సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

శ్రీగణేశస్తోత్రం

श्रीगणेशस्तोत्रम्
రచయిత: పారంపరిక వీక్షణలు: 2
23px

श्रीगणेशस्तोत्रम्

ॐ नमो विघ्नहर्त्रे । ॐ अप्रमेयगुणं नित्यं गणेशममरोत्तमम् । वेदान्तवेद्यं सर्वज्ञं पूजितममरेश्वरैः ॥ १॥ ओङ्कारं परमंब्रह्म अक्षरं शिवमव्ययम् । पार्वतीप्रियपुत्रं तं प्रणमामि गणेश्वरम् ॥ २॥ ब्रह्मद्वयानवच्छेद्यं शिवाद्वयविबोधितम् । स्वप्रकाशं परात्मानं तं प्रपद्ये विनायकम् ॥ ३॥ वैरिविघ्नप्रदं नित्यं भक्तानां सिद्धिदायकम् । शिवसूनुं परानन्दं नमस्यामि विनायकम् ॥ ४॥ मोदकाहारपरममक्षमालाकरं परम् । त्रिनेत्रं गजवक्त्रं च तं प्रपद्ये गणेश्वरम् ॥ ५॥ स्वदन्तं परुशुं चैव धारयन्तं भुजद्वये । रक्तवस्त्राम्बरधरं रक्तमालाधरं विभुम् ॥ ६॥ विघ्नराशीन्विकिरन्तं करक्षेपैर्मुहुर्मुहुः । अनन्तं परमं तत्त्वं सारात्सारतरं परम् ॥ ७॥ अप्रमेयगुणायापि त्र्यक्षाय वरवर्णिने । विनायकाय देवाय भूयो भूयो नमो नमः ॥ ८॥ श्रीगणेशं नुमो यस्य प्रसादात्प्राप्तबुद्धयः । प्रौढबुद्धिषु हृष्यन्ति मादृशा अपि वालिशाः ॥ ९॥ श्रीगणेश्वरं भक्तकामदं श्रीकृपानिधिं सर्वसिद्धिदम् । ब्रह्मविष्णुदेवेन्द्रगोनुतं भक्तवत्सलं नौम्युमासुतम् ॥ १०॥ वारणाननं वारणाधिपदारुणं बलात्सिद्धिकारणम् । तारणं भवाद्विघ्नवारणं भक्तवत्सलं नौम्युमासुतम् ॥ ११॥ शङ्कराङ्कतोऽवातरन्मुदा शैलजाग्रतो हर्षयन्नुभौ । षण्मुखेन यो नृत्यते गिरौ भक्तवत्सलं तं नमाम्यहम् ॥ १२॥ शैलजासुतं विश्वमोहनं भक्तवत्सलं कल्मषापहम् । सिद्धिदायकं विघ्ननाशकं नौम्यहं सुरैर्वन्द्यपादुकम् ॥ १३॥ श्रीतपस्विनोऽचिन्त्यपौरुषं यं विचिन्त्य प्राक्सर्वसिद्धिदम् । सिद्धवाञ्छितास्ते भवन्ति तं भक्तवत्सलं नौम्युमासुतम् ॥ १४॥ यत्पदाब्जपीठासनङ्गणैर्मौलिकोटिभिर्वन्दितं मुहुः । प्राप्तसिद्धयस्ते भवन्ति तं भक्तवत्सलं नौम्युमासुतम् ॥ १५॥ दैवतैर्दितेरात्मजैर्नरैर्नागचारणैर्भूतकिन्नरैः । गुह्यकादिभिर्वन्दितं सदा भक्तवत्सलं नौम्युमासुतम् ॥ १६॥ चिन्तितं नरैः सिद्धनायकैर्मुक्तयेब्जजेनापि सृष्टये । त्रैपुरं च हन्तुं शिवेन वै भक्तवत्सलं नौम्युमासुतम् ॥ १७॥ पाहि पाहि मां विघ्ननायक रक्ष रक्ष मां विघ्ननाशक । देव देव त्वां विश्वपूजित भक्तवत्सलं नौम्युमासुतम् ॥ १८॥ पाहि मां विभो दीनपालक रक्ष मां प्रभो दीनवत्सल । देहि सम्पदं ह्यापदं हर भक्तवत्सलं नौम्युमासुतम् ॥ १९॥ योऽभ्यर्चितः सुरगणैर्वरसिद्धिहेतो- श्छेत्तुं भयानि च करे परुशुं दधानः । देवः स शम्भुदयितापरिवर्द्धितश्री- विघ्नान्निवारयतु वारणराजवक्त्रः ॥ २०॥ नमताशेषविघ्नौघवारणं वारणाननम् । कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ २१॥ इति गणेशस्तोत्रं सम्पूर्णम् ॥  
జప గణన: 0/108