..ஶ்ரீ கோ³தா³ஸ்துதி꞉..
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी। वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं श्रीरङ्गराजहरिचन्दनयोगदृश्याम्। साक्षात् क्षमां करुणया कमलामिवान्यां गोदामनन्यशरणः शरणं प्रपद्ये ॥ १ ॥
वैदेशिकः श्रुतिगिरामपि भूयसीनां वर्णेषु माति महिमा न हि मादृशां ते। इत्थं विदन्तमपि मां सहसैव गोदे मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २ ॥
त्वत्प्रेयसः श्रवणयोरमृतायमानां तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम्। गोदे त्वमेव जननि त्वदभिष्टवाहीम् वाचं प्रसन्नमधुरां मम संविधेहि ॥ ३ ॥
कृष्णान्वयेन दधतीं यमुनानुभावं तीर्थैर्यथावदवगाह्य सरस्वती ते। गोदे विकस्वरधियां भवतीकटाक्षात् वाचः स्फुरन्ति मकरन्दमुचः कवीनाम् ॥ ४ ॥
अस्मादृशामपकृतौ चिरदीक्षितानाम् अह्राय देवि दयते यदसौ मुकुन्दः। तन्निश्चितं नियमितस्तव मौळिदाम्ना तन्त्रीनिनादमधुरैश्च गिरां निगुम्भैः ॥ ५ ॥
शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा वाचां प्रवाहनिवहेऽपि सरस्वती त्वम्। अप्राकृतैरपि रसैर्विरजा स्वभावात् गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ ६ ॥
वल्मीकतः श्रवणतो वसुधात्मनस्ते जातो बभूव स मुनिः कविसार्वभौमः। गोदे किमद्भतमिदं यदमी स्वदन्ते वक्त्रारविन्दमकरन्दनिभाः प्रबन्धाः ॥ ७ ॥
भोक्तुं तव प्रियतमं भवतीव गोदे भक्तिं निजां प्रणयभावनया गृणन्तः। उच्चावचैर्विरहसङ्गमजैरुदन्तैः । शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ ८ ॥
मातः समुत्थितवतीमधिविष्णुचित्तं विश्वोपजीव्यममृतं वचसा दुहानाम्। तापच्छिदं हिमरुचेरिव मूर्तिमन्यां सन्तः पयोधिदुहितुः सहजां विदुस्त्वाम् ॥ ९ ॥
तातस्तु ते मधुभिदः स्तुतिलेशवश्यात् कर्णामृतैः स्तुतिशतैरनवाप्तपूर्वम्। त्वन्मौळिगन्धसुभगामुपहृत्य मालां लेभे महत्तरपदानुगुणं प्रसादम् ॥ १० ॥
दिक् दक्षिणाऽपि परिपक्त्रिमपुण्यलभ्यात् सर्वोत्तरा भवति देवि तवावतारात्। यत्रैव रङ्गपतिना बहुमानपूर्वं निद्राळुनाऽपि नियतं निहिताः कटाक्षाः ॥ ११ ॥
प्रायेण देवि भवतीव्यपदेशयोगात् गोदावरी जगदिदं पयसा पुनीते। यस्यां समेत्य समयेषु चिरं निवासात् भागीरथीप्रभृतयोऽपि भवन्ति पुण्याः ॥ १२ ॥
नागेशयः सुतनु पक्षिरथः कथं ते जातः स्वयंवरपतिः पुरुषः पुराणः। एवंविधाः समुचितं प्रणयं भवत्याः सन्दर्शयन्ति परिहासगिरः सखीनाम् ॥ १३ ॥
त्वद्भुक्तमाल्यसुरभीकृतचारुमौळे: हित्वा भुजान्तरगतामपि वैजयन्तीम्। पत्युस्तवेश्वरि मिथः प्रतिघातलोलाः बर्हातपत्ररुचिमारचयन्ति भृङ्गाः ॥ १४ ॥
आमोदवत्यपि सदा हृदयङ्गमाऽपि रागान्विताऽपि लळिताऽपि गुणोत्तरापि। मौळिस्रजा तव मुकुन्दकिरीटभाजा गोदे भवत्यधरिता खलु वैजयन्ती ॥ १५ ॥
