సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

.. అక్ష్యుపనిషత్ ..

॥ अक्ष्युपनिषत् ॥
రచయిత: పారంపరిక వీక్షణలు: 2
23px
॥ अक्षि उपनिषत् ॥ यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् । विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ अथ ह सांकृतिर्भगवानादित्यलोकं जगाम । तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् । ॐ नमो भगवते श्रीसूर्या याक्षितेजसे नमः । ॐ खेचराय नमः । ॐ महासेनाय नमः । ॐ तमसे नमः । ॐ रजसे नमः । ॐ सत्त्वाय नमः । ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय । हंसो भगवा ञ्छुचिरूपः प्रतिरूपः । विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः । ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि वाहिनि स्वाहेति । एवं चाक्षुष्मतीविद्यया स्तुतः श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुलेऽन्धो भवति । अष्टौ ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति । य एवं वेद स महान्भवति ॥ १॥ अथ ह सांकृतिरादित्यं पप्रच्छ भगवन् ब्रह्मविद्यां मे ब्रूहीति । तमादित्यो होवाच । सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् । येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ॥१॥ सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् । पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् ॥ २॥ अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् । योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु ॥ ३॥ विरागमुपयात्यन्तर्वासनास्वनुवासरम् । क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् ॥ ४॥ ग्राम्यासु जडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते ॥ ५॥ अनन्योद्वेगकारीणि मृदुकर्माणि सेवते । पापाद्बिभेति सततं न च भोगमपेक्षते ॥ ६॥ स्नेहप्रणयगर्भाणि पेशलान्युचितानि च । देशकालोपपन्नानि वचनान्यभिभाषते ॥ ७॥ मनसा कर्मणा वाचा सज्जनानुपसेवते । यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते ॥ ८॥ तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् । एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति ॥ ९॥ स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः । विचारनाम्नीमितरामागतो योगभूमिकाम् ॥ १०॥ श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः । मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् ॥ ११॥ पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् । जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥ १२॥ मदाभिमानमात्सर्यलोभमोहातिशायिताम् । बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् ॥ १३॥ इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया । सरहस्यमशेषेण यथावदधिगच्छति ॥ १४॥ असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् । ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् ॥ १५॥ यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् । तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः । शिलाशय्यासनासीनो जरयत्यायुराततम् ॥ १६॥ वनावनिविहारेण चित्तोपशमशोभिना । असङ्गसुखसौख्येन कालं नयति नीतिमान् ॥ १७॥ अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् । जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति ॥ १८॥ तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् ॥ १९॥ द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु । द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च ॥ २०॥ नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः । इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् ॥ २१॥ प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा । सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता ॥ २२॥ भोगाभोगा महारोगाः संपदः परमापदः । वियोगायैव संयोगा आधयो व्याधयो धियाम् ॥ २३॥ कालश्च कलनोद्युक्तः सर्वभावाननारतम् । अनास्थयेति भावानां यदभावनमान्तरम् । वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः ॥ २४॥ अनेन क्रमयोगेन संयोगेन महात्मनाम् । नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम ॥ २५॥ कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् । यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते ॥ २६॥ सन्तोषामोदमधुरा प्रथमोदेति भूमिका । भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥ २७॥ एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः । द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥ २८॥ श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि । भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥ २९॥ भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते । समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥ ३०॥ अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥ ३१॥ भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते ॥ ३२॥ चित्तं तु शरदभ्रांशविलयं प्रविलीयते । सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः ॥ ३३॥ जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् । पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् । शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः ॥ ३४॥ गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् । सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः ॥ ३५॥ अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् । परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ ३६॥ कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः । षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् ॥ ३७॥ यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः । केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः ॥ ३८॥ निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः । अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः ॥ ३९॥ षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् ॥ ४०॥ विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका । अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु ॥ ४१॥ लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् । शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु ॥ ४२॥ ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् । वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः ॥ ४३॥ अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः । प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु ॥ ४४॥ समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः । स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् ॥ ४५॥ चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः । परमानन्दसन्देहो वासुदेवोऽहओमिति ॥ ४६॥ आदिमध्यावसानेषु दुःखं सर्वमिदं यतः । तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ ॥ ४७॥ अविद्यातिमिरातीतं सर्वाभासविवर्जितम् । आनन्दममलं शुद्धं मनोवाचामगोचरम् ॥ ४८॥ प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् ॥ ४९॥ इत्युपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ ॥ इत्यक्ष्युपनिषत् ॥
జప గణన: 0/108