ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೀಸರಸ್ವತೀ ದೇವೀ
ಸನಾತನ ದೇವ

.. ಶ್ರೀ ಸರಸ್ವತೀ ಪ್ರಾರ್ಥನಾ ..

॥ श्री सरस्वती प्रार्थना ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 8
ಲಿಪಿಯನ್ನು ಆಯ್ಕೆಮಾಡಿ: देवनागरी (संस्कृत)
14px

॥ श्री सरस्वती प्रार्थना ॥

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता। या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना॥ या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता। सा माम् पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १॥

सरस्वती नमस्तुभ्यं वर्दे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु में सदा ॥ २॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापेरण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥३॥

सुरासुर सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥४॥

सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥५॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥६॥

वेदायै वेदरूपायै वेदान्तायै नमो नमः । गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥७॥ ॥ इति श्रीसरस्वती प्रार्थना ॥

ಜಪ ಎಣಿಕೆ: 0/108