சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

.. ஶ்ரீக்ருʼஷ்ணஜன்மஸ்துதி꞉ ..

॥ श्रीकृष्णजन्मस्तुतिः ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 12
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

॥ श्रीकृष्णजन्मस्तुतिः ॥

रूपं यत्तत्प्राहुरव्यक्तमाद्यं
ब्रह्मज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं 
स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ १॥

नष्टे लोके द्विपरार्धावसाने 
महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते 
भवानेकः शिष्यते शेषसंज्ञः ॥ २॥

योऽयं कालस्तस्य तेऽव्यक्तबन्धो-
श्चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयां
स्तं त्वीशानं क्षेमधाम प्रपद्ये ॥ ३॥

मर्त्यो मृत्युव्यालभीतः पलायन् -
सर्वांल्लोकान्निर्वृतिं नाध्यगच्छत् ।
त्वत्पादाब्जं पाप्य यदृच्छयाद्य 
स्वस्थः शेते मृत्युरस्मादपैति ॥ ४॥

॥ इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता देवकीकृता स्तुतिः समाप्ता ॥
ஜப எண்ணிக்கை: 0/108