सनातन स्तोत्र संग्रह
Upanishadah
सनातन देव

गणेशतापिनी उपनिषद्

stotra-99f16e3a
रचयिता: पारंपरिक पाठ संख्या: 2
23px

गणेशतापिन्युपनिषत्

पूर्वम् 

अथ गणेश पूर्वतापिन्युपनिषत्

गणेशं प्रमथाधीशं निर्गुणं सगुणं विभुम् । योगिनो यत्पदं यान्ति तं गौरीनन्दनं भजे ॥ १॥ ॐ नमो वरदाय विघ्नहर्त्रे ॥ अथातो ब्रह्मोपनिषदं व्याख्यास्यामः । ब्रह्मा देवानां सवितुः कवीनामृषि- र्विप्राणां महिषो मृगाणाम् । धाता वसूनां सुरभिः सृजानां नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ॥ धाता देवानां प्रथमं हि चेतो मनो वनानीव मनसाऽकल्पयद्यः । नमो ब्रह्मणे ब्रह्मपुत्राय तुभ्यं ज्येष्ठायाथर्वपुत्राय धन्विने ॥ १॥ ॐ प्रजापतिः प्रजा असृजत । ताः सृष्टा अब्रुवन् कथमन्नाद्या अभवन्निति । स त्रेधा व्यभजद्भूर्भुवःस्वरिति । स तपोऽतप्यत । स ब्रह्मा स विष्णुः स शिवः स प्रजापतिः सेन्द्रः सोऽग्निः समभवत् । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । सोऽपश्यदात्मनाऽऽत्मानं गजरूपधरं देवं शशिवर्णं चतुर्भुजं यतो वा इमानि भूतानि जायन्ते यतो वायन्ति यत्रैव यन्ति च । तदेतदक्षरं परं ब्रह्म । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुरापो ज्योतिः पृथिवी विश्वस्य धारिणी । पुरुष एवेदं तपो ब्रह्म परामृतमिति ॥ २॥ सोऽस्तुवत नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नमो वेदेभ्यो नम ऋषिभ्यो नमः कुल्येभ्यः प्रकुल्येभ्यो नमः सवित्रे प्रसवित्रे नमो भोज्याय प्रकृष्टाय कपर्दिने चक्राय चक्रधराया- न्नायान्नपतये शिवाय सदाशिवाय तुर्याय तुरीयाय भू- र्भुवःस्वःपते रायस्पते वाजिपते गोपते ऋग्यजुःसामाथर्वाङ्- गिरःपते नमो ब्रह्मपुत्रायेति ॥ ३॥ सोऽब्रवीद्वरदोऽस्म्यहमिति । स प्रजापतिरब्रवीत्कथमिमे- न्नाद्याः स्युरिति । स होवाच ब्रह्मपुत्रस्तपस्तेपे सिद्धक्षेत्रे महायशाः । स सर्वस्य वक्ता सर्वस्य ज्ञातासीति । स होवाच तपस्यन्तं सिद्धारण्ये भृगुपुत्रं पृच्छध्वमिति । ते प्रत्यायुयुः । स होवाच किमेतदिति । ते होचुः कथं वयमन्नाद्या भवाम इति । स तूष्णीं मनसा ध्यायन् कथमिमेऽन्नाद्याः स्युरिति । स एतमानुष्टुभं प्रयन्त्यभिसंविशन्ति । तस्यैषा भवति --- अनुष्टुप्प्रथमा भवत्यनुष्टुबुत्तमा भवति । वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति । परमा वा एषा छन्दसां यदनुष्टुप् । सर्वमनुष्टुप् । एतं मन्त्रराजं यः पश्यति स पश्यति । स भुक्तिं मुक्तिं च विन्दति । तेन सर्वज्ञानं भवति । तदेतन्निदर्शनं भवति --- एको देवः प्रापको यो वसूनां श्रिया जुष्टः सर्वतोभद्र एषः । मायादेवो बलगहनो ब्रह्मारातीस्तं देवमीडे दक्षिणास्यम् ॥ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सङ्गृभाय । महाहस्ती दक्षिणेन ॥ इति सहस्रकृत्वस्तुष्टाव ॥ ४॥ अथापश्यन्महादेवं श्रिया जुष्टं मदोत्कटम् । सनकादि महायोगिवेदविद्भिरुपासितम् ॥ द्रुहिणादिमदेवेशषट्पदालिविराजितम् । लसत्कर्णं महादेवं गजरूपधरं शिवम् ॥ स होवाच वरदोऽस्मीति । स तूष्णीं मनसा वव्रे । स तथेति होवाच । तदेष श्लोकः - स संस्तुतो दैवतदेवसूनुः सुतं भृगोर्वाक्यं उवाच तुष्टः । अवेहि मां भार्गव वक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥ अथ तस्य षडङ्गानि प्रादुर्बभूवुः । स होवाच जपध्वमानुष्टुभं मन्त्रराजं षट्पदं सषडक्षरम् । इति यो जपति स भूतिमान् भवतीति यूयमन्नाद्या भवेयुरिति । तदेतन्निदर्शनम्--- गणानां त्वा गणनाथं सुरेन्द्रं कविं कवीनामतिमेधविग्रहम् । ज्येष्ठराजं वृषभं केतुमेकं सा नः श‍ृण्वन्नूतिभिः सीद शाश्वत् ॥ ५॥ ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीम इति । स एतमानुष्टुभं षट्पदं मन्त्रराजं कथयाञ्चक्रे । स साम भवति । ऋग्वै गायत्री यजुरुष्णिगनुष्टुप् साम । स आदित्यो भवति । ऋग्वै वसुर्यजू रुद्राः सामादित्या इति । स षट्पदि भवति । साम वै षट्पदः । स सागरां सप्तद्वीपां सपर्वतां वसुन्धरां तत्साम्नः प्रथमं पादं जानीया- द्रायस्पोषस्य दातेति । तेन सप्तद्वीपाधिपो भवति भूःपतित्वं च गच्छति । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं द्वितीयं पादं जानीयान्निधिदातेति । तेन धनदादिकाष्ठा- पतिर्भवति भुवःपतित्वं च गच्छति । वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीया- दन्नदो मत इति । तेन देवाधिपत्यं स्वःपतित्वं च गच्छति । ऋग्यजुःसामाथर्वाङ्गिरोगणसेवितं ब्रह्मलोकं तुर्यं पादं जानीयाद्रक्षोहण इति । तेन देवाधिपत्यं ब्रह्माधिपत्यं च गच्छति । वासुदेवादिचतुर्व्यूहसेवितं विष्णुलोकं तत्साम्नः पञ्चमं पादं जानीयाद्बलगहन इति । तेन सर्वदेवाधिपत्यं विष्णुलोकाधिपत्यं च गच्छति । ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तत्साम्नः षष्ठं पादं जानीयात् । तेन वक्रतुण्डाय हुमिति यो जानीयात्- सोऽमृतत्वं च गच्छति । सत्यलोकाधिपत्यं च गच्छति ॥ ६॥ ऋग्यजुःसामाथर्वाश्चत्वारः पादा भवन्ति । रायस्पोषस्य दाता चेति प्रथमः पादो भवति ऋग्वै प्रथमः पादः । निधिदाताऽन्नदो मत इति द्वितीयः पादः यजुर्वै द्वितीयः पादः । रक्षोहणो वो बलगहन इति तृतीयः पादः साम वै तृतीयः पादः । वक्रतुण्डाय हुमिति चतुर्थः पादः अथर्वश्चतुर्थः पादोऽथर्वश्चतुर्थः पाद इति ॥ ७॥ इति गणेशपूर्वतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १॥ स होवाच प्रजापतिरग्निर्वै वेदा इदं सर्वं विश्वानि भूतानि विराट् स्वराट् सम्राट् तत्साम्नः प्रथमं पादं जानीयात् । ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् । य ओषधीनां प्रभविता तारापतिः सोमस्तत्साम्नस्तृतीयं पादं जानीयात् । यो ब्रह्मा तत्साम्नश्चतुर्थं पादं जानीयात् । यो हरिस्तत्साम्नः पञ्चमं पादं जानीयात् । यः शिवः स परं ब्रह्म तत्साम्नोऽन्त्यं पादं जानीयात् । यो जानीते सोऽमृतत्वं च गच्छति परं ब्रह्मैव भवति । तस्मादिदमानुष्टुभं साम यत्र क्वचिन्नाचष्टे । यदि दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै शिष्याय वेति ॥ १॥ तस्य हि षडङ्गानि भवन्ति  ॐ हृदयाय नमः शिरसे स्वाहा शिखायै वषट् कवचाय हुम् । नेत्रत्रयाय वौषट् अस्त्राय फडिति प्रथमं प्रथमेन द्वितीयं द्वितीयेन तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं पञ्चमेन षष्ठं षष्ठेन प्रत्यक्षरमुभयतो माया लक्ष्मीश्च भवति । माया वा एषा वैनायकी सर्वमिदं सृजति सर्वमिदं रक्षति सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं वेद । स मृत्युं जयति । स पाप्मानं तरति । स महतीं श्रियमश्नुते । सोऽभिवादी षट्कर्मसंसिद्धो भवत्यमृतत्वं च गच्छति । मीमांसन्ते ब्रह्मवादिनो ह्रस्वा वा दीर्घा वा प्लुता वेति । यदि ह्रस्वा भवति सर्वपाप्मानं तरत्यमृतत्वं च गच्छति । यदि दीर्घा भवति महतींश्रियमाप्नुयादमृतत्वं च गच्छति । तदेतदृषिणोक्तं निदर्शनम् --- स ईं पाहि य ऋजीषी तरुद्रः स श्रियं लक्ष्मीमौपलाम्बिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युत आहुस्तां विद्यां ब्रह्मयोनि- स्वरूपाम् ॥ तामिहायुषे शरणं प्रपद्ये । क्षीरोदार्णव- शायिनं कल्पद्रुमाधःस्थितं वरदं व्योमरूपिणं प्रचण्डदण्डदोर्दण्डं वक्रतुण्डस्वरूपिणं पार्श्वाधः- स्थितकामधेनुं शिवोमातनयं विभुम् । रुक्माम्बरनिभाकाशं रक्तवर्णं चतुर्भुजम् । कपर्दिनं शिवं शान्तं भक्तानामभयप्रदम् ॥ उन्नतप्रपदाङ्गुष्ठं गूढगुल्फं सपार्ष्णिकम् । पीनजङ्घं गूढजानुं स्थूलोरुं प्रोन्नमत्कटिम् ॥ निम्ननाभिं कम्बुकण्ठं लम्बिष्ठं लम्बनासिकम् । सिद्धिबुद्ध्युभयाश्लिष्टं प्रसन्नवदनाम्बुजम् ॥ इति संसर्गः ॥ २॥ अथ छन्दोदैवतम् । अनुष्टुप्‍छन्दो भवति द्वात्रिंश- दक्षरानुष्टुब् भवति । अनुष्टुभा सर्वमिदं सृष्ट- मनुष्टुभा सर्वमुपसंहृतम् । शिवोमायुतः परमात्मा वरदो देवता । ते होचुः कथं शिवोमायुत इति । स होवाच भृगुपुत्रः प्रकृतिपुरुषमयो हि स धनद इति प्रकृतिर्माया पुरुषः शिव इति । सोऽयं विश्वात्मा देवतेति । तदेतन्निदर्शनम् इन्द्रो मायाभिः पुरुहूत ईडे शर्वो विश्वं मायया स्विद्दधार । सोऽजः शेते मायया स्विद्गुहायां विश्वं न्यस्तं विष्णुरेको विजज्ञे ॥ तदेतन्माया हंसमयी देवानाम् ॥ सर्वेषां वा एतद्भूतानामाकाशः परायणम् । सर्वाणि ह वा इमानि भूतान्याकाशादेव जायन्ते जातानि जीवन्त्याकाशं प्रयन्त्यभिसंविशन्ति । तस्मादाकाशबीजं शिवो विद्यात् । तदेतन्निदर्शनम् --- हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषाद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहदिति ॥ ३॥ अथाधिष्ठानम् --- मध्ये बिन्दुं त्रिकोणं तदनु ऋतुगणं वसुदलं द्वादशारं षोडशकर्णिकेति । मध्ये बीजात्मकं देवं यजेत् । वामदक्षिणे सिद्धिर्बुद्धिः । अग्रे कामदुघा षट्कोणे सुमुखादयः षड्विनायकाः । वसुदले वक्रतुण्डा- द्यष्टविनायकाः । द्वादशारे बटुको वामनो महादशक- महोदरौ सुभद्रो माली वरो राम उमा शिवः स्कन्दो नन्दी । तद्बाह्येऽणिमादिसिद्धयः । षोडशारे दिक्पालाः सायुधा इति ॥ ४॥ अथ प्रसारः  य एतेन चतुर्थीषु पक्षयोरुभयोरपि । लक्षं जुहुयादपूपानां तत्क्षणाद्धनदो भवेत् ॥ सिद्धौदनं त्रिमासं तु जुह्वदग्नावनन्यधीः । तावज्जुह्व- त्पृथुकान्हि साक्षाद्वैश्रवणो भवेत् ॥ उच्चाटयेद्विभीतैश्च मारयद्विषवृक्षजैः । वश्याय पङ्कजोर्विद्वान्धनार्थी मोदकैर्हुनेत् ॥ एवं ज्ञात्वा कृतकर्मा भवति कृतकर्मा भवतीति ॥ ५॥ इति गणेशपूर्वतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २॥   अथ होवाच भृगुपुत्रस्तन्त्रं विजिज्ञासितव्यमिति । मूले शून्यं विजानीयात् । शून्यं वै परं ब्रह्म । तत्र सतारं समायं साम न्यसेत्त्रिरेखं भवति त्रयो हीमे लोकास्त्रयो हीमे वेदाः । ऋग्वै भूः सा माया भवति । यजुर्वै भुवः स शिवो भवति । साम वै स्वः स हिरण्यगर्भो भवति । षट्कोणं भवति षड् हीमे लोकाः षड्ढा ऋतवो भवन्ति । तत्र तारमायारमामारविश्वेशधरणीक्रमान्न्यसेत् । अष्टपत्रं भवत्यष्टाक्षरा गायत्री भवति ब्रह्मगायत्रीं न्यसेत् । द्वादशपत्र भवति द्वादशादित्या भवन्ति ते स्वरा भवन्ति । स्वरान् ज्ञात्वादित्यलोकमश्नुते । षोडशपत्रं भवति षोडशकलो वै पुरुषो वर्णो ह वै पुरुषः स लोकाधिष्ठितो भवत्यनुष्टुब् वै पुरुषः ॥ १॥ स होवाच भृगुपुत्र एतमानुष्टुभं मन्त्रराजं साङ्गं स प्रसृतिकं समायं साधिष्ठानं सतन्त्रं यो जानाति स भूतिमान् भवति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥ २॥ इति गणेशपूर्वतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३॥ इत्याथर्वणीया गणेशपूर्वतापिन्युपनिषत्समाप्ता ॥ उत्तरम् 

अथ गणेशोत्तरतापिन्युपनिषत् ॥