त्वन्मौळिदामनि विभोः शिरसा गृहीते स्वच्छन्दकल्पितसपीतिरसप्रमोदाः। मञ्जुस्वना मधुलिहो विदधुः स्वयं ते स्वायंवरं कमपि मङ्गळतूर्यघोषम् ॥ १६ ॥
विश्वायमानरजसा कमलेन नाभौ वक्षःस्थले च कमलास्तनचन्दनेन। आमोदितोऽपि निगमैर्विभुरङियुग्मे धत्ते नतेन शिरसा तव मौळिमालाम् ॥ १७ ॥
चूडापदेन परिगृह्य तवोत्तरीयं । मालामपि त्वदळकैरधिवास्य दत्ताम्। प्रायेण रङ्गपतिरेष बिभर्ति गोदे सौभाग्यसम्पदभिषेकमहाधिकारम् ॥ १८ ॥
तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः यं सर्वगन्ध इति सादरमुद्वहन्ति। आमोदमन्यमधिगच्छति मालिकाभिः सोऽपि त्वदीयकुटिलाळकवासिताभिः॥ १९ ॥
धन्ये समस्तजगतां पितुरुत्तमाङ्गे त्वन्मौळिमाल्यभरसम्भरणेन भूयः। इन्दीवरस्रजमिवादधति त्वदीया - न्याकेकराणि बहुमानविलोकितानि ॥ २० ॥
रङ्गेश्वरस्य तव च प्रणयानुबन्धात् अन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः।। वाचालयन्ति वसुधे रसिकास्त्रिलोकीं न्यूनाधिकत्वसमताविषयैर्विवादैः ॥ २१ ॥
दूर्वादळप्रतिमया तव देहकान्त्या गोरोचनारुचिरया च रुचेन्दिरायाः। आसीदनुज्झितशिखावळकण्ठशोभं माङ्गळ्यदं प्रणमतां मधुवैरिगात्रम् ॥ २२ ॥
अर्घ्यं समर्च्य नियमैर्निगमप्रसूनैः नाथं त्वया कमलया च समेयिवांसम्। मातश्चिरं निरविशन् निजमाधिराज्यं मान्या मनुप्रभृतयोऽपि महीक्षितस्ते ॥ २३ ॥
आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं रङ्गेश्वरस्य रमया विनिवेद्यमाने। पार्श्वे परत्र भवती यदि तत्र नासीत् प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ २४ ॥
गोदे गुणैरपनयन् प्रणतापराधान् भ्रूक्षेप एव तव भोगरसानुकूलः। कर्मानुबन्धिफलदानरतस्य भर्तुः स्वातन्त्र्यदुर्व्यसनमर्मभिदानिदानम् ॥ २५ ॥
रङ्गे तटिगुणवतो रमयैव गोदे कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या। दौर्गत्यदुर्विषविनाशसुधानदीं त्वां सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥ २६ ॥
जातापराधमपि मामनुकम्प्य गोदे गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः। वात्सल्यनिर्भरतया जननी कुमारं स्तन्येन वर्धयति दष्टपयोधराऽपि ॥ २७ ॥
शतमखमणिनीला चारुकल्हारहस्ता स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः। अळकविनिहिताभिः स्रग्भिराकृष्टनाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ २८ ॥
इति विकसितभक्तेरुत्थितां वेङ्कटेशात् बहुगुणरमणीयां वक्ति गोदास्तुतिं यः। स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥ २९ ॥
कवितार्किकसिंहाय कल्याणगुणशालिने। श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
॥ इति श्री गोदास्तुतिः समाप्ता॥