सनातन देव
॥ यतिराज सप्ततिः ॥
stotra-85782492
लिपि छनोट (Select Script):
देवनागरी (संस्कृत)
॥ यतिराज सप्ततिः ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्य वर्योमे सन्निधत्तां सदा हृदि ॥ कमप्याध्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥ १॥ सहधर्मचरीं शौरेः संमन्त्रितजगध्दिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥ २॥ वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यद्वेत्रशिखरस्पन्दे विश्वमेतद् व्यवस्थितम् ॥ ३॥ यस्य सारस्वतस्रोतो वकुलामोदवासितम् । श्रुतीनां विश्रमायालं शठारिं तमुपास्महे ॥ ४॥ नाथेन मुनिना तेन भवेयं नाथवाहनम् । यस्य नैगमिकं तत्वं हस्तामलकतां गतम् ॥ ५॥ नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम् । शुध्दसत्वमयं शौरेरवतारमिवापरम् ॥ ६॥ अनुज्झितक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमदिरागं तं रामं तुर्यमुपास्महे ॥ ७॥ विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम् । निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥ ८॥ दया निघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये। येन विश्वसृजो विष्णोरपूर्यत मनोरथः ॥ ९॥ प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् । प्रसाधयति यत्सूक्तिः स्वाधीन पतिकां श्रुतिम् ॥ १०॥ उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥ ११॥ प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः । अपृथक्प्रतिपन्न यन्मयत्वैः ववृधे पञ्चभिरायुधैर्मुरारेः ॥ १२॥ शमितोदयशङ्करादिगर्वः स्वबलादुध्दृतयादवप्रकाशः । अवरोपितवान् श्रुतेरपार्थान् ननु रामावरजः स एष भूयः ॥ १३॥ var एव अबहुश्रुतसंभवं श्रुतीनां जरतीनामयथायथ प्रचारम् । विनिवर्तयितुं यतीश्वरोक्तिः विदधे ताः स्थिरनीतिपञ्जरस्थाः ॥ १४॥ अमुना तपनातिशायि भूम्ना यतिराजेन निबध्दनायकश्रीः । महती गुरुपङ्क्तिहारयष्टिः विबुधानां हृदयङ्गमा विभाति ॥ १५॥ अलूनपक्षस्य यति क्षमाभृतो विभाति वंशे हरितत्वमक्षतम् । यदुद्भवाः शुध्दसुवृत्तशीतलाः भवन्ति मुक्तावलिभूषणं भुवः ॥ १६॥ अनपाय विष्णुपदसंश्रयं भजे कलया कयाऽपि कलयाऽप्यनुज्झितम् । अकलङ्कयोगमजडाशयोदयं यतिराजचन्द्रमुपराग दूरगम् ॥ १७॥ अभिगम्य सम्यगनघाः सुमेधसो यति चक्रवर्तिपदपद्मपत्तनम् । हरिभक्तदास्यरसिकाः परस्परं क्रयैक्रयार्हदशया समिन्धते ॥ १८॥ परुषातिवादपरिवादपैशुन- प्रभृति प्रभूतपतनीयपङ्किला । स्वदते ममाध्य सुभगा सरस्वती यतिराजकीर्त्तिकतकैर्विशोधिता ॥ १९॥ अनुकल्पभूतमुरभित्पदं सतां अजहत्त्रिवर्गमपवर्गवैभवम् । चलचित्तवृत्तिविनिवर्त्तनौषधं शरणं यतीन्द्रचरणं वृणीमहे ॥ २०॥ श्वसितावधूतपरवातिवैभवाः निगमान्तनीतिजलधेस्तलस्पृशः । प्रतिपादयन्ति गतिमापवर्गिकीं यतिसार्वभौमपदसात्कृताशयाः ॥ २१॥ मूले निविश्य महतां निगमद्रुमाणां मुष्णन् प्रतारकभयं धृतनैकदण्डः । रङ्गेश भक्तजनमानसराजहंसो रामानुजः शरणमस्तु मुनिः स्वयं नः ॥ २२॥ सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः संसारजिह्मगमुखैः समुपस्थितं नः । विष्वक्ततं विषयलोभविषं निजाभिः गाढानुभावगरुडध्वजभावनाभिः ॥ २३॥ नाथः स एष यमिनां नखरश्मिजालैः अन्त निलीनमपनीय तमो मदीयम् । विज्ञानचित्रमनघं लिखतीव चित्ते व्याख्यानकेलिरसिकेन कराम्बुजेन ॥ २४॥ उद्गृह्णतीमुपनिषत्सु निगूढमर्थं चित्ते निवेशयितुमल्पधियां स्वयं नः । पश्येम लख़्श्मण् मुनेः प्रतिपन्नहस्तां उन्निद्रपद्मसुभगामुपदेशमुद्राम् ॥ २५॥ आकर्षणानि निगमान्तसरस्वतीनां उच्चाटनानि बहिरन्तरुपप्लवानाम् । पथ्यानि घोरभवसंज्वरपीडितानां हृध्यानि भान्ति यतिराजमुनेर्वचांसि ॥ २६॥ शीतस्वभावसुभगानुभवः शिखावान् दोषावमर्दनियतोन्नतिरोषधीशः । तापानुबन्धशमनस्तपनः प्रजानां रामानुजो जयति संवलितत्रिधामा ॥ २७॥ जयति सकलविद्यावाहिनी जन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमति माया शर्वरी बालसूर्यो निगमजलधिवेला पूर्णचन्द्रो यतीन्द्रः ॥ २८॥ मुनिबहुमतसारा मुक्तिनिश्रेणिकेयं सहृदयहृदयानां शाश्वती दिष्टसिध्दिः । शमितदुरितगन्धा संयमीन्द्रस्य सूक्तिः परिचितगहना नः प्रस्नुवीत प्रसादम् ॥ २९॥ भवमरुपरिखिन्नस्फीतपानीयसिन्धुः दुरितरहितजिह्वा दुग्धकुल्या सकुल्या । श्रुतिनयनसनाभिः शोभते लक्ष्मणोक्तिः नरकमथनसेवास्वादनाडिंधमा नः ॥ ३०॥ हरिपदमकरन्दस्यन्दिनः संश्रितानां अनुगतबहुशाखास्तापमुन्मूलयन्ति ॥ शमितदुरितगन्धाः संयमीन्द्रप्रबन्धाः कथकजनमनीषा कल्पना कल्पवृक्षाः ॥ ३१॥ नानाभूतैर्जगति समयैर्नर्मलीलां विधित्सोः अन्त्यं वर्णं प्रथयति विभोरादिमव्यूहभेदे । विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहः सन् विष्वक्सेनो यतिपतिरभूद्वेत्रसारस्त्रिदण्डः ॥ ३२॥ लक्ष्यं बुध्दे रसिकरसनालास्यलीलानिदानं शुध्दास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः । लक्ष्यालक्ष्यैः सितजलधिवद्भाति तात्पर्यरत्नैः लक्ष्मीकान्त स्फटिकमुकुरो लक्ष्मणार्योपदेशः ॥ ३३॥ स्थितिमवधीरयन्त्यतिमनोरथसिध्दिमतीं यतिपतिसंप्रदायनिरपायधनोपचिताः । मधुकरमौलिदघ्नमददन्तुरदन्तिघटा- करटकटाहवाहि घनशीकरशीभरिताम् ॥ ३४॥ निरुपधि रङ्गवृत्ति रसिकानभिताण्डवयन् निगमविमर्शकेलिरसिकैर्निभृतैर्विधृतः । गुणपरिणद्धसूक्ति दृढकोणविघट्टनया रटति दिशा मुखेषु यतिराजयशः पटहः ॥ ३५॥ इदं प्रथमसंभवत्कुमति जालकूलङ्गषाः मृषा मतविषानलज्वलितजीवजीवातवः । क्षरन्त्यमृतमक्षरं यति पुरन्दरस्योक्तयः चिरन्तनसरस्वति चिकुरबन्धसैरन्ध्रिकाः ॥ ३६॥ सुधाशनसुदुर्ग्रह श्रुतिसमष्टिमुष्टिन्ध्यः कथाहवमसौ गतान् कपटसौगतान् खण्डयन् । मुनिर्मनसि लक्ष्मणो मुदम्दञ्चयत्यञ्जसा मुकुन्द गुणमौक्तिकप्रकरशुक्तिभिः सूक्तिभिः ॥ ३७॥ कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य तद्द्रुहिणतन्त्रयन्त्रोदरम् । कुदृष्टि कुहनामुखे निपततः परबृह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ ३८॥ कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः । तथागतकथाशतैस्तदनुसारि जल्पैरपि प्रतारितमिदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः ॥ ३९॥ कथाकलहकौतुकग्रहग्रृहीतकौतस्कुत- प्रथा जलधि संप्लवग्रसनकुम्भसम्भूतयः । जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासना- प्रभावपरिपक्त्रिम प्रमिति भारती संपदः ॥ ४०॥ यतीश्वरसरस्वती सुरभिताशयानां सतां वहामि चरणाम्बुजं प्रणति शालिना मौलिना । तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥ ४१॥ भजस्व यतिभूपतेरनिदमादिदुर्वासना कदध्व परिवर्तनश्रमनिवर्तनीं वर्तनीम् । लभस्य हृदय स्वयं रथपदायुधानुग्रह- द्रुतप्रहृति निस्तृटद्दुरितदुर्वृतिं निर्वृतिम् ॥ ४२॥ कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तर- ग्रहिलमनसः पश्यन्त्यल्पां यतीश्वरभारतीम् । विकटमुरभिद्वक्षः पीठी परिष्करणोचितः कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥ ४३॥ स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीं कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा । रसपरिमलश्लाघा घोषस्फुटत्पुटभेदनं लवणवणिजः कर्पूरार्घं किमित्यभिमन्वते ॥ ४४॥ वहति महिलामाध्यो वेधास्त्रयी मुखरैर्मुखैः वरतनुतया वामो भागः शिवस्य विवर्तते । तदपि परमं तत्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः ॥ ४५॥ निगमपथिकच्छाया शाखी निराशमहानिधिः महितविविधच्छात्रश्रेणी मनोरथसारथिः । त्रिभुवनतमःप्रत्यूषोऽयं त्रिविद्यशिखामणिः प्रथयति यतिक्ष्माभृत्पारावरीमविपर्ययाम् ॥ ४६॥ जडमति मुधा दन्तादन्तिव्यथौषधसिध्दयः प्रमितिनिधयः प्रज्ञाशालि प्रपालनयष्टयः । श्रुतिसुरभयः शुध्दानन्दाभिवर्षुकवारिदाः यमगति कथा विच्छेदिन्यो यतीश्वरसूक्तयः ॥ ४७॥ प्रतिकलमिह प्रत्यक्तत्वावलोकनदीपिकाः यतिपरिबृढग्रन्थाश्चिन्तां निरन्तरयन्ति नः । अकलुषपरज्ञानौत्सुक्यक्षुधातुरदुर्दशा- परिणत फल प्रत्यासीदत् फलेग्रहि सुग्रहाः ॥ ४८॥ मुकुन्दाङ्घ्रिश्रध्दा कुमुदवनचन्द्रातपनिभाः मुमुक्षामाक्षोभ्यां ददति मुनिबृन्दारकगिरः । स्वसिध्दान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्- दिवाभीतप्रेक्षा दिनकरसमुत्थानपरुषाः ॥ ४९॥ निराबाधा बोधायनभणिति निष्यन्दसुभगाः विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः । अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैः अनिद्राणप्रज्ञारसधमनि वेधाय सुधियाम् ॥ ५०॥ विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छानिर्दिष्टे यति नृपति शब्दे विरमति । वितण्डाहंकुर्वत्प्रतिकथकवेतण्डपृतना- वियातव्यापारव्यतिमथनसंरम्भकलहः ॥ ५१॥ प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां परिष्कारः साम्नां परिपणमथर्वाङ्गिरसयोः । प्रदीपस्तत्वानां प्रतिकृतिरसौ तापसगिरां प्रसत्तिम् संवित्तेः प्रदिशति यतीशानफणितिः ॥ ५२॥ हतावध्ये हृध्ये हरिचरणपङ्केरुहयुगे निबध्नन्त्यैकान्त्यं किमपि यति भूभृत्फणितयः । शुनासीरस्कन्धद्रुहिणहरहेरम्बहुतभुक्- प्रभेशादि क्षुद्रप्रणति परिहारप्रतिभुवः ॥ ५३॥ यथाभूत स्वार्था यति नृपतिसूक्तिर्विजयते सुधा संदोहाब्धिः सुचरितविपक्तिः श्रुतिमताम् । कथा दृप्यत्कौतस्कुतकलहकोलाहलहत