सनातन स्तोत्र संग्रह
Others Namawali
सनातन देव

॥ श्रीविष्णुषोडश नामानि ॥

stotra-86d13452
रचयिता: पारंपरिक पाठ संख्या: 2
23px

॥ श्रीविष्णुषोडश नामानि ॥

औषधे चिन्तयेद् विष्णुं भोजने च प्रजापतिम्।
शयने पद्मनाभं च विवाहे च प्रजापतिम्।।

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे।।

दुस्स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्।
कानने नारसिंहं च पावके जलशायिनम्।।

जलमध्ये वराहं च पर्वते रघुनन्दनम्।
गमने वामनं चैव सर्वकालेषु माधवम्।।

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते।।
पाठ जप: 0/108