सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

पञ्चदेवैः कृतः गणेशस्तवः

stotra-87c00d48
रचयिता: पारंपरिक पाठ संख्या: 1
23px

गणेशस्तवः पञ्चदेवैः कृतः

श्रीगणेशाय नमः । पञ्च देवा ऊचुः । नमस्ते वक्रतुण्डाय त्रिनेत्रं दधते नमः । चतुर्भुजाय देवाय पाशाङ्कुशधराय च ॥ १०॥ लम्बोदर नमस्तुभ्यं नाभिशेषाय ते नमः । महते चैकदन्ताय शूर्पकर्णाय ते नमः ॥ ११॥ सिन्दूरारुणदेहाय रक्तवर्णधराय च । महाकायाय सूक्ष्माय गणेशाय नमो नमः ॥ १२॥ सिद्धिबुद्धियुतायैव विभूतिसहिताय च । चिन्तामणिधरायैव तथा चिन्तामणे नमः ॥ १३॥ अव्यक्ताय परेशाय परेषां च पराय ते । मनोवाणीविहीनाय विघ्नेशाय नमो नमः ॥ १४॥ नानामायाधरायैव मायिनां मोहकारिणे । हेरम्बाय नमस्तुभ्यं ब्रह्मणां पतये नमः ॥ १५॥ दर्शयस्व निजं रूपं भक्तेभ्यः प्रीतिदायकम् । सनाथा हि वयं तेन सर्वनाथाय ते नमः ॥ १६॥ स्तुवतां तु पुरःप्रादुरासीद्देवो गजाननः । तं दृष्ट्वा दण्डवत् सर्वे प्रणता भक्तिभावतः ॥ १७॥ तानुत्थाप्य स्वयं ढुण्ढिर्वचनं चेदमब्रवीत् । स्तोत्रेण भावितो देवाः प्रीतो वो नात्र संशयः ॥ १८॥ यः पठेत् स्तोत्रमेतद्वै स मे मान्यो भवेत् सुराः । वाञ्छितं पूरयिष्याम्यं ते मे सायुज्यमाप्नुयात् ॥ १९॥ श‍ृणुध्वं मे वचो रम्यं मा गर्वं कुरुत प्रियाः । भवन्तो मदधीनाश्च कलांशा नात्र संशयः ॥ २०॥ क्रीडार्थं निर्मिताः सर्वे स्पर्धमानाः परस्परम् । किमर्थ मनसि भ्रान्ता जाताः पूर्णात्मका अपि ॥ २१॥ श्राव्यं ज्ञानं रहस्यं यन् मदीयं तेन भाविताः । सदा मोहविनिर्मुक्ता भवितारश्च मत्समाः ॥ २२॥ इति पञ्चदेवैः कृतः गणेशस्तवः
पाठ जप: 0/108