সনাতন স্তোত্র মঞ্জরী
Annapoorna Devi
সনাতন দেব

অন্নপূর্ণাস্তবঃ

अन्नपूर्णास्तवः
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 4
23px

अन्नपूर्णास्तवः

विश्वेश्वरीं वरेण्यां विश्वाश्रयणीं विशिष्टफलदात्रीम् । स्तोष्यामि वाञ्छिताप्त्यै स्तोत्रैरन्नाधिनायिकामम्बाम् ॥ १॥ काञ्चनरत्नविचित्रां दवीं दधतीं तथान्नपात्रं च । कष्टदरिद्रार्तिहरामम्बां प्रणतोऽस्मि सम्पदां वृद्ध्यै ॥ २॥ सर्वाभिलाषपूरणकल्पकलतिकान्नपूर्णाख्या । दारिद्र्यदोषमुग्रं शमयतु सकलार्थवृद्धिदानेन ॥ ३॥ अन्नाधिनायिकायाः कृपाघना दुःखधर्मपरितप्ते । मयि दारिद्र्यऋणघ्न्या वर्षतु धनधान्यधारया सुचिरम् ॥ ४॥ वेदादिर्भुवनाहृद्भगवति माहेश्वरीति चान्नान्ते । पूर्णेऽग्निवल्लभा स्यादुक्तोऽयं मनुरशेषफलदायी ॥ ५॥ गुरुकारुण्याल्लब्धं मन्त्रमिदं दिनमुखेषु भक्तधिया । यो जपति तस्य सिद्धिर्न दुर्लभा जायते च तापघ्नी ॥ ६॥ तव पादकमलसेवाहृतचित्तः साधकः समाहितधीः । तरति महाभवदुर्गं विश्रुतकीर्तिप्रभावसौभाग्यः ॥ ७॥ त्वजपपूजाध्यानप्रभेदपरिनिष्ठितात्मधीर्मनुजः । निःस्खोऽप्यकिञ्चनोऽपि त्रिभुवनविख्यातकीर्तिराशिः स्यात् ॥ ८॥ निधिवृन्दमध्यगां त्वां ध्यात्वा मन्त्रं यदा नरो जपति । देवि तदास्य निवासं विशन्ति विविधार्थपूरिता निधयः ॥ ९॥ दिव्यान्नपूर्णपात्रं दवीं च करद्वयेन विभ्राणाम् । ध्यात्वा यदि जपति त्वां प्रपूर्यते तस्य वेश्म धान्यौघैः ॥ १०॥ यस्मिन् वसति मनुष्यस्तव मन्त्रविशेषजापको देशे । तत्र न दीना वाणी प्रवर्तते देवि ``नास्ति नास्ती'' ति ॥ ११॥ अन्नाद्रिमध्यविस्फुरदम्बुजमध्ये त्रिमण्डलान्तःस्थाम् । ध्यायेद्यो दारिद्र्याद्विमुच्यते साधकः स एवाशु ॥ १२॥ इन्द्राग्निसोमभास्करवरुणानिलघनदतार्क्ष्यकन्दर्पाः । विष्णुविरिश्चप्रमुखा देवास्त्वद्ध्यानसम्पदा प्रथिताः ॥ १३॥ युष्मदपाङ्गघनोऽयं प्रशमितबहुदुःखधर्मतापौघः । धारासारवनौघं वर्षतु मयि देवि सर्वदा कृपया ॥ १४॥ तत्र पाणिवल्लवस्था दर्वी दिव्यान्नपूरिता देवि । दारिद्र्यदोषमुग्रं शमयतु मम सम्पदां वृद्धयै ॥ १५॥ वीक्षस्व मामनेकामयदुरितदुरन्तदुःखपरितप्तम् । (परितप्ताम्) मातर्विभूतिमय्या दिव्यामृतसारधारया दृष्टया ॥ १६॥ अभिनवभास्करकोटिप्रभासमुद्भासितं हि ते रूपम् । हृदयाम्बुजमध्यगतं देवि समाधौ भजन्ति योगीन्द्राः ॥ १७॥ आदौ सृजसि च विश्वं प्रपासि सचराचरं जगद् भृयः । संहरसि लोकमन्ते गुणत्रये सा त्वमेव देव्येका ॥ १८॥ मायोदधिरयमम्ब विषयग्राहोर्मिन्दारुणो भवति । त्वत्तापवाडवाग्नौ सोऽपि च विलयं प्रयाति तच्चित्रम् ॥ १९॥ श्रीमद्गुरुप्रसादात्तत्त्वं तव योऽभिवेत्ति लोकेऽस्मिन् । देवि स मनुजो लोके पारत्रिकमैहिकं शमभ्येति ॥ २०॥ हुतभ्रुङ्मण्डलमध्ये विलसितरविबिम्बमध्यगं त्वमृतम् । सोमात्मकं विदित्वा देवि त्वद्भावनेन पूतः स्यात् ॥ २१॥ गुरुवरपादपवित्रीकृतान्तरात्मा प्रतापयित्वा त्वाम् । देवि चिदग्नौ दीप्ते योगी योगामृतं जुहोत्येव ॥ २२॥ सकृदपि युष्मद्भक्तो दिव्यामृतमम्ब भावपात्रस्थम् । पिबति विदित्वा सम्यग् जीवन्मुक्तः स विज्ञेयः ॥ २३॥ योगामृतपूतात्मा योगी विजितेन्द्रियारिजितसङ्गः । (सङ्घः) नहि जननीगर्भगृहं प्रविशति योगेशि योगभावितधीः ॥ २४॥ योगी त्वयाहिधत्ते संवित्तिपदे तदैव परितुष्टिम् । (त्वयाधिधत्ते) विधिहरिरुद्रादीनां गणयति न पदानि देव्यनित्यानि ॥ २५॥ षट्त्रिंशत्तत्त्वाख्यं शिवादिभूम्यन्तमम्ब विश्वमिदम् । यस्योर्मिम्बुद्बुदः स्यात् तत्ते संवित्तिमाश्रये धाम ॥ २६॥ मूलाधारनिवासा सूक्ष्मा सूर्यायुतोपमा शक्तिः । निर्भिद्य षट्सरोजं यान्ती या सा त्वमेव शम्भुपदम् ॥ २७॥ षोडशपत्रसरोजात् स्रवन्महाधारया सहोद्दीप्ता । यान्ती मूलनिवासं या हि कुळा कुण्डली त्वमेवाम्ब ॥ २८॥ जित्वा षट् पञ्च पुनर्निरुध्य दशकं तथैकमवलम्ब्य । देवि तव रूपमब्जे हृदयस्थे संयमी स्मरति ॥ २९॥ स्थूलं तवाम्ब रूपं योगिमनःपद्मकर्णिकासंस्थम् । योगविवृद्ध्यै सिद्धिं मम दिशतु समस्तवाञ्छितावाप्त्यै ॥ ३०॥ सूक्ष्मं तवाम्ब रूपं सकलजगत्राणकारणोद्भूतम् । स्तोष्ये तदेव भक्त्या वाञ्छितसिद्धिप्रदानसुरवृक्षम् ॥ ३१॥ श्रीदुर्गा वाग्देवी गिरिजा लिपिमातृका च मातङ्गी । त्रिपुरा तथान्नपूर्णा राज्या रमा चेति कीर्तिता मुनिभिः ॥ ३२॥ वाग्देवीं वागाप्त्यै दुर्गां भयशान्तये श्रियं भूत्यै । आराधयति मनुष्यः पुरुषार्थचतुष्कलब्धये त्रिपुराम ॥ ३३॥ बहुरूपधारिणीं त्वां बहुधा प्रवदन्ति मानवा लोके । गुरुमन्त्रदेवतात्मस्वरूपिणीं भावयाम्यहं त्वेकाम् ॥ ३४॥ कथमम्ब रूपमाद्यं तव रूपगुणाधिकं च चिन्मात्रम् । जानामि देवि तस्माद् दुरुक्तमीशि क्षमस्व तत् सर्वम् ॥ ३५॥ दारिद्द्र्यदुरितदुःखप्रशान्तये व्याहृतं मया स्तोत्रम् । देवि सदा तं जपतां भक्तानां भवतु कामधेनुरिदम् ॥ ३६॥ स्तोत्रेण त्वं तुष्टा मयोदितेन प्रभूतधनधान्यैः ! पूरय वेश्म मदीयं विधेहि मयि सन्निधिं प्रपद्ये त्वाम् ॥ ३७॥ इति अन्नपूर्णास्तवः
পাঠ জপ: 0/108