॥ শ্রীলক্ষ্মী অষ্টোত্তরশতনামস্তোত্রম্ ॥
॥ श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् ॥
देव्युवाच देवदेव महादेव त्रिकालज्ञ महेश्वर । करुणाकर देवेश भक्तानुग्रहकारक । अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥ १॥
ईश्वर उवाच देवि साधु महाभागे महाभाग्यप्रदायकम् । सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ३॥
दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् । पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् । किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥ ५॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः शृणु । अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६॥
क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी । अङ्गन्यासः करन्यासः स इत्यादिः प्रकीर्तितः ॥ ७॥ ध्यानम् वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां-
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ८॥
सरसिजनयने सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९॥
प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् । श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १०॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् । धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ ११॥
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् । नमामि कमलां कान्तां कामाक्षीं क्रोधसम्भवाम् ॥ १२॥
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् । अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ १३॥
नमामि धर्मनिलयां करुणां लोकमातरम् । पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ १४॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् । पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ १५॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् । नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ १६॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् । आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ १७॥
विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् । प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ १८॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् । वसुन्धरामुदाराङ्गीं हरिणीं हेममालिनीम् ॥ १९॥
धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् । नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ २०॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् । नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ २१॥
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् । दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ २२॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् । त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ २३॥
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् । श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ २४॥
मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः । क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥ २५॥
त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः । दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ २६॥
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् । येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २७॥
भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ २८॥
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् । येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥ २९॥
भुक्त्वा तु विपुलान् भोगान् अन्ते सायुज्यमाप्नुयात् । प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये । पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ ३०॥
॥ इति श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रम् ॥