சனாதன ஸ்தோத்திர மஞ்சரி
Ashtakam
ஸனாதன தே³வ

.. ஶ்ரீ மஹாலக்ஷ்ம்யஷ்டகம் ..

॥ श्री महालक्ष्म्यष्टकम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px

॥ श्री महालक्ष्म्यष्टकम् ॥

इन्द्र उवाच ॥

ॐ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥

नमस्ते गरुडारूढे कोलासुरभयज्र्रि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २ ॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३ ॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४ ॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥

स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६ ॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ७ ॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥ ८ ॥

महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥

एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥

॥ इति श्री इन्द्रकृतं महालक्ष्म्यष्टकस्तोत्रं सम्पूर्णम् ॥

ஜப எண்ணிக்கை: 0/108