.. શક્ત્યષ્ટોત્તરશતદિવ્યસ્થાનીયનામસ્તોત્રમ્ ..
॥ शक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम् ॥
दक्ष उवाच
एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयाऽनघे। तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः॥
देव्युवाच
देवीः सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि। सप्तलोकेषु यत्किञ्चिद्रहितं न मया हि तत्॥ तथापि येषु स्थानेषु द्रष्टव्या सिद्धि मीप्सुभिः। स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः॥
॥ स्तोत्रम् ॥
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी। प्रयागे ललिता देवी कामाक्षी गन्धमादने॥१॥ मानसे कुमुदा नाम विश्वकाया तथाम्बरे। गोमन्ते गोमती नाम मन्दरे कामचारिणी॥२॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे। कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते॥३॥ एकाम्रके कीर्तिमती विश्वे विश्वेश्वरीं विदुः। पुष्करे पुरुहूतेति केदारे मार्गदायी॥४॥ नन्दा हिमवतःपृष्ठे गोकर्णे भद्रकर्णिका। स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका॥५॥ श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा। जया वराहशैले तु कमला कमलालये॥६॥ रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ। महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी॥७॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया। मायापुर्यां कुमारी तु सन्ताने ललिता तथा॥८॥ उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला। गङ्गायां मङ्गला नाम विमला पुरुषोत्तमे॥९॥ विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने। नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी॥१०॥ विपुले विपुला नाम कल्याणी मलयाचले। कोटवी कोटितीर्थे तु सुगन्धा माधवे वने॥११॥ कुब्जाम्रके त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया। शिवकुण्डे सुनन्दा तु नन्दिनी देविकातटे॥१२॥ रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने। देविका मथूरायां तु पाताले परमेश्वरी॥१३॥ चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी। सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका॥१४॥ रमणा रामतीर्थे तु यमुनायां मृगावती। करवीरे महालक्ष्मीरुमादेवी विनायके॥१५॥ अरोगा वैद्यनाथे तु महाकाले महेश्वरी। अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे॥१६॥ माण्डव्ये माण्डवी नाम स्वाहा महेश्वरे पुरे। छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके॥१७॥ सोमेश्वरे वरारोहा प्रभासे पुष्करावती। देवमाता सरस्वत्यां पारावारतटे मता॥१८॥ महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी। सिंहिका कृतशौचे तु कार्तिकेये यशस्करी॥१९॥ उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे। माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे॥२०॥ जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते। देवदारुवने पुष्टिर्मेधा काश्मीर मण्डले॥२१॥ भीमादेवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा। कपालमोचने शुद्धिर्माता कायावरोहणे॥२२॥ शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा। काला तु चद्रभागायामच्चोदे शिवकारिणी॥२३॥ वेणायाममृता नाम बदर्यां उर्वशी तथा। औषधी चोत्तरकुरौ कृशद्वीपे कुशोदका॥२४॥ मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी। अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये॥२५॥ गायत्री वेदवदने पार्वती शिवसन्निधौ। देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती॥२६॥ सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी तथा। अरुन्धती सतीनां तु रामासु च तिलोत्तमा॥२७॥ चित्ते ब्रह्मकलानामशक्तिः सर्वशरीरिणाम्। एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम्॥२८॥ अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम्। यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते॥२९॥ एषु तीर्थेषु यः कृत्वा स्नानं पश्यन्ति मां नरः। सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत्॥३०॥ ॥ इति श्रीमत्स्यमहापुराणे श्रीशक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम् ॥