सनातन स्तोत्र संग्रह
Annapoorna Devi
सनातन देव

॥ अन्नपूर्णा उपनिषत् ॥

stotra-9fa7377f
रचयिता: पारंपरिक पाठ संख्या: 2
23px

अन्नपूर्णोपनिषत्

सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् । त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् । प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः ॥ १॥ आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् । कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥ २॥ तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम् । निदाघ त्वं कृतार्थोऽसि श‍ृणु विद्यां सनातनीम् ॥ ३॥ यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि । मूलश‍ृङ्गाटमध्यस्था बिन्दुनादकलाश्रया ॥ ४॥ नित्यानन्दा निराधारा विख्याता विलसत्कचा । विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तथा ॥ ५॥ भगवत्यन्नपूर्णेति ममाभिलषितं ततः । अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता ॥ ६॥ सप्तविंशति वर्णात्मा योगिनीगणसेविता ॥ ७॥ ऐं ह्रीं सौं श्रीं क्लीमोन्नमो भगवत्यन्नपूर्णे ममाभिलषितमन्नं देहि स्वाहा । इति पित्रोपदिष्टोऽस्मि तदादिनियमः स्थितः । कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् ॥ ८॥ एवं गते बहुदिने प्रादुरासीन्ममाग्रतः । अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा ॥ ९॥ तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः । अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् ॥ १०॥ एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव । आत्मतत्त्वं मनसि मे प्रादुर्भवतु पार्वति ॥ ११॥ तथैवास्थिति मामुक्त्वा तत्रैवान्तरधीयत । तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् ॥ १२॥ भ्रमः पञ्चविधो भाति तदेवेह समुच्यते । जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः ॥ १२॥ आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः । शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः ॥ १३॥ जगत्कारणरूपस्य विकारित्वं चतुर्थकः । कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो भ्रमः । पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि ॥ १५॥ बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः । स्फटिकलोहितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः । घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः । रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः । कनकरुचकदर्शनेन विकारित्वभ्रमो निवृत्तः । तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् । निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि ॥ १६॥ निदाघः प्रणतो भूत्वा ऋभुं पप्रच्छ सादरम् । ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् ॥ १७॥ तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञां वदामि ते । महाकर्ता महाभोक्ता महात्यागी भवानघ । स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव ॥ १८॥ नित्योदितं विमलमाद्यमनतरूपं ब्रह्मास्मि नेतरकलाकलनं हि किंचित् । इत्येव भावय निरञ्जनतामुपेतो निर्वाणमेहि सकलामलशान्तवृत्तिः ॥ १९॥ यदिदं दृश्यते किंचित्तत्तन्नास्तीति भावय । यथा गन्धर्वनगरं यथा वारि मरुस्थले ॥ २०॥ यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् । मनःषष्ठेन्द्रियातीतं तन्मयो भव वै मुने ॥ २१॥ अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् । नीरन्ध्रं भूरिवाशेषं तदस्मीति विभावय ॥ २२॥ यदा संक्षीयते चित्तमभावात्यन्तभावनात् । चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥ २३॥ नूनं चैत्यांशरहिता चिद्यदात्मनि लीयते । असद्रूपवदत्यच्छा सत्तासामान्यता तदा ॥ २४॥ दृष्टिरेषा हि परमा सदेहादेहयोः समा । मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा ॥ २५॥ व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ । ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा । अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ॥ २६॥ चिरकालपरिक्षीणमननादिपरिभ्रमः । पदमासाद्यते पुण्यं प्रज्ञयैवैकया तथा ॥ २७॥ इमं गुणसमाहारमनात्मत्वेन पश्यतः । अन्तःशीतलया यासौ समाधिरिति कथ्यते ॥ २८॥ अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च । तदेव केवलीभानं शान्ततैव च तत्सदा ॥ २९॥ तनुवासनमत्युच्चैः पदायोद्यतमुच्यते । अवासगं मनोऽकर्तृपदं तस्मादवाप्यते ॥ ३०॥ घनवासनमेतत्तु चेतःकर्तृत्वभावनम् । सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥ ३१॥ चेतसा सम्परित्यज्य सर्वभावात्मभावनाम् । सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ॥ ३२॥ यथा विपणगा लोका विहरन्तोऽप्यसत्समाः । असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः ॥ ३३॥ अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन्पठन् । पुरं जनपदं ग्राममरण्यमिव पश्यति ॥ ३४॥ अन्तःशीतलतायां तु लब्धायां शीतलं जगत् । अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ॥ ३५॥ भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥ ३६॥ यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः । न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥ ३७॥ आत्मवत्सर्वभूतानि परद्रव्याणि लोष्ठवत् । स्वभावादेव न भयाद्यः पश्यति स पश्यति ॥ ३८॥ अद्यैव मृतिरायातु कल्पान्तनिचयेन वा । नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥ ३९॥ कोऽहं कथमिदं किं वा कथं मरणजन्मनी । विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि ॥ ४०॥ विचारेण परिज्ञातस्वभावस्य सतस्तव । मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् ॥ ४१॥ विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु । न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वारणः ॥ ४२॥ कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति । कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा ॥ ४३॥ यावद्यावन्मुनिश्रेष्ठ स्वयं संतज्यतेऽखिलम् । तावत्तावत्परालोकः परमात्मैव शिष्यते ॥ ४४॥ यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ॥ ४५॥ आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् । सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव ॥ ४६॥ सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् । चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् ॥ ४७॥ समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी । ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥ ४८॥ अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी । प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः ॥ ४९॥ निश्चिता विगताभीष्टा हेयोपदेयवर्जिता । ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः ॥ ५०॥ केवलं चित्प्रकाशांशकल्पिता स्थिरतां गता । तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः ॥ ५१॥ अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते । मनोहंकारविलये सर्वभावान्तरस्थिता ॥ ५२॥ समुदेति परानन्दा या तनुः पारमेश्वरी । मनसैव मनश्छित्त्वा सा स्वयं लभ्यते गतिः ॥ ५३॥ तदनु विषयवासनाविनाश- स्तदनु शुभः परमः स्फुटप्रकाशः । तदनु च समतावशात्स्वरूपे परिणमनं महतामचिन्त्यरूपम् ॥ ५४॥ अखिलमिदमनन्तमनन्तमात्मतत्त्वं दृढपरिणामिनि चेतसि स्थितोऽन्तः । बहिरुपशमिते चराचरात्मा स्वयमनुभूयत एव देवदेवः ॥ ५५॥ असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् । सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् ॥ ५६॥ अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् । बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥ ५७॥

इति प्रथमोऽध्यायः ॥ १॥

निदाघ उवाच ॥ सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् । कश्च मोक्षाय कथितः कथं त्वेष चिकित्स्यते ॥ १॥ देहदेहिविभागैकपरित्यागेन भावना । देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते ॥ २॥ सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् । इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् ॥ ३॥ नाहमस्मि न चान्योस्ति न चायं न च नेतरः । सोऽसङ्ग इति सम्प्रोक्तो ब्रह्मास्मीत्येव सर्वदा ॥ ४॥ नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते । सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ५॥ सर्वकर्मफलादीनां मनसैव न कर्मणा । निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ६॥ असंकल्पेन सकलाश्चेष्टा नाना विजृंभिताः । चिकित्सिता भवन्तीह श्रेयः सम्पादयन्ति हि ॥ ७॥ न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु । न गमागमचेष्टासु न कालकलनासु च ॥ ८॥ केवलं चिति विश्रम्य किंचिच्चैत्यावलंब्यपि । सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः ॥ ९॥ व्यवहारमिदं सर्वं मा करोतु करोतु वा । अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः ॥ १०॥ अथवा तमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः । जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि ॥ ११॥ चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ॥ १२॥ एषा निदाघ सौषुप्तस्थितिरभ्यासयोगतः । प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः ॥ १३॥ अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् । आनन्दैकान्तशीलत्वादनानन्दपदं गतः ॥ १४॥ अनानन्दमहानन्दकालातीतस्ततोऽपि हि । मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः ॥ १५॥ परिगलितसमस्तजन्मपाशः सकलविलीनतमोमयाभिमानः । परमरसमयीं परात्मसत्तां जलगतसैन्धवखण्डवन्महात्मा ॥ १६॥ जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् । अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ॥ १७॥ दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते । द्रव्यदर्शनसंबन्धे यानुभूतिरनामया ॥ १८॥ तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् । सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु ॥ १९॥ आत्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः । न चेतनो न च जडो न चैवासन्न सन्मयः ॥ २०॥ नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः । यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् ॥ २१॥ दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् । तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् ॥ २२॥ न मोक्षो नभसः पृष्ठे न पाताले न भूतले । सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते ॥ २३॥ मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः । मननोत्थे मनस्यैष बन्धः सांसारिको दृढः ॥ २४॥ आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा तते । को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु ॥ २५॥ अध्यात्मरतिराशान्तः पूर्णपावनमानसः । प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति ॥ २६॥ सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि । यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥ २७॥ नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति । न संस्मरत्यतीतं च सर्वमेव करोति च ॥ २८॥ अनुबन्धपरे जन्तावसंसर्गमनाः सदा । भक्ते भक्तसमाचरः शठे शठ इव स्थितः ॥ २९॥ बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् । युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः ॥ ३०॥ धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः । प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः ॥ ३१॥ अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते । मनः प्रशममायाति निर्वाणमवशिष्यते ॥ ३२॥ यतो वाचो निवर्तन्ते विकल्पकलनान्विताः । विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते ॥ ३३॥ अनाद्यन्तावभासात्मा परमात्मैव विद्यते । इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः ॥ ३४॥ यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये । यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता ॥ ३५॥ सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ । क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते ॥ ३६॥ सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता । ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् ॥ ३७॥ दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना । सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ॥ ३८॥ मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः । आदावन्ते च संशान्तस्वरूपमविनाशि यत् ॥ ३९॥ वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा । द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः ॥ ४०॥ स्फुरत्यात्मभिरात्मैव चित्तैरब्धीव वीचिभिः । आपत्करञ्जपरशुं पराया निर्वृतेः पदम् ॥ ४१॥ शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया । यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः ॥ ४२॥ कृतस्फारविचारस्य मनोभोगादयोऽरयः । मनागपि न भिन्दन्ति शैलं मन्दानिला इव ॥ ४३॥ नानात्वमस्ति कलनासु न वस्तुतोऽन्त- र्नानाविधासु सरसीव जलादिवान्यत् । इत्येकनिश्चयमयः पुरुषो विमुक्त इत्युच्यते समवलोकितसम्यगर्थः ॥ ४४॥

इति द्वितीयोऽध्यायः ॥ २॥

विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः । कं योगं समुपस्थाय प्राप्तवान्परमं पदम् ॥ १॥ सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः । कौण्डिन्यात्तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ ॥ २॥ जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्मवित्तमः । सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः ॥ ३॥ बद्धपद्मासनस्तिष्ठन्नर्धोन्मीलितलोचनः । बाह्यानाभ्यान्तरांश्चैव स्पर्शान्परिहरञ्छनैः ॥ ४॥ ततः स्वमनसः स्थैर्यं मनसा विगतैनसा । अहो नु चञ्चलमिदं प्रत्याहृतमपि स्फुटम् ॥ ५॥ पटाद्घटमुपायाति घटाच्छकटमुत्कटम् । चित्तमर्थेषु चरति पादपेष्विव मर्कटः ॥ ६॥ पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम् । बुद्धीन्द्रियाभिधानानि तान्येवालोकयाम्यहम् ॥ ७॥ हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः । चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् ॥ ८॥ तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः । परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः ॥ ९॥ स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् । अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः ॥ १०॥ ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः । तदितोऽस्तं गत इव ह्यस्तं गत इवोदितः ॥ ११॥ समः समरसाभासस्तिष्ठामि स्वच्छतां गतः । प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान् ॥ १२॥ तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः । सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि ॥ १३॥ त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविनिर्मितान् । सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ॥ १४॥ जहाविन्द्रियतन्मात्रजालं खग इवानलः । ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम् ॥ १५॥ सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः । जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः ॥ १६॥ चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः । सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः ॥ १७॥ सुषुप्तस्थैर्यमासाद्य तुर्यरूपमुपाययौ । निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः ॥ १८॥ ततस्तु संबभूवासौ यद्गिरामप्यगोचरः । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ १९॥ विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् । पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ २०॥ शिवः शैवागमस्थानां कालः कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् ॥ २१॥ यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः । यदनुक्तमनिष्पन्दं दीपकं तेजसामपि ॥ २२॥ स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः । यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् । यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसु स्थितः ॥ २३॥ अजममरमनाद्यमाद्यमेकं पदममलं सकलं च निष्कलं च । स्थित इति स तदा नभःस्वरूपा- दपिविमलस्थितिरीश्वरः क्षणेन ॥ २४॥

