সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

श्रीदुर्गाध्यानम्

श्रीदुर्गाध्यानम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

श्रीदुर्गाध्यानम्

सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः शङ्खं चक्रधनुः शरांश्च दधती नेत्रैस्त्रिभिः शोभिता । आमुक्ताङ्गदहारकङ्कणरणत्काञ्ची रणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नेल्लसत्कुण्डला ॥ १॥ मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्जितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि । निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥ हेमप्रख्यामिन्दुखण्डार्धमौलिं शङ्खारिष्टाभीतिहस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ ३॥ उद्यद्विद्युत्करालाकुलहरिगलसंस्थारिशङ्खासिखेटे- ष्विष्वासाख्यत्रिशूलानरिगणभयदा तर्जनीं सन्दधाना । चर्मास्युत्तीर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभिः दद्यात्कार्शानभीष्टान् त्रिणयनललिता चापि कात्यायनी वः ॥ ४॥ अरिशङ्खकृपाणखेटबाणान् सुधनुः शूलककर्तरीं तर्जनीं दधाना । भजतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशीश्रियेऽस्तु दुर्गा ॥ ५॥ घस्राधीशघटागभस्तिघटिता व्याघ्रासना शीघ्रगा सुघ्राणातिघृणाग्रणी घनकचा विघ्नौघनिघ्नात्मिका । घोराघातविघातिनी घनरवा घण्टास्वनैर्घर्घरा दीर्घाक्षा घुसृणान्विताङ्घ्रिरुधिरा दुर्गाघसङ्घं द्यतु ॥ ६॥ इति श्रीदुर्गाध्यानम् ॥
পাঠ জপ: 0/108