சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீக³ணேஶகீலகஸ்தோத்ரம்

श्रीगणेशकीलकस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

श्रीगणेशकीलकस्तोत्रम्

दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः ॥ १॥ मुद्गल उवाच । कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः । आदौ कीलकमेवं वै पठित्वा जपमाचरेत् ॥ २॥ तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः । भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम् ॥ ३॥ समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम् । सिद्धिदं वै गणेशस्य कीलकं श‍ृणु मानद ॥ ४॥ अस्य श्रीगणेशकीलकस्य शिव ऋषिः । अनुष्टुप्छन्दः । श्रीगणपतिर्देवता । ॐ गं योगाय स्वाहा । ॐ गं बीजम् । विद्याविद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः । छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान् । एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः ॥ ५॥ ततो ध्यायेद्गणेशानं ज्योतिरूपधरं परम् । मनोवाणीविहीनं च चतुर्भुजविराजितम् ॥ ६॥ शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते । विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम् ॥ ७॥ एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक् । पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत् ॥ ८॥ एकविंशतिवारं तु जपं कुर्यात्प्रजापते । ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत् ॥ ९॥ रूपं बलं श्रियं देहि यशो वीर्यं गजानन । मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते ॥ १०॥ यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः । तदा त्वं तान्निहत्य स्म करोषि वीर्यसंयुतान् ॥ ११॥ तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः । शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः ॥ १२॥ शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो । ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः ॥ १३॥ चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत् । त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते ॥ १४॥ तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप । स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः ॥ १५॥ ब्रह्माणि योगहीनानि जातानि स्मरणेन ते । यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ १६॥ इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो । सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः ॥ १७॥ तथा मन्त्रा गणेशान वीर्यहीना बभूविरे । स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते ॥ १८॥ सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो । मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ १९॥ उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः । सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः ॥ २०॥ गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने । स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः ॥ २१॥ गणेशकीलकमिदं कथितं ते प्रजापते । शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम् ॥ २२॥ यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम् । स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम् ॥ २३॥ एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा । स सर्वफलहीनश्च जायते नात्र संशयः ॥ २४॥ सर्वसिद्धिकरं प्रोक्तं कीलकं परमाद्भुतम् । पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत् ॥ २५॥ विष्णुर्ब्रह्मादयो देवा मुनयो योगिनः परे । अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते ॥ २६॥ ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः । गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह ॥ २७॥ सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु । गणेशदर्शनेनैव ज्योतीरूपो बभूव ह ॥ २८॥ दक्ष उवाच । ऐलो जडशरीरस्थः कथं देवादिकैर्युतम् । ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम् ॥ २९॥ पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते । अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान् ॥ ३०॥ मुद्गलवाच । विमानस्थः स्वयं राजा कृपया तान् ददर्श ह । गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो ॥ ३१॥ स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे । योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा ॥ ३२॥ एतत्ते कथितं सर्वमैलस्य चरितं शुभम् । यः श‍ृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम् ॥ ३३॥ इति श्रीमुद्गलमहापुराणे पंचमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रम् ।
ஜப எண்ணிக்கை: 0/108