ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಶ್ರೀ ಗೋವಿಂದದಾಮೋದರಸ್ತೋತ್ರಂ

श्री गोविन्ददामोदरस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

करारविन्देन पदारविन्दं, मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटेशयानं, बालं मुकुन्दं मनसा स्मरामि ॥ १॥

श्री कृष्ण गोविन्द हरे मुरारे, हे नाथ नारायण वासुदेव । जिह्वे पिबस्वामृतमेवदेव, गोविन्द दामोदर माधवेति ॥ २॥

विक्रेतुकामाखिलगोपकन्या, मुरारी पादार्पित चित्तवृतिः । दध्यादिकं मोहावशादवोचद्, गोविन्द दामोदर माधवेति ॥ ३॥

गृहे-गृहे गोपवधूकदम्बा:, सर्वे मिलित्वा समवाप्ययोगम् । पुण्यानि नामानि पठन्ति नित्यं, गोविन्द दामोदर माधवेति ॥ ४॥

सुखं शयाना निलये निजेऽपि, नामानि विष्णोः प्रवदन्तिमर्त्याः। ते निश्चितं तन्मयतमां व्रजन्ति, गोविन्द दामोदर माधवेति ॥ ५॥

जिह्वे सदैवं भज सुन्दराणि, नामानि कृष्णस्य मनोहाराणि । समस्त भक्तार्ति विनाशनानि, गोविन्द दामोदर माधवेति ॥ ६॥

सुखावसाने इदमेव सारं, दुःखावसाने इदमेव ज्ञेयम् । देहावसाने इदमेव जाप्यं, गोविन्द दामोदर माधवेति ॥ ७॥

जिह्वे रसज्ञे मधुरप्रिये त्वं, सत्यं हितं त्वां परमं वदामि । आवर्णयेथा मधुराक्षराणि, गोविन्द दामोदर माधवेति ॥ ८॥

त्वामेव याचे मन देहि जिह्वे, समागते दण्डधरे कृतान्ते । वक्तव्यमेवं मधुरं सुभक्त्या, गोविन्द दामोदर माधवेति ॥ ९॥

श्री कृष्ण राधावर गोकुलेश, गोपाल गोवर्धन नाथ विष्णो । जिह्वे पिबस्वा मृतमेवदेवं, गोविन्द दामोदर माधवेति ॥ १० ॥

॥ इति श्रीगोविन्ददामोदरस्तोत्रम् ॥

ಜಪ ಎಣಿಕೆ: 0/108