इति तृतीयोऽध्यायः ॥ ३॥

जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् । तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते ॥ १॥ अनात्मविदमुक्तोऽपि नभोविहरणादिकम् । द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव स द्विजः ॥२॥ नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् । आत्मनात्मनि संतृप्तो नाविद्यामनुधावति ॥ ३॥ ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः । त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति ॥ ४॥ यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति । सिद्धिसाधनैर्योगैस्तानि साधयति क्रमात् ॥ ५॥ द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ ६॥ यस्येच्छा विद्यते काचित्सा सिद्धिं साधयत्यहो । निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् ॥ ७॥ सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने । स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः ॥ ८॥ अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले । अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी ॥ ९॥ अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् । कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥ १०॥ ये हि विज्ञातविज्ञेया वीतरागा महाधियः । विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थितः ॥ ११ सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् । निश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः ॥ १२॥ आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः । यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः ॥ १३॥ द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः ॥ १४॥ चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च । चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् ॥ १५॥ मनस्तां मूढतां विद्धि यदा नश्यति सानघ । चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् ॥ १६॥ मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् । भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः ॥ १७॥ सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते । निदाघाऽरूपनाशस्तु वर्तते देहमुक्तिके ॥ १८॥ विदेहमुक्त एवासौ विद्यते निष्कलात्मकः । समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते ॥ १९॥ विदेहमुक्तौ विमले पदे परमपावने । विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके ॥ २०॥ चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते । न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोकता ॥ २१॥ न चोदयो नास्तमयो न हर्षामर्षसंविदः । न तेजो न तमः किंचिन्न सन्ध्यादिनरात्रयः । न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् ॥ २२॥ ये हि पारं गता बुद्धेः संसाराडम्बरस्य च । तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् ॥ २३॥ संशान्तदुःखमजडात्मकमेकसुप्त- मानन्दमन्थरमपेतरजस्तमो यत् । आकाशकोशतनवोऽतनवो महान्त- स्तस्मिन्पदे गलितचित्तलवा भवन्ति ॥ २४॥ हे निदाघ महाप्राज्ञ निर्वासनमना भव । बलाच्चेतः समाधाय निर्विकल्पमना भव ॥ २५॥ यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् । स एव जगतः साक्षी सर्वात्मा विमलाकृतिः ॥ २६॥ प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः । तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वनम् ॥ २७॥ एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः ॥ २८॥ सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् । सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् ॥ २९॥ न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वातः सकलाश्च देवताः । स एव देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते ॥ ३०॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३१॥ द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ । तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः ॥ ३२॥ केवलं साक्षिरूपेण विना भोगो महेश्वरः । प्रकाशते स्वयं भेदः कल्पितो मायया तयोः । चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः ॥ ३३॥ तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः । चिदेकत्वपरिज्ञाने न शोचति न मुह्यति ॥ ३४॥ अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् । अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः ॥ ३५॥ स्वशरीरे स्वयंज्योतिस्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः ॥ ३६॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ३७॥ बालेनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् । ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ ३८॥ अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् । संसृतिव्रततेर्बीजं शरीरं विद्धि भौतिकम् ॥ ३९॥ भावाभावदशाकोशं दुःखरत्नसमुद्गकम् । बीजमस्य शरीरस्य चित्तमाशावशानुगम् ॥ ४०॥ द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः । एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना ॥ ४१॥ यदा प्रस्पन्दन्ते प्राणो नाडीसंस्पर्शनोद्यतः । तदा संवेदनमयं चित्तमाशु प्रजायते ॥ ४२॥ सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते । संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम् ॥ ४३॥ योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् । प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः ॥ ४४॥ चित्तोपशान्तिफलदं परमं विद्धि कारणम् । सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः ॥ ४५॥ दृढभावनया त्यक्तपूर्वापरविचारणम् । यदादानं पदार्थस्य वासना सा प्रकीर्तिता ॥ ४६॥ यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् । स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥ ४७॥ अवासनत्वात्सततं यदा न मनुते मनः । अमनस्ता तदोदेति परमोपशमप्रदा ॥ ४८॥ यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि । तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते ॥ ४९॥ यदभावनमास्थाय यदभावस्य भावनम् । यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते ॥ ५०॥ सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् । वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् ॥ ५१॥ भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता । वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः ॥ ५२॥ सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः । अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः ॥ ५३॥ संवेद्यसम्परित्यागात्प्राणस्पन्दनवासने । समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः ॥ ५४॥ पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते । संविदस्तत्प्रयत्नेन मार्जनीयं विजानता ॥ ५५॥ तदमार्जनमात्रं हि महासंसारतां गतम् । तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते ॥ ५६॥ अजडो गलितानन्दस्त्यक्तसंवेदनो भव ॥ ५७॥ संविद्वस्तुदशालम्बः सा यस्येह न विद्यते । सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि ॥ ५८॥ संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासावजडा संविज्जीवन्मुक्तः स कथ्यते ॥ ५९॥ यदा न भाव्यते किंचिन्निर्वासनतयात्मनि । बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् ॥ ६०॥ तदा जाड्यविनिर्मुक्तमसंवेदनमाततम् । आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते ॥ ६१॥ समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः । तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते ॥ ६२॥ तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः । अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी ॥ ६३॥ एतां दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् । तरेद्दुःखाम्बुधेः पारमपारगुणसागरः ॥ ६४॥ विशेषं सम्परित्यज्य सन्मात्रं यदलेपकम् । एकरूपं महारूपं सत्तायास्तत्पदं विदुः ॥ ६५॥ कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव ॥ ६६॥ सत्तासामान्यमेवैकं भावयन्केवलं विभुः । परिपूर्णः परानन्दि तिष्ठापूरितदिग्भरः ॥ ६७॥ सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् । पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते ॥ ६८॥ तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति । भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् ॥ ६९॥ तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते । स सारः सर्वसाराणां तस्मात्सारो न विद्यते ॥ ७०॥ तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ॥ ७१॥ तदमलमरजं तदात्मतत्त्वं तदवगतावुपशान्तिमेति चेतः । अवगतविगतैकतत्स्वरूपो भवभयमुक्तपदोऽसि सम्यगेव ॥ ७२॥ एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् । तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् ॥ ७३॥ सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि । पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् ॥ ७४॥ स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् । क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ॥७५॥ सत्तासामान्यरूपे वा करोषि स्थितिमादरात् । तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् ॥ ७६॥ संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि । तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् ॥ ७७॥ वासनासम्परित्यागे यदि यत्नं करोषि भोः । यावद्विलीनं न मनो न तावद्वासनाक्षयः ॥ ७८॥ न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति । यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः ॥ ७९॥ यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् । यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः । यावन्न तत्त्वसम्प्राप्तिर्न तावद्वासनक्षयः ॥ ८०॥ तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च । मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः ॥ ८१॥ भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाचर ॥ ८२॥ वासनाक्षयविज्ञानमनोनाशा महामते । समकालं चिराभ्यस्ता भवन्ति फलदा मताः ॥ ८३॥ त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव ॥ ८४॥ वासनासम्परित्यागसमं प्राणनिरोधनम् । विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत् ॥ ८५॥ वासनासम्परित्यागाच्चित्तं गच्छत्यचित्तताम् । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ॥ ८६॥ प्राणायामदृढाध्यासैर्युक्त्या च गुरुदत्तया । आसनाशनयोगेन प्राणस्पन्दो निरुध्यते ॥ ८७॥ निःसङ्गव्यवहारत्वाद्भवभावनवर्जनात् । शरीरनाशदर्शित्वाद्वासना न प्रवर्तते ॥ ८८॥ यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि । प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः ॥ ८९॥ न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् । शुद्धां संविदमाश्रित्यवीतरागः स्थिरो भव ॥ ९०॥ संवेद्यवर्जितमनुत्तममाद्यमेकं संविदत्पदं विकलनं कलयन्महात्मन् । हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥ ९१॥ मनागपि विचारेण चेतसः स्वस्य निग्रहः । पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् ॥ ९२॥

इति चतुर्थोऽध्यायः ॥ ४॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा । न विचारपरं चेतो यस्यासौ मृत उच्यते ॥ १॥ सम्यग्ज्ञानसमालोकः पुमाऽज्ञेयसमः स्वयम् । न बिभेति न चादत्ते वैवश्यं न च दीनताम् ॥ २॥ अपवित्रमपथ्यं च विषसंसर्गदूषितम् । भुक्तं जरयति ज्ञानी क्लिन्नं नष्ठं च मृष्टवत् ॥ ३॥ सञ्ण्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता । सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ ॥ ४॥ भावाभावे पदार्थानां हर्षामर्षविकारदा । मलिना वासना यैषा साऽसङ्ग इति कथ्यते ॥ ५॥ जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी । मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना ॥ ६॥ दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः । आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज ॥ ७॥ दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् । चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् ॥ ८॥ इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् । एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव ॥ ९॥ नास्ति चित्तं न चाविद्या न मनो न च जीवकः । ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते ॥ १०॥ देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता । यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥ ११॥ अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् । जुह्वन्तोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः ॥ १२॥ चिदात्मास्मि निरंशोऽस्मि परापरविवर्जितः । रूपं स्मरन्निजं स्फारं मा स्मृत्या संमितो भव ॥ १३॥ अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका । क्षीयते भावितेनान्तः शरदा मिहिका यथा ॥ १४॥ परिज्ञाय परित्यागो वासानानं य उत्तमः । सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः ॥ १५॥ यन्नास्ति वासना लीना तत्सुषुप्तं न सिद्धये । निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् ॥ १६॥ वासनायास्तथा वह्नेरृणव्याधिद्विषामपि । स्नेहवैरविषाण च शेषः स्वल्पोऽपि बाधते ॥ १७॥ निर्दग्धवासनाबीजः सत्तासामान्यरूपवान् । सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् ॥ १८॥ एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः । एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः ॥ १९॥ ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा । ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रबान्धवाः ॥ २०॥ ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् । सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते ॥ २१॥ असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते । या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् ॥ २२॥ प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् । विगताशेषसंरंभं चिदात्मानं समाश्रय ॥ २३॥ एवं पूर्णधियो धीराः समा नीरागचेतसः । न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा ॥ २४॥ प्राणोऽयमनिशं ब्रह्मस्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरे देहेप्राणोऽसावूर्ध्वगः स्थितः ॥ २५॥ अपानोऽप्यनिशं ब्रह्मस्पन्दशक्तिः सदागतिः । सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः ॥ २६॥ जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः । प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे श‍ृणु ॥ २७॥ द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः । प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते ॥ २८॥ अपानश्चन्द्रमा देहमाप्याययति सुव्रत । प्राणः सूर्योऽग्निरथ वा पचत्यनत्रिदं वपुः ॥ २९॥ प्राणक्षयसमीपस्थमपानोदयकोटिगम् । अपानप्राणयोरैक्यं चिदात्मानं समाश्रय ॥ ३०॥ अपानोऽस्तंगतो यत्र प्राणो नाभ्युदितः क्षणम् । कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय ॥ ३१॥ नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः । नासाग्रगमनावर्तं तच्चित्तत्त्वमुपाश्रय ॥ ३२॥ आभासमात्रमेवेदं न सनासज्जगत्त्रयम् । इत्यन्यकलनात्यागं सम्यग्ज्ञानं विदुर्बुधाः ॥ ३३॥ आभासमात्रकं ब्रह्मंश्चित्तदर्शकलङ्कितम् । ततस्तदपि संत्यज्य निराभासो भवोत्तम ॥३४॥ भयप्रदमकल्याणं धैर्यसर्वस्वहारिणम् । मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव ॥ ३५॥ चिद्व्योमेव किलास्तीह परापरविवर्जितम् । सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽवशिष्यते ॥ ३६॥ वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् । तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ॥ ३७॥ आशा यातु निराशात्वमभावं यातु भावना । अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥ ३८॥ वासनारहितैरन्तरिन्द्रियैराहरन्क्रिया । न विकारमवाप्नोषि खवत्क्षोभशतैरपि ॥ ३९॥ चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ । वासनाप्राणसंरोधमनुन्मेषं मनः कुरु ॥ ४०॥ प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ । तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ॥ ४१॥ मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ । तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः ॥ ४२॥ असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् । प्राणानां वा निरोधेन तदेव परमं पदम् ॥ ४३॥ दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् । तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्यावलोकय ॥ ४४॥ यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् । क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥ ४५॥ यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि । तदेव तुर्यावस्थायं तुर्यातीतं भवत्यतः ॥ ४६॥ संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः । संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव ॥ ४७॥ सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् । न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः ॥ ४८॥ सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना । सांख्य एवावबुद्धा ये ते सांख्या योगिनः परे ॥ ४९॥ प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः । अनामयमनाद्यन्तं ते स्मृता योगयोगिनः ॥ ५०॥ उपादेयं तु सर्वेषां शातं पदमकृत्रिमम् । एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः ॥ ५१॥ एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् । अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी ॥ ५२॥ आधाराधेयवच्चैते एकभावे विनश्यतः । कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् ॥ ५३॥ सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः । तदाहंकारविलये त्वमेव परमं पदम् ॥ ५४॥ महाचिदेकैवेहास्ति महासत्तेति योच्यते । निष्कलंका समा शुद्धा निरहंकाररूपिणी ॥ ५५॥ सकृद्विभाता विमला नित्योदयवती समा । सा ब्रह्म परमात्मेति नामभिः परिगीयते ॥ ५६॥ सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् । न भूतं न भविष्यच्च चिन्तयामि कदाचन ॥ ५७॥ दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना । इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् ॥ ५८॥ न स्तौमि न च निन्दामि आत्मनोऽन्यन्नहि क्वचित् । न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे ॥ ५९॥ प्रशान्तचापलं वीतशोकमस्तसमीहितम् । मनो मम मुने शान्तं तेन जीवाम्यनामयः ॥ ६०॥ अयं बन्धुः परश्चायं ममायमयमन्यकः । इति ब्रह्मन्न जानामि संस्पर्शं न ददाम्यहम् ॥ ६१॥ वासनामात्रसंत्यागाज्जरामरणवर्जितम् । सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः ॥ ६२॥ चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः । शिष्यते परमं शान्तमेकमगच्छमनामयम् ॥ ६३॥ अनन्तमजमव्यक्तमजरं शान्तमच्युतम् । अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् ॥ ६४॥ एकमाद्यन्तरहितं चिन्मात्रममलं ततम् । खादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः ॥ ६५॥ दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् । सर्वार्थमयमेकार्थं चिन्मात्रममलं भव ॥ ६६॥ सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् । भावाभावमजं सर्वमिति मत्वा सुखी भव ॥ ६७॥ न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् । द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः । एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि ॥ ६८॥ पदार्थवृन्दे देहादिधिया संत्यज्य दूरतः । आशीतलान्तःकरणो नित्यमात्मपरो भव ॥ ६९॥ इदं रम्यमिदं नेति बीजं ते दुःखसंततेः । तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः ॥ ७०॥ शास्त्रसज्जनसम्पर्कैः प्रज्ञामादौ विवर्धयेत् ॥ ७१॥ ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् । अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् ॥ ७२॥ तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनूपमम् ॥ ७३॥ आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये ॥ ७४॥ समाधिः संविदुत्पत्तिः परजीवैकतं प्रति । नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः ॥ ७५॥ एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः । तस्मादद्वैत एवास्ति न प्रपञ्चो न संसृतिः ॥ ७६॥ यथाकाशो घटाकाशो महाकाश इतीरितः । तथा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना ॥ ७७॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽऽव्यवधानेन तदा सम्पद्यते स्वयम् ॥ ७८॥ यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति । सर्वभूतेषु चात्मानं ब्रह्म सम्पद्यते सदा ॥ ७९॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ ८०॥ शास्त्रसज्जनसम्पर्कवैराग्याभ्यासरूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी ॥ ८१॥ विचारणा द्वितीया स्यात्तृतीया साङ्गभावना । विलापिनी चतुर्थी स्याद्वासना विलयात्मिका ॥ ८२॥ शुद्धसंविन्मनानन्दरूपा भवति पञ्चमी । अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति ॥ ८३॥ असंवेदनरूपा च षष्ठी भवति भूमिका । आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः ॥ ८४॥ तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला । समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् ॥ ८५॥ तुर्यातीता तु यावस्था परा निर्वाणरूपिणी । सप्तमी सा परा प्रौढा विषयो नैव जीवताम् ॥ ८६॥ पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् । चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् ॥ ८७॥ आनन्दैकघनाकारा सुषुप्ताख्या तु पञ्चमी । असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा ॥ ८८॥ तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा । मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका ॥ ८९॥ अन्तः प्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् । मुक्त एव न सन्देहो महासमतया तया ॥ ९०॥ न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः । अहं न किंचिच्चिदिति मत्वा धीरो न शोचति ॥ ९१॥ अलेपकोऽहमजरो नीरागः शान्तवासनः । निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति ॥ ९२॥ अहंमत्या विरहितः शुद्धो बुद्धोऽजरोऽमरः । शान्तः शमसमाभास इति मत्वा न शोचति ॥ ९३॥ तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च । यत्तिष्ठति तदेवाहमिति मत्वा न शोचति ॥ ९४॥ भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः । अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय ॥ ९५॥ वाचामतीतविषयो विषयाशादशोज्झितः । परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि ॥ ९६॥ सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः । न पुण्येन न पापेन नेतरेण च लिप्यते ॥ ९७॥ स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् । तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् ॥ ९८॥ विहरञ्जनतावृन्दे देवकीर्तन पूजनैः । खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव ॥ ९९॥ निस्स्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः । संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः ॥ १००॥ तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा । ज्ञानसम्पत्तिसमये मुक्तोऽसौ विगताशयः ॥ १०१॥ संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज । मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु ॥ १०२॥ सावधानो भव त्वं च ग्राह्यग्राहकसंगमे । अजस्रमेव संकल्पदशाः परिहरञ्शनैः ॥ १०३॥ मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ १०४॥ किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ । न किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ ॥ १०५॥ अस्मात्पदार्थनिचयाद्यावत्स्थावरजङ्गमात् । तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् ॥ १०६॥ अहंभावानहंभावौ त्यक्त्वा सदसती तथा । यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥ १०७॥ या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः । साक्ष्यवस्था व्यवहृतौ सा तुर्या कलनोच्यते ॥ १०८॥ नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात् । सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः ॥ १०९॥ शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् । विलीनं तुर्यमित्याहुरबुद्धानां स्थितं स्थिरम् ॥ ११०॥ अहंकारकलात्यागे समतायाः समुद्गमे । विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥ १११॥ सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् ॥ ११२॥ शान्त एव चिदाकाशे स्वच्छे शमसमात्मनि । समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे ॥ ११३॥ सर्वमेव परित्यज्य महामौनी भवानघ । निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः ॥ ११४॥ आत्मन्येवास्व शान्तात्मा मूकान्धबधिरोपमः । नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः ॥ ११५॥ जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज । अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् ॥ ११६॥ चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् । अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् ॥ ११७॥ दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्सदा । एतावतात्मयत्नेन जिता भवति संसृतिः ॥ ११८॥ वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् । नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः ॥ ११९॥ अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् । स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् ॥ १२०॥ इत्युपनिषत् ॥ इति पञ्चमोऽध्यायः ॥ ५॥ ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इत्यन्नपूर्णोपनिषत्समाप्ता ॥
पाठ जप: 0/108