सनातन स्तोत्र संग्रह
Sri Venkatesha Stotram
सनातन देव

॥ श्री वेङ्कटेशप्रपत्ति: ॥

stotra-a24936bf
रचयिता: पारंपरिक पाठ संख्या: 3
23px

Venkatesha prapattih ॥ वेङ्कटेश-प्रपत्ति: ॥

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥

श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २॥

आनूपुरार्पितसुजातसुगन्धिपुष्प सौरभ्यसौरभकरौ समसन्निवेशौ । सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३॥

सद्योविकासिसमुदित्वरसान्द्रराग- सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४॥

रेखामयध्वजसुधाकलशातपत्र वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्व चिन्हैः श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५॥

ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६॥

सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७॥

लक्ष्मीमहीतदनुरूपनिजानुभाव- नीलादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८॥

नित्यान्नमद्विधिशिवादिकिरीटकोटि- प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः । नीराजनाविधिमुदारमुपादधानौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९॥

विष्णोः पदे परम इत्युतिदप्रशंसौ यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १०॥

पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिह तौ करदर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११॥

मन्मूर्ध्नि कालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२॥

अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ । आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३॥

प्रायः प्रपन्नजनता प्रथमावगाह्यौ मातुस्स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४॥

सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन संसारतारकदयार्द्र दृगञ्चलेन । सौम्योपयन्तृमुनिना मम दर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५॥

श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६॥

॥ इति वेङ्कटेशप्रपत्ति: ॥

पाठ जप: 0/108