सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीविनायकस्तुतिः

stotra-930117f0
रचयिता: पारंपरिक पाठ संख्या: 2
23px

श्रीविनायकस्तुतिः

(श्रीकालटिक्षेत्रे) अश्वत्थोऽयं प्रपञ्चो न हि खलु सुखलेशोऽप्यत्र तस्माज्जिहास्यो लोका इत्यादरेण प्रणतभयहरो वारणाग्र्यास्य एषः । बोधायैव स्वयं किं वसति दृढतराश्वत्थमूले कृपालु- र्नाहं जानामि यूयं वदत बुधवराः किं तथा वान्यथा वा ॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचिता विनायकस्तुतिः
पाठ जप: 0/108