சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஸுரர்ஷிபி⁴꞉ ப்ரோக்தா மஹோத³ரஸ்துதி꞉ 

सुरर्षिभिः प्रोक्ता महोदरस्तुतिः 
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px

महोदरस्तुतिः

रविरुवाच - गते मोहासुरे तत्र शान्तरूपे सुरेश्वराः । सुरैश्च मुनिभिः सार्धं महोदरमपूजयन् ॥ १॥ पूजयित्वा गणेशानं प्रणता भक्तिसंयुताः । तुष्टुवुस्ते विशेषेण हर्षयुक्ताः सुरर्षयः ॥ २॥ सुरर्षय ऊचुः । अमेयमायाऽमितविक्रमाय निरञ्जनायाथ गणेश्वराय । अमायिने मायिकमोहनाय नमो नमस्तेऽस्तु महोदराय ॥ ३॥ मनोवचोहीनतया स्थिताय मनोवचोयुक्तगजाननाय । अयोगसंयोगमयाय ढुण्ढे नमो नमस्तेऽस्तु महोदराय ॥ ४॥ विदेहरूपाय च बोधकाय तथा हि सोऽहं पदभोगकाय । सदा सुबिन्द्वात्मकदेहगाय नमो नमस्तेऽस्तु महोदराय ॥ ५॥ गुणेशरूपाय सुषुप्तिकाय तथा सुसूक्ष्माय च जागृते ते । हरीशब्रह्मादिषु संस्थिताय नमो नमस्तेऽस्तु महोदराय ॥ ६॥ शुभाशुभाकारधराय भूम्ने शुभाशुभादौ च सुपूजिताय । शुभाशुभे कर्मणि सिद्धिदाय नमो नमस्तेऽस्तु महोदराय ॥ ७॥ कर्त्रे सुपात्रे हरणाय काल! प्रकाशरूपाय च भावने ते । क्रियास्वरूपाय च शक्तिदाय नमो नमस्तेऽस्तु महोदराय ॥ ८॥ यमाय चन्द्राय च वायवे वै कुबेररूपाय पुरन्दराय । शिवाय वह्न्यात्मकनैरृताय नमो नमस्तेऽस्तु महोदराय ॥ ९॥ अनन्तरूपाय जलेशकाय प्रजापते! रूपधराय पाशिन्! । दिगीशपालाय दिशामयाय नमो नमस्तेऽस्तु महोदराय ॥ १०॥ सुरासुराणां च समाय नित्यं सुरासुराकारधराय धात्रे । पिशाचगन्धर्वमयाय यक्ष! नमो नमस्तेऽस्तु महोदराय ॥ ११॥ धरास्वरूपाय जलप्रकाश! जलस्वरूपाय च तेजसे ते । वाताय चाकाशमयाय धाम्ने नमो नमस्तेऽस्तु महोदराय ॥ १२॥ अनादिमध्यान्तविहारकाय सदादिमध्यान्तमयाय चित्रम् । तत्त्वप्रकाशाय च तत्त्वमूर्ते नमो नमस्तेऽस्तु महोदराय ॥ १३॥ नराय वर्णाश्रमसंस्थिताय द्विजस्वरूपाय नराधिपाय । वैश्याय शूद्राय तथाऽन्तिमाय नमो नमस्तेऽस्तु महोदराय ॥ १४॥ गुरोरधीनाय गृहस्थरूप! वनस्थितायाऽथ परिव्रजाय । वर्णाश्रमैर्हीनमयाय योगिन्! नमो नमस्तेऽस्तु महोदराय ॥ १५॥ वृक्षादिवीरुध्तृणसंस्थिताय धराधराकारमयाय देव! । पशुस्वरूपाय च पक्षिणे ते नमो नमस्तेऽस्तु महोदराय ॥ १६॥ रसस्वरूपाय रसाधिपाय तथाऽन्नरूपाय च जीवनाय । चराचराकारमयाय नाग! नमो नमस्तेऽस्तु महोदराय ॥ १७॥ वराङ्कुशाद्यैश्च सुचिह्नितायोन्दुरुध्वजायाऽऽखुसुवाहनाय । त्रिनेत्रधाराय च शूर्पकर्ण! नमो नमस्तेऽस्तु महोदराय ॥ १८॥ स्वानन्दलोकाधिप! देवदेव! सुसिद्धिबुद्धिप्रभवे परात्मन्! । सदैकदन्ताय चतुर्भुजाय नमो नमस्तेऽस्तु महोदराय ॥ १९॥ महोदरायादिसुपूजिताय सुवस्त्रसम्भूषणभूषिताय । प्रमोदमोदादिगणैः स्तुताय नमो नमस्तेऽस्तु महोदराय ॥ २०॥ सदामृताभेदमयेक्षुनीरसमुद्रलीलाकरकञ्जपाणे! । गणेश! हेरम्ब! च भक्तपोष! नमो नमस्तेऽस्तु महोदराय ॥ २१॥ प्रविश्य विश्वोदरमेव भोगविहारिणे विश्वमयाय पूर्ण! । विकारहीनाय सुबोधदाय नमो नमस्तेऽस्तु महोदराय ॥ २२॥ अल्पोदरा देवमुखाश्च सर्वे स्वस्वप्रभोगे कुशलाश्च तेन । तेषु त्वमेव सुखभोगकारिन् नमो नमस्तेऽस्तु महोदराय ॥ २३॥ यः पठेच्छृणुयाद्यश्च तस्मै शान्तिप्रदायकम् । भुक्तिमुक्तिप्रदं चैव भविष्यति न संशयः ॥ ३८॥ इति सुरर्षिभिः प्रोक्ता महोदरस्तुतिः
ஜப எண்ணிக்கை: 0/108