సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

మయూరేశస్తోత్రం 

मयूरेशस्तोत्रम् 
రచయిత: పారంపరిక వీక్షణలు: 2
23px
मयूरेशस्तोत्रम् ब्रह्मोवाच । पुराणपुरुषं देवं नानाक्रीडाकरं मुदा । मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम् ॥ १॥ परात्परं चिदानन्दं निर्विकारं हृदिस्थितम् । गुणातीतं गुणमयं मयूरेशं नमाम्यहम् ॥ २॥ सृजन्तं पालयन्तं च संहरन्तं निजेच्छया । सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम् ॥ ३॥ नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् । नानायुधधरं भक्त्या मयूरेशं नमाम्यहम् ॥ ४॥ इन्द्रादिदेवतावृन्दैरभिष्टतमहर्निशम् । सदसद्वक्तमव्यक्तं मयूरेशं नमाम्यहम् ॥ ५॥ सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् । सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥ ६॥ पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् । भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥ ७॥ मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम् । समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम् ॥ ८॥ सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् । सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥ ९॥ अनेककोटिब्रह्माण्डनायकं जगदीश्वरम् । अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम् ॥ १०॥ मयूरेश उवाच । इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम् । कारागृहगतानां च मोचनं दिनसप्तकात् ॥ ११॥ आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम् ॥ १२॥ इति मयूरेशस्तोत्रम्
జప గణన: 0/108