सनातन स्तोत्र संग्रह
देवी स्तोत्रम्
सनातन देव

॥ सिद्धकुञ्जिकास्तोत्रम् ॥

stotra-8afa0cb4
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ सिद्धकुञ्जिकास्तोत्रम् ॥

शिव उवाच शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत॥ १ ॥

न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्॥ २ ॥

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्। अति गुह्यतरं देवि देवानामपि दुर्लभम्॥ ३ ॥

गोपनीयं प्रयत्‍‌नेनस्वयोनिरिव पार्वति। मारणं मोहनं वश्यंस्तम्भनोच्चाटनादिकम्। पाठमात्रेण संसिद्ध्येत्कुञ्जिकास्तोत्रमुत्तमम्॥ ४ ॥

॥ अथ मन्त्रः ॥ ॐ ऐं ह्रीं क्लींचामुण्डायै विच्चे॥ ॐ ग्लौं हुं क्लीं जूं सः ज्वालयज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वलहं सं लं क्षं फट् स्वाहा॥

नमस्ते रूद्ररूपिण्यै नमस्ते मधुमर्दिनि। नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥ १ ॥

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि। जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे॥ २ ॥

ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका। क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते॥ ३ ॥

चामुण्डा चण्डघाती च यैकारी वरदायिनी। विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि॥ ४ ॥

धां धीं धूं धूर्जटेः पत्‍‌नी वां वीं वूं वागधीश्‍वरी। क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु॥ ५ ॥

हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी। भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः॥ ६ ॥

अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं। धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥ ७ ॥

पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा। सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे॥ ८ ॥

इदं तु कुञ्जिकास्तोत्रंमन्त्रजागर्तिहेतवे। अभक्ते नैव दातव्यंगोपितं रक्ष पार्वति॥ ९ ॥

यस्तु कुञ्जिकाया देविहीनां सप्तशतीं पठेत्। न तस्य जायतेसिद्धिररण्ये रोदनं यथा॥ १०॥

॥ इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ॥ ॥ ॐ तत्सत् ॥

पाठ जप: 0/108