ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

.. ಶ್ರೀವಾಸುದೇವಾನಂದಸರಸ್ವತೀವಿರಚಿತಂ ಗೀತಿಪೂರ್ವಂ ಗಣಪತಿಸ್ತೋತ್ರಂ ..

॥ श्रीवासुदेवानन्दसरस्वतीविरचितं गीतिपूर्वं गणपतिस्तोत्रम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 1
23px

श्रीगणपतिस्तोत्रम्

सुमुख प्रथम स्वनामगायकपालक सेवकमङ्गलकारक । कामसुपूरक मङ्गलकारक, त्राहि विनायक भाविकतारक ॥ १॥ सिन्दूरलेपक मोदकभक्षक, दुर्जनशिक्षक निजजनवीक्षक । अङ्कुशधारक जगदुद्धारक, लोकविधारक संहारकारक ॥ २॥ अशेषकारक शक्तिविधारक, मूषकवाहक सुरदरदाहक । कलौ सुतारक त्वं हि विनायक, पालक सेवकमखिलाकहारक ॥ ३॥ करुणारससम्पूर्णकटाक्षामलवीक्षणैः । योऽनुगृह्णाति भक्तान्स प्रसन्नः सुमुखः स्मृतः ॥ ४॥ ये परित्यज्य विहितं निषिद्धं प्रचरन्ति ते । वक्रास्तानतुण्डत्येष वक्रतुण्डः प्रकीर्तितः ॥ ५॥ प्रथमं मङ्गलायैव गणेशः स्मर्यते बुधैः । सर्वदेवार्चितत्वात्स गणेशः प्रथमः स्मृतः ॥ ६॥ स्मरणान्निजभक्तानां सर्वविघ्नान्निवार्य यः । कामान् पूरयति क्षिप्रं गणेशः कामपूरकः ॥ ७॥ निवार्यामङ्गलान्याशु स्मरणाद्गणनायकः । करोति मङ्गलान्येष ततो मङ्गलकारकः ॥ ८॥ इन्द्रादीनां तु देवानां विविधा नायकाः खलु । न नायको गणेशस्य कोऽप्यतोऽसौ विनायकः ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं गीतिपूर्वं गणपतिस्तोत्रम् ।
ಜಪ ಎಣಿಕೆ: 0/108