.. અષ્ટશ્લોકી ..
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः। श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥
अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत् मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम्। उकारोऽनन्याहँ नियमयति सम्बन्धमनयो- स्त्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत्॥ १॥
मन्त्रब्रह्मणि मध्यमेन नमसा पुंसः स्वरूपं गति- र्गम्यं शिक्षितमीक्षितेन पुरतः पश्चादपि स्थानतः। स्वातन्त्र्यं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता तस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नाहँ ततः॥ २॥
अकारार्थायैव स्वमहमथ मह्यं न निवहा नराणां नित्यानामयनमिति नारायणपदम्। यमाहास्मै कालं सकलमपि सर्वत्र सकला स्ववस्थास्वाविःस्युर्मम सहजकैकर्यविधयः॥ ३॥
देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयं स्वातन्त्र्यान्धो यदि स्यात् प्रथममितरशेषत्वधीश्चेद् द्वितीयम्। आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोल: शब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थी प्रपन्नः॥ ४ ॥
नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनं चो- पायं कर्तव्यभागं त्वथमिथुनपरं प्राप्यमेवं प्रसिद्धम्। स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान् मन्तारं त्रायते चेत्यधिगतनिगमः षट्पदोऽयं द्विखण्डः॥ ५ ॥
ईशानां जगतामधीशदयितां नित्यानपायां श्रियं संश्रित्याश्रयणोचिताखिलगुणस्याङ्ग्री हरेराश्रये। इष्टोपायतया श्रिया च सहितायायात्मेश्वरायार्थये कर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः॥ ६ ॥
मत्प्राप्त्यर्थतया मयोक्तमखिलं सन्त्यज्य धर्मं पुन- र्मामेकं मदवाप्तये शरणमित्यार्तोऽवसायं कुरु। त्वामेवं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यह मत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः॥ ७ ॥
निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरे! कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः। एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयं कर्ताऽसीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन् सारथेः॥ ८ ॥
॥ इति श्रीपराशरभट्टविरचिता अष्टश्लोकी ॥