सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीसिद्धिविनायक अष्टोत्तरशतनामावलिः

stotra-9c6b885d
रचयिता: पारंपरिक पाठ संख्या: 8
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

श्री सिद्धिविनायक अष्टोत्तरशतनामावलिः

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ गणानामधिपश्चण्डो गजवक्त्रस्तिलोचनः । प्रीतो भवतु मे नित्यं वरदाता विनायकः ॥ गजाननं गणपतिं गुणानामालयं परम् । तं देवं गिरिजासूनुं वन्देऽहम् अमरार्चितम् ॥ गजवदनम् अचिन्त्यं तीक्ष्णदन्तं त्रिनेत्रम् बृहदुदरम् अशेषं पूतरूपं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशम् पशुपतिसुतम् ईशं विघ्नराजं नमामि ॥ हरिहरविरिञ्चिवासवाद्यैः अपि कृतपूजमुपक्रमे क्रियायाः सकलदुरितहरम् अम्बिकायायाः प्रथमसुतं प्रणमामि विघ्नराजम् ॥ ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम् एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् । शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोलमत्तालिमालं श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥ बीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पल- व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नो विशिष्टार्त्थदः ॥ ॐ विनायकाय नमः । ॐ विघ्नराजाय नमः । ॐ गौरीपुत्राय नमः । ॐ गणेश्वराय नमः । ॐ स्कन्दाग्रजाय नमः । ॐ अव्ययाय नमः । ॐ पूताय नमः । ॐ दक्षाध्यक्ष्याय नमः । ॐ द्विजप्रियाय नमः । ॐ अग्निगर्भच्छिदे नमः । १० ॐ इन्द्रश्रीप्रदाय नमः । ॐ वाणीबलप्रदाय नमः । ॐ सर्वसिद्धिप्रदाय नमः । ॐ शर्वतनयाय नमः । ॐ गौरीतनूजाय नमः । ॐ शर्वरीप्रियाय नमः । ॐ सर्वात्मकाय नमः । ॐ सृष्टिकर्त्रे नमः । ॐ देवोऽनेकार्चिताय नमः । ॐ शिवाय नमः । २० ॐ शुद्धाय नमः । ॐ बुद्धिप्रियाय नमः । ॐ शान्ताय नमः । ॐ ब्रह्मचारिणे नमः । ॐ गजाननाय नमः । ॐ द्वैमातुराय नमः । ॐ मुनिस्तुत्याय नमः । ॐ भक्त विघ्न विनाशनाय नमः । ॐ एकदन्ताय नमः । ॐ चतुर्बाहवे नमः । ३० ॐ शक्तिसंयुताय नमः । ॐ चतुराय नमः । ॐ लम्बोदराय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरम्बाय नमः । ॐ ब्रह्मवित्तमाय नमः । ॐ कालाय नमः । ॐ ग्रहपतये नमः । ॐ कामिने नमः । ॐ सोमसूर्याग्निलोचनाय नमः । ४० ॐ पाशाङ्कुशधराय नमः । ॐ छन्दाय नमः । ॐ गुणातीताय नमः । ॐ निरञ्जनाय नमः । ॐ अकल्मषाय नमः । ॐ स्वयंसिद्धार्चितपदाय नमः । ॐ बीजापूरकराय नमः । ॐ अव्यक्ताय नमः । ॐ गदिने नमः । ॐ वरदाय नमः । ५० ॐ शाश्वताय नमः । ॐ कृतिने नमः । ॐ विद्वत्प्रियाय नमः । ॐ वीतभयाय नमः । ॐ चक्रिणे नमः । ॐ इक्षुचापधृते नमः । ॐ अब्जोत्पलकराय नमः । ॐ श्रीधाय नमः । ॐ श्रीहेतवे नमः । ॐ स्तुतिहर्षताय नमः । ६० ॐ कलाद्भृते नमः । ॐ जटिने नमः । ॐ चन्द्रचूडाय नमः । ॐ अमरेश्वराय नमः । ॐ नागयज्ञोपवीतिने नमः । ॐ श्रीकान्ताय नमः । ॐ रामार्चितपदाय नमः । ॐ वृतिने नमः । ॐ स्थूलकान्ताय नमः । ॐ त्रयीकर्त्रे नमः । ७० ॐ सङ्घोषप्रियाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ स्थूलतुण्डाय नमः । ॐ अग्रजन्याय नमः । ॐ ग्रामण्ये नमः । ॐ गणपाय नमः । ॐ स्थिराय नमः । ॐ वृद्धिदाय नमः । ॐ सुभगाय नमः । ॐ शूराय नमः । ८० ॐ वागीशाय नमः । ॐ सिद्धिदाय नमः । ॐ दूर्वाबिल्वप्रियाय नमः । ॐ कान्ताय नमः । ॐ पापहारिणे नमः । ॐ कृतागमाय नमः । ॐ समाहिताय नमः । ॐ वक्रतुण्डाय नमः । ॐ श्रीप्रदाय नमः । ॐ सौम्याय नमः । ९० ॐ भक्ताकाङ्क्षितदाय नमः । ॐ अच्युताय नमः । ॐ केवलाय नमः । ॐ सिद्धाय नमः । ॐ सच्चिदानन्दविग्रहाय नमः । ॐ ज्ञानिने नमः । ॐ मायायुक्ताय नमः । ॐ दन्ताय नमः । ॐ ब्रह्मिष्ठाय नमः । ॐ भयावर्चिताय नमः । १०० ॐ प्रमत्तदैत्यभयदाय नमः । ॐ व्यक्तमूर्तये नमः । ॐ अमूर्तये नमः । ॐ पार्वतीशङ्करोत्सङ्गखेलनोत्सवलालनाय नमः । ॐ समस्तजगदाधाराय नमः । ॐ वरमूषकवाहनाय नमः । ॐ हृष्टस्तुताय नमः । ॐ प्रसन्नात्मने नमः । ॐ सर्वसिद्धिप्रदायकाय नमः । १०८ ॥ इति श्रीसिद्धिविनायकाष्टोत्तरशतनामावलिः ॥
पाठ जप: 0/108