सनातन स्तोत्र संग्रह
Aadi Shankaracharya
सनातन देव

॥ मीनाक्षी पञ्चरत्नम् ॥

stotra-a24bf5e0
रचयिता: पारंपरिक पाठ संख्या: 2
23px

उद्यद्भानु-सहस्रकोटिसदृशां केयूरहारोज्ज्वलाम् बिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम्। विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवाम् मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम्॥१॥

मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभाम् शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम्। सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेविताम् मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम्॥२॥

श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलाम् श्रीचक्राङ्कित-बिन्दुमध्यवसतीं श्रीमत्सभानायकीम्। श्रीमट्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीम् मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम्॥३॥

श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलाम् श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्। वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडाम्बिकाम् मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम्॥४॥

नानायोगिमुनीन्द्रहृन्निवसतीं नानार्थसिद्धिप्रदाम् नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम्। नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकाम् मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारान्निधिम्॥५॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं मीनाक्षी-पञ्चरत्नं सम्पूर्णम्॥

पाठ जप: 0/108