ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಸಂಕಲಿತಂ ಶ್ರೀಗಣೇಶಸ್ತೋತ್ರಂ

संकलितं श्रीगणेशस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 3
23px

श्रीगणेशस्तोत्रम्

ॐ बिभ्रदक्षिणहस्तपद्मयुगले दन्ताक्षसूत्रे शुभे वामे मोदकपूर्णपात्रपरशू नागोपवीती त्रिदृक् । श्रीमान्सिंहयुगासनः श्रुतियुगे शङ्खौ वहन्मौलिमान् दिश्यादीश्वरपुत्र एष भगवाँल्लम्बोदरः शर्म नः ॥ १॥ गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भवतां नित्यं वर दाता विनायकः ॥ २॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ ३॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि गणेशस्य महात्मनः ॥ ४॥ यः पठेच्छृणुयाद्वापि सर्वविघ्नहराणि वै । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ ५॥ सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते । मुख्यद्वादश नामानि गणेशस्य समाहितः ॥ ६॥ यः पठेत्तु शिवोक्तानि स लभेत्सिद्धिमुत्तमाम् । प्रथमं वक्रतुण्डं तु चैकदन्तं द्वितीयकम् ॥ ७॥ तृतीयं कृष्णपिङ्गं तु चतुर्थं तु कपर्दिनम् । लम्बोदरं पञ्चमं तु षष्ठं विकटमेव च ॥ ८॥ सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् । नवमं भालचन्द्रं तु दशमं तु विनायकम् ॥ ९॥ एकादशं गणपतिं द्वादशं मन्त्रनायकम् । पठते श‍ृणुते यस्तु गणेशस्तवमुत्तमम् ॥ १०॥ विद्यार्थी लभते विद्यां पुत्रार्थी पुत्रमुत्तमम् । भार्यार्थी लभते भार्या मोक्षार्थी परमं पदम् ॥ ११॥ इति गणेशस्तोत्रम्
ಜಪ ಎಣಿಕೆ: 0/108