ॐ ॥ ओमित्येकाक्षरं ब्रह्मेदं सर्वम् । तस्योपव्याख्यानम् । सर्वं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव । एतच्चान्यच्च त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्गणेशोऽयमात्मा ब्रह्मेति । सोऽयमात्मा चतुष्पात् । जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः । स्वप्नस्थानोऽन्तः- प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । सुषुप्तिस्थान एकीभूतः प्रज्ञानघन एवानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः । एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्टमव्यवहार्यमग्राह्यमलक्षण- मचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते स गणेश आत्मा विज्ञेयः । सदोज्ज्वलो विद्यातत्कार्यहीनः स्वात्मबन्धरहितः सर्वदोषरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोह- मेवेति सम्भाव्याहमों तत्सत्परं ब्रह्म विघ्नराजश्चिदात्मकः सोऽहमों तद्विनायकं परं ज्योती रसोऽहमित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्यात् । विनायकोऽहमित्येतत्तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं प्रमोदो वै न संशयः ॥ इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य इति । एतदेव परं ध्यानमेतदेव परं तपः । विनायकस्य यज्ज्ञानं पूजनं भवमोचनम् ॥ अश्वमेधसहस्राणि वाजपेयशतानि च । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ इति गणेशोत्तरतापिन्युपनिषत्सु प्रथमोपनिषत् ॥ १॥ ॐ ॥ स विष्णुः स शिवः स ब्रह्मा सेन्द्रः सेन्दुः स सूर्यः स वायुः सोऽग्निः स ब्रह्मायमात्मने सर्वदेवाय आत्मने भूताय आत्मन इति मन्यन्ते । ॐ सोऽहं ॐ सोऽहं ॐ सोऽहमिति । ॐ ब्रह्मन् ॐ ब्रह्मन् ॐ ब्रह्मन्निति । ॐ शिवं ॐ शिवं ॐ शिवमिति । तं गणेशं तं गणेशमिदं श्रेष्ठम् । ॐ गणानां त्वा गणपतिः ।सप्रियाणां त्वा प्रियपतिः । सनिधीनां त्वा निधिपतिः । ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् । ॐ तद्गणेशः । ॐ सद्गणेशः । ॐ परं गणेशः । ॐ ब्रह्म गणेशः । गणनाकारो नादः । एतत्सर्वो नादः । सर्वाकारो नादः । एतदाकारो नादः । महान्नादः । स गणेशो महान् भवति । सोऽणुर्भवति । स वन्द्यो भवति । स मुख्यो भवति । स पूज्यो भवति । रूपवान् भवति । अरूपवान् भावति । द्वैतो भवति । अद्वैतो भवति । स्थावरस्वरूपवान् भवति । जङ्गमस्वरूपवान् भवति । सचेतनविचेतनो भवति । सर्वं भवति । स गणेशोऽव्यक्तो योऽणुर्यः श्रेष्ठः स वै वेगवत्तरः । अह्रस्वाह्रस्वश्च । अतिह्रस्वातिह्रस्वातिह्रस्वश्च । अस्थूलास्थूलास्थूलश्च । ॐ न वायुर्नाग्निराकाशो नापः पृथिवी न च । न दृश्यं न दृश्यं न दृश्यम् । न शीतं नोष्णं न वर्षं च । न पीतं न पीतं न पीतम् । न श्वेतं न श्वेतं न श्वेतम् । न रक्तं न रक्तं न रक्तम् । न कृष्णं न कृष्णं न कृष्णम् । न रूपं न नाम न गुणम् ंअ प्राप्यं गणेशं मन्यन्ते । स शुद्धः स शुद्धः स शुद्धो गणेशः । स ब्रह्म स ब्रह्म स ब्रह्म गणेशः । स शिवः स शिवः स शिवो गणेशः । इन्द्रो गणेशो विष्णुर्गणेशः सूर्यो गणेश एतत्सर्वं गणेशः । स निर्गुणः स निरहङ्कारः स निर्विकल्पः स निरीहः स निराकार आनन्द- रूपस्तेजोरूपमनिर्वाच्यमप्रमेयः पुरातनो गणेशो निगद्यते । स आद्यः सोऽक्षरः सोऽनन्तः सोऽव्ययो महान्पुरुषः । तच्छुद्धं तच्छबलं ततः प्रकृतिमहत्तत्त्वानि जायन्ते । ततश्छाहङ्कारादिपञ्चतन्मात्राणि जायन्ते । ततः पृथ्व्यप्तेजो वाय्वाकाशपञ्चमहद्भूतानि जायन्ते । पृथिव्या ओषधयः ओषधीभ्योमन्नाद्रेतस्ततः पुरुषस्ततः सर्वं ततः सर्वं ततः सर्वं ततः सर्वं जगत् । सर्वाणि भूतानि जायन्ते । देवा नु जायन्ते । ततश्च जीवन्ति । देवा नु जीवन्ति । यज्ञा नु जीवन्ति । सर्वं जीवति । स गणेश आत्मा विज्ञेयः । इत्युपनिषत् । य एवं वेद स मुख्यो भवतीति याज्ञवल्क्य इति याज्ञवल्क्य इति ॥ इति गणेशोत्तरतापिन्युपनिषत्सु द्वितीयोपनिषत् ॥ २॥ ॐ ॥ गणेशो वै ब्रह्म तद्विद्यात् । यदिदं किञ्च सर्वं भूतं भव्यं जायमानं च तत्सर्वमित्याचक्षते । अस्मान्नातः परं किञ्चित् । यो वै वेद स वेद ब्रह्म ब्रह्मैवोपाप्नोति । तत्सर्वमित्याचक्षते । ब्रह्मविष्ण्वादि- गणानामीशभूतमित्याह तद्गणेश इति । तत्परमित्याह यमेते नाप्नुवन्ति पृथिवी सुवर्चा युवतिः सजोषाः । यद्वै वाङ् नाक्रामति मनसा सह नाग्निर्न पृथ्वी न तेजो न वायुर्न व्योम न जलमित्याह । नेन्द्रियं न शरीरं न नाम न रूपम् । न शुक्लं न रक्तं न पीतं न कृष्णमिति । न जाग्रन्न स्वप्नो न सुषुप्तिर्न वै तुरीया । तच्छुद्धमप्रा- प्यमप्राप्यं च । अज्ञेयं चाज्ञेयं च । विकल्पासहिष्णु तत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे । दिवमनन्तशीर्षैर्दिशमनन्तकरैर्व्योमानन्तजठरैर्मही- मनन्तपादैः स्वतेजसा बाह्यान्तरीयान्व्याप्य तिष्ठतीत्याह । तद्वै परं ब्रह्म गणेश इत्यात्मानं मन्यन्ते । तद्वै सर्वतः पश्यति स्म न किञ्चिद्ददर्श । ततो वै सोऽहमभूत् । नैकाकिता युक्तेति गुणान्निर्ममे । नामे रजः स वै ब्रह्मा । मुखात्सत्त्वं स वै विष्णुः । नयनात्तमः स वै हरः । ब्रह्माणमुपदिशति स्म ब्रह्मन् कुरु सृष्टिम् । ब्रह्मोवाच नाहं वेद्मि । गणेश उवाच मद्देहे ब्रह्माण्डान्तर्गतं विलोकय तथाविधामेव कुरु सृष्टिम् । अथ ब्रह्मा जन्मद्वारेण ब्रह्माण्डान्तर्गतं विलोकयति स्म । समुद्रान् सरितः पर्वतान् वनानि महीं दिवं पातालं च नरान् पशून्मृगान्नागान् हयान् गोव्रजान् सूर्याचन्द्रमसो नक्षत्राण्यग्नीन् वायुन्दिशस्ततो व सृष्टिमचीकरत् । ततश्चात्मानमिति मन्यते स्म । न वै मत्तः परं किञ्चिदहमेव सर्वस्येश इति यावद्वदति तावत्क्रूरा अजायेरन् । महद्देहा जिह्वया भुवं लिहाना दंष्ट्राव्याप्ताकाशा महच्छब्दा ब्रह्माणं हन्तुमुद्युक्ताः । तान्दृष्ट्वा- बिभ्यत्तत्सस्मार । ततश्चाग्रे कोटिसूर्यप्रतीकाशमानन्दरूपं गजवक्त्रं विलोकयति स्म । तुष्टावाथ गणेश्वरम् । त्वं निर्माता क्ष्माभृतां सरितां सागराणां स्थावराणां जङ्गमानां च । त्वत्तः परतरं किञ्चिन्नैवास्ति जगतः प्रभो । कर्ता सर्वस्य विश्वस्य पातसंहारकारकः । भवानिदं जगत्सर्वं व्याप्यैव परितिष्ठति ॥ इति स्तुत्वा ब्रह्माणं तदुवाच ब्रह्मस्तपस्व तपस्वेत्युक्त्वाऽन्तर्हिते अस्मिन् ब्रह्मा तपश्चचार । कियत्स्वतीतेष्वनेहःसु तपसि स्थिते ब्रह्मणि पुरो भूत्वोवाच । प्रसन्नोऽहं प्रसन्नोऽहं वरान् वरय । श्रुत्वैवं वचोन्मील्य नयने यावत्पुरः पश्यति तावद्गणेशं ददर्श । स्तौति स्म । त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं प्रजापतिस्त्वमिन्द्रस्त्वं सूर्यस्त्वं सोमस्त्वं गणेशः । त्वया व्याप्तं चराचरं त्वदृते न हि किञ्चन । ततश्च गणेश उवाच । त्वं चाहं च न वै भिन्नौ कुरु सृष्टिं प्रजापते । शक्तिं गृहाण मद्दत्तां जगत्सर्जनकर्मणि ॥ ततो वै गृहीतायां शत्वा ब्रह्मणः सृष्टिरजायत । ब्राह्मणो वै मुखाज्जज्ञे बाह्वोः क्षत्रमूर्वोर्वैश्यः पद्भ्यां शूद्रश्चक्षुषो वै सूर्यो मनश्चन्द्रमा अग्निर्वै मुखात्प्राणाद्वायुर्नाभेर्व्योम शीर्ष्णो द्यौः पद्भ्यां भूमिर्दिशः श्रोत्रात् । तथा लोकानकल्पयन्निति । ततो वै सत्त्वमुवाच त्वं वै विष्णुः पाहि पाहि जगत्सर्वम् । विष्णुरुवाच न मे शक्तिः । सोवाच गृहानेमां विद्याम् । ततो वै सत्त्वं तामादाय जगत्पाति स्म । हरमुवाच कुरु हर संहारम् । जगद्धरणाद्धरो भव । हरश्चात्मानमित्यवैति स्म न वै मत्परं किञ्चिद्विश्वस्यादि- रहं हर इति गर्वं दधौ यावत्तावद्व्याप्तं व्योम गजवक्त्रै- र्महच्छब्दैर्हरं हर्तुमुद्युक्तैः । हरो वै विलोक्य रुदति स्म । रोदनाद्रुद्रसञ्ज्ञः । ततस्तं पुरुषं स्मृत्वा तुष्टाव त्वं ब्रह्मा त्वं कर्ता त्वं प्रधानं त्वं लोकान् सृजसि रक्षसि हरसि । विश्वाधारस्त्वमनाधारोऽनाधेयोऽनिर्देश्यो- ऽप्रतर्क्यो व्याप्येदं सर्वं तिष्ठसीति स्तवनाद्विनायकं ददर्श । ततश्च तं ननाम । गणेश उवाच कुरु हर हरणम् । तद्वै संहर्ताऽभूद्रुद्रः । य एवं वेद स गणेशो भवति । इत्युपनिषत् ॥ इति गणेशोत्तरतापिन्युपनिषत्सु तृतीयोपनिषत् ॥ ३॥ ॐ ॥ गणेशो वै सदजायत तद्वै परं ब्रह्म । तद्विदाप्नोति परम् । तदेषाभ्युक्ता यदनादिभूतं यदनन्तरूपं यद्विज्ञानरूपं यद्देवाः सर्वे ब्रह्म ज्येष्ठमुपासते न वै कार्यं करणं न तत्समश्चाधिकश्च दृश्यः । सूर्योऽस्माद्भीत उदेति । वातोऽस्माद्भीतः पवते । अग्निर्वै भीतस्तिष्ठति । तच्चित्स्वरूपं निर्विकारमद्वैतं च । तन्मायाशबलमजनीत्याह । अनेन यथा तमस्ततश्चोमिति ध्वनिरभूत् । स वै गजाकारः । अनिर्वचनीया सैव माया जगद्बीजमित्याह । सैव प्रकृतिरिति गणेश इति प्रधानमिति च मायाशबलमिति च । एतस्माद्वै महत्तत्त्वमजायत । ततः कराग्रेणाहङ्कारं सृष्टवान् । स वै त्रिविधः सात्त्विको राजसतामसश्चेति । सात्त्विकी ज्ञानशक्तिः । राजसी क्रियाशक्तिः । तामसी द्रव्यशक्तिः । तामस्याः पञ्च- तन्मात्रा अजायन्त पञ्चभूतान्यजायन्त । राजस्याः पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च वायवश्चाजायन्त । सात्त्विक्या दिशो वायुः सूर्यो वरुणोऽश्विनाविति ज्ञानेन्द्रियदेवता अग्निरिन्द्रो विष्णुः प्रजापतिर्मित्र इति कर्मेन्द्रियदेवताः । इदमादिपुरुषरूपम् । परमात्मनः सूक्ष्मशरीरमिदमेवोच्यते । अथ द्वितीयम् । पञ्चतन्मात्राः पञ्चसूक्ष्मभूतान्युपादाय पञ्चीकरणे कृते पञ्चमहाभूतान्यजायन्त । अवशिष्टानां पञ्चपञ्चाशानां कल्पारम्भसमये भूतविभागे चैतन्यप्रवेशादहमित्यभिमानः । तस्मादादिगणेशो भवानुच्यते । ततो वै भूतेभ्यश्चतुर्दश लोक अजायेरन् । तदन्तर्गतजीवराशयः स्थूलशरीरैः सह विराडित्युच्यते । इति द्वितीयम् । राजसो ब्रह्मा सात्त्विको विष्णुस्तामसो वै हरः । त्रयं मिलित्वा परस्परमुवाच अहमेव सर्वस्येश इति । ततो वै परस्परमसहमानाश्चोर्ध्वं जग्मुः । तत्र न किञ्चिद्ददृशुः । ततश्चाधःप्रदेशे दशदिक्षु भ्रमन्तो न किञ्चित्पश्यन्ति स्म । ततो वै ध्यानस्थिता अभूवन् । ततश्च हृद्देशे महान्तं पुरुषं गजवक्त्रमसङ्ख्यशीर्षमसङ्ख्यपाद- मनन्तकरं तेजसा व्याप्ताखिललोकं ब्रह्ममूर्धानं दिक्श्रवणं ब्रह्माण्डगण्डं चिद्व्योमतालुकं सत्यजननं च जगदुत्पत्त्यपायोन्मेषनिमेषं सोमार्काग्निनेत्रं पर्वतेशरदं पुण्यापुण्योष्ठं ग्रहोडुदशनं भारतीजिह्वं शक्रघ्राणं कुलगोत्रांसं सोमेन कण्ठं हरशिरोरुहं सरिन्नदभुजमुरगाङ्गुलिकमृक्षनखं श्रीहृत्कामाकाशनाभिकं सागरोदरं महीकटिदेशं सृष्टिलिङ्गकं पर्वतेशोरुं दस्रजानुकं जठरान्तः- स्थितयक्षगन्धर्वरक्षःकिन्नरमानुषं पातालजङ्घकं मुनिचरणं कालाङ्गुष्ठकं तारकाजाललाङ्गुलं दृष्ट्वा स्तुवन्ति स्म । यतो वा इमानि भूतानि जायन्ते यतोऽग्निः पृथिव्यप्तेजो वायुर्यत्कराग्राद्ब्रह्मविष्णुरुद्रा अजायन्त यतो वै समुद्राः सरितः पर्वताश्च यतो वै चराचरमिति स्तवनात्प्रसन्नो भूत्वोवाचाऽहं सर्वस्येशो मत्तः सर्वाणि भूतानि मत्तः सर्वं चराचरं भवन्तो वै न मद्भिन्ना गुणा मे वै न संशयः । गुणेशं मां हृदि सञ्चिन्त्य राजस त्वं जगत्कुरु सात्विक त्वं पालय तामस त्वं हरेत्युक्त्वान्तर्हितः । स वै गणेशः । सर्वात्मा विज्ञेयः सर्वदेवात्मा वै स एकः । य एवं वेद स गणेशो भवति । इत्युपनिषत् । इति गणेशोत्तरतापिन्युपनिषत्सु चतुर्थोपनिषत् ॥ ४॥ ॐ ॥ देवा ह वै रुद्रमब्रुवन् कथमेतस्योपासनम् । स होवाच रुद्रो गणको निचृद्गायत्री श्रीगणपतेरेनं मन्त्रराजमन्योन्याभावात्प्रणवस्वरूपस्यास्य परमात्म- नोऽङ्गानि जानीते स जानाति सोऽमृतत्वं च गच्छति । योऽधीते स सर्वं तरति । य एनं मन्त्रराजं गणपतेः सर्वदं नित्यं जपति सोऽग्निं स्तम्भयति स उदकं स्तम्भयति स वायुं स्तम्भयति स सूर्यं स्तम्भयति स सर्वान्देवान्स्तम्भयति स विषं स्तम्भयति स सर्वोपद्रवा- न्स्तम्भयति । इत्युपनिषत् । य एनं मन्त्रराजं नित्यमधीते स विघ्नानाकर्षयति देवान्यक्षान् रोगान् ग्रहान्मनुष्यान् सर्वानाकर्षयति । स भूर्लोकं जयति स भुवर्लोकं जयति स स्वर्लोकं स महर्लोकं स जनोलोकं स तपोलोकं स सत्यलोकं स सप्तलोकं स सर्वलोकं जयति । सोऽग्निष्टोमेन यजते सोऽत्यग्निष्टोमेन स उक्थ्येन स षोडशीयेन स वाजपेयेन सोऽतिरात्रेण सोऽप्तोर्यामेण स सर्वैः क्रतुभिर्यजते । य एनं मन्त्रराजं वैघ्नराजं नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते स शाखा अधीते स पुराणान्यधीते स कल्पानधीते स गाथा अधीते स नाराशंसीरधीते स प्रणवमधीते । य एनं मन्त्रराजं गाणेशं वेद स सर्वं वेद स सर्वं वेद । स वेदसमः स मुनिसमः स नागसमः स सूर्यसमः सोऽग्निसम इति । उपनीतैकाधिकशतं गृहस्थैकाधिकशतं वानप्रस्थकाधिकशतं रुद्रजापकसमम् । यतीनामेकाधिकशतमथर्वशिरःशिखाध्यापकसमम् । रुद्रजापकैकाधिकशतमथर्वशिरःशिखाध्यापकैकाधिकशतं गाणेशतापनीयोपनिषदध्यापकसमम् । मन्त्रराजजापकस्य यत्र रविसोमौ न तपतो यत्र वायुर्नक्षत्राणि न वाति भान्ति यत्राग्निर्मृत्युर्न दहति प्रविशति यत्र मोहो न दुःखं सदानन्दं परानन्दं समं शाश्वतं सदाशिवं परं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्रं ब्रह्मणस्पतिमेकाक्षरमेवं परमात्मानं बाह्यान्ते लब्धांशं हृदि समावेश्य किञ्चिज्जप्त्वा ततो न जपो न माला नासनं न ध्यानावाहनादि । स्वयमवतीर्णो ह्ययमात्मा ब्रह्म सोऽहमात्मा चतुष्पात् । बहिःप्रज्ञः प्रविविक्तभुक् तैजसः । यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् । तत्रैकीभूतः प्रज्ञानघन एवानन्दभुक् चेतोमुखः प्राज्ञः । एष सर्वेश्वरः सर्वान्तर्यामी एष योनिः सर्वभूतानाम् । न बहिःप्रज्ञं नान्तःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनमव्यपदेश्यमव्यवहार्यमग्राह्यमलक्षण- मचिन्त्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतमेवं चतुष्पादं ध्यायन् स एवात्मा भवति । स आत्मा विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धरहितो द्वैतरहितो निरस्ताविद्यातमोमोहा- हङ्कारप्रधानमहमेव सर्वमिति सम्भाव्य विघ्नराज- ब्रह्मण्यमृते तेजोमये परञ्ज्योतिर्मये सदानन्दमये स्वप्रकाशे सदोदिते नित्ये शुद्धे मुक्ते ज्ञेश्वरे परे ब्रह्मणि रमते रमते रमते रमते । य एवं गणेशतापनी- योपनिषदं वेद स संसारं तरति घोरं तरति दुःखं तरति विघ्नांस्तरति महोपसर्गं तरति । आनन्दो भवति स नित्यो भवति स शुद्धो भवति स मुक्तो भवति स स्वप्रकाशो भवति स ईश्वरो भवति स मुख्यो भवति स वैश्वानरो भवति स तैजसो भवति स प्राज्ञो भवति स साक्षी भवति स एव भवति स सर्वो भवति स सर्वो भवतीति । इत्युपनिषत् । ॐ स ह नाववतु ॥ इति गणेशोत्तरतापिन्युपनिषत्सु पञ्चमोपनिषत् ॥ ५॥ ॐ ॥ अथोवाच भगवती गौरी ह वै रुद्रमेतस्य मन्त्रराजस्यानुष्ठानविधिं मे ब्रूहीति । स होवाच रुद्रो विधिं लब्धांशं गुरुदेवतयोरालभ्य मनसा पुष्पं निवेद्योपक्रम्य भूतोत्सारणमासनबन्धाद्यात्म- रक्षासुनियमभूतशुद्धिप्राणस्थापनप्रणवावर्तन- मातृपूजनान्तर्मातृकान्तर्यागादि सम्पाद्यात्र केचन समन्त्रं मूलवैदिककल्परुपक्रमं ग्रहण- समर्पणनिवेदनानि बाह्येऽन्यथेति महार्थ्यं शङ्खं त्रिपाद्योर्गन्धादिना पूजितयोः स्थाप्य पात्रासादनं दक्षिणोपक्रमेण पाद्यार्घ्याचमनमधुपर्कपुन- राचमननिवेदनपात्राणि संस्थासु यथोपदिष्टं चतुर्थ्योः पर्वणि संस्थासु यथाविधि स्थाप्य निवेदने प्रक्षालनमेव ततोऽर्वाक् पञ्चामृतपात्राणि रिक्तं च मूलेनालभ्य निवेदिनार्घ्योदकेनात्मानं पात्राणि सम्भारं च प्रोक्ष्य पात्रातिरिक्तानि महार्घ्योदकेन सर्वनिवेदनं करशुद्धिं मूलासुनियमं यथोक्तर्षि- च्छन्दोदैवतं स्मृत्वा विनियोगश्च नित्ये पूजाङ्गो जपो जपाङ्गा पूजा जप इत्यङ्गुष्ठव्यापकस्यान्ता- ष्टाङ्गदण्डिमुण्डिन्यासादि कृत्वा मुखमवेक्ष्या- त्मानं देवरूपिणं सम्भाव्य मूर्ध्नि पुष्पं दत्त्वा पीठं सम्पूज्यासनं दत्त्वा ऋष्यादि कृत्वा ध्यात्वा हृदयाम्भोजे योगिनोऽत्र जपन्ति । स्वान्ताम्भोजाद्देव- मावाह्य मुद्रां दर्शयित्वा देवस्य सकलीकरणाङ्गु- ष्ठहृदयार्पिन्या स्वान्ते मुद्रां निवेद्य पात्राणि च मूलेन दत्त्वा रिक्ते पञ्चामृतं संयोज्य तेन पञ्चवारं सकृद्वाऽभिषिच्य नित्येन सन्तर्प्य कल्पस्तवनादिपुरुषसूक्तरुद्राध्यायघोषशान्त्यादिना मूलेन चाभिषिच्य सर्वपूजां निवेद्य दीपं त्रिर्भ्राम्य सव्येनाप्लाव्य महानैवेद्यपीठावरणान्युपसंहृत्य दर्शयेत् । ताम्बूलान्ते किञ्चिन्मूलमावर्त्य पुनर्धू- पादित्रयभक्ष्यादि निवेद्य मुद्राः सर्वोपचारस्य दर्शयित्वा निवेदनमिदमासनं नमः पाद्ये एषोऽर्घ्यः स्वाहेति दक्षिणकरेऽर्घ्ये इदं स्वधेति पुरस्त्रिके मुखे नम इति स्नानेष्वेष गन्धो नमोऽक्षतेषु ॐ पुष्पाणि नमः पुष्पेष्वेष धूपो दीपो नमो धूपदीपयोः समर्पयामीति नैवेद्यफलताम्बूलेषु निवेदयामि नमो हिरण्ये एष पुष्पाञ्जलिर्नम इति मालायामिति परमं रहस्यमप्र- काश्यं बीजं य एवं वेद स सर्वं वेद स सर्वं वेद । वर्णार्थं लब्धांशेन मन्त्रार्थेन च पीठावरण- देवतावधानेन वा जपति स जपति । मुख्यं लब्धांश- मासनं मृदुलं भुक्तरिक्तवासःकौसुम्भमाञ्जिष्ठ- रक्तकम्बलचित्रमृगव्याघ्राजिनं वा यथोक्तमुक्तान्यतरै रासनान्तरयोजनास्फटिककमलभद्राक्षमणिमुक्ता- प्रवालरुद्राक्षकुशग्रन्थिषु वा जपति स जपति । कुशमयी नित्याक्षालनं चन्दनालेपो धूपेनाभिमन्त्रय पृथगभिमन्त्रणं सद्योजातैः पञ्चभिः प्राण- स्थापनजीवनतर्पणगुप्तानि च स्वमूले गुह्यं वामेन स्पृशेन्न दर्शयेत् । एवं श्रावणे पवित्रेण मधौ दमनेन जपमालया महानवम्यां तापस्यां चतुर्थ्यां तिललड्डुकैः सप्तम्यां शीतलचन्दनेन शिवरात्र्यां बिल्वदलमालयाऽन्यस्मिपर्वणि महत्यार्चयन्ति तेऽर्चयन्ति । मोदकपृथुकलाजसक्तुरम्भाफलेक्षुनारीकेला- पूपानन्यानि च यथोपदिष्टमाहुतिभिर्जुहोति । जपश्च प्राक्प्रवणे होमोऽन्यथोपास्यः । एवं यः करोति सोऽमृतत्वं विन्दति स प्रतिष्ठां प्राप्नोति मुक्तिं विन्दति भुक्तिं भुनक्ति वाचं वदति यशो लभते । इदं रहस्यं यो जानाति स जानाति योऽधीते सोऽधीते स आनन्दो भवति स नित्यो भवति स विशुद्धो भवति स मुक्तो भवति स प्रकाशो भवति स दयावान्भवति ज्ञानवान्भवत्यानन्दवान्भवति विज्ञानवान्भवति विज्ञानानन्दो भवति सोऽमृतत्वं- भवत्यमृतत्वं भवतीति । ॐ स ह नाववत्विति शान्तिः ॥ इति गणेशोत्तरतापिन्युपनिषत्सु षष्ठोपनिषत् ॥ ६॥ इत्याथर्वणीया गणेशतापिन्युपनिषत्
पाठ जप: 0/108