சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீக³ணேஶமானஸபூஜா த்³விதீயா

श्रीगणेशमानसपूजा द्वितीया
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

श्रीगणेशमानसपूजा

नानारत्नविचित्रकं रमणिकं सिंहासनं कल्पितं स्नानं जाह्नविवारिणा गणपते पिताम्बरं गृह्यताम् । कण्ठे मौक्तिकमालिका श्रुतियुगे द्वे धारिते कुण्डले नानारत्नविराजितो रविविभायुक्तः किरीटः शिरे ॥ १॥ भाले चर्चितकेशरं मृगमदामोदाङ्कितं चन्दनं नानावृक्षसमुद्गतं सुकुसुमं मन्दारदूर्वाशमीः । गुग्गूल्लोद्भवधूपकं विरचितं दीपं त्वदग्रे स्थितं भक्ष्यं मोदकसंयुतं गणपते क्षीरोदनं गृह्यताम् ॥ २॥ ताम्बूलं मनसा मया विरचितं जम्बूफलं दक्षिणां साष्टाङ्गं प्रणतोऽस्मि ते मम कृतां पूजा गृहाण प्रभो । मे कामः सततं तवार्चनविधौ बुद्धिस्तवालिङ्गने स्वेच्छा ते मुखदर्शने गणपते भक्तिस्तु पादाम्बुजे ॥ ३॥ माता गणेशश्च पिता गणेशो भ्राता गणेशश्च सखा गणेशः । विद्या गणेशो द्रविणं गणेशः स्वामी गणेशः शरणं गणेशः ॥ ४॥ इतो गणेशः परतो गणेशः यतो यतो यामि ततो गणेशः । गणेशदेवादपरं न किञ्चित् तस्मात् गणेशं शरणं प्रपद्ये ॥ ५॥
ஜப எண்ணிக்கை: 0/108