સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

ચિન્તામણિષટ્પદી

चिन्तामणिषट्पदी
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px
चिन्तामणिषट्पदी चिन्तामणिषट्पदी । श्रीगणेशाय नमः । द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन । सदनवसादन सादनमन्तरायस्य रायस्य ॥ १॥ इन्दुकल कलितालिक सालिकशुम्भत्कपोलपालियुग । विकटस्फुटकटधाराधारोऽस्य प्रपञ्चस्य ॥ २॥ परपरशुपाणिपाणे पणितपणायेः पणायितोऽसि यतः । आरूह्य वज्रदन्तं विदधासि विपदन्तम् ॥ ३॥ लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक । शनकैरवलोकय मां यमान्तरायापहारिदृशा ॥ ४॥ आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ् घ्रियुग । सराप्रदण्डरसालो नागजभालोऽतिभासि विभो ॥ ५॥ अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान । स्वचरणशरणं करुणावरुणालय पाहि मां दीनम् ॥ ६॥ कचिरवचोऽमृतरावोन्नीता नीता दिवस्तुतिः स्फीता । इति षट्पदी मदीया गणपतिपादाम्भुजे विशतु ॥ ७॥ इति चिन्तामणिषट्पदी गणेश स्तुतिः
પાઠ જપ: 0/108