సనాతన స్తోత్ర నిధి
Aadi Shankaracharya
సనాతన దేవ

.. శారదా ప్రార్థనా ..

॥ शारदा प्रार्थना ॥
రచయిత: పారంపరిక వీక్షణలు: 7
23px

॥ शारदा प्रार्थना ॥

नमस्ते शारदे देवि काश्मीरपुरवासिनि। त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे॥१॥

या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा। भक्तजिह्वाग्रसदना शमादिगुणदायिनी॥२॥

नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम्। भवानीं भवसन्तापनिर्वापणसुधानदीम्॥३॥

भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः। वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च॥४॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी। सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः॥५॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं भवेत्। ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः॥६॥

यया विना जगत्सर्वं मूकमुन्मत्तवत् सदा। या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः॥७॥

॥ इति श्रीमच्छङ्कराचार्यविरचिता श्री शारदा प्रार्थना सम्पूर्णा ॥

జప గణన: 0/108