সনাতন দেব
শ্লোকত্রয়ম্
श्लोकत्रयम्
प्रातस्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमञ्जनाभम्। ग्राहाभिभूतमदवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम्।। १ ।।
प्रातर्नमामि मनसा वचसा च मूर्जा पादारविदयुगळं परमस्य पुंसः। नारायणस्य नरकार्णवतारणस्य पारायणप्रवण विप्रपरायणस्य।। २ ।।
प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृत पापभयापनुत्यै। यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशनकरो धृतशंखचक्रः।। ३ ।।
फलश्रुतिः श्लोकत्रय मिदं पुण्यं प्रातरुत्थाय यः पठेत् । लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ।।४ ।।