाधिपयोधिवल- त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् । करटकटाहनिर्गलदनर्गलदानझरी- परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥ ५। दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ- द्दितिजचमूचमूरुमृगराडिभराजमुखः । प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा- घनकुचकुम्भगाढपरिरम्भणकण्टकितः । ६। अतुलबलोऽतिवेलमघवन्मतिदर्पहरः स्फुरदहितापकारिमहिमा वपुषीढविधुः । हरतु विनायकः स विनताशयकौतुकदः कुटिलतरद्विजिह्वकुलकल्पितखेदभरम् । ७॥ निजरदशूलपाशनवशालिशिरोरिगदा- कुवलयमातुलुङ्गकमलेक्षुशरासकरः । दधदथ शुण्डया मणिघटं दयितासहितो वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः ॥ ८॥ पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं कठिनशुचाकुठावलिकठोरकुठारवरम् । विमतपराभवोद्भटनिदाघनवीनघनं विमलवचोविलासकमलाकरबालरविम् ॥ ९॥ इति गणाधिपाष्टकम्
ஜப எண்ணிக்கை: 0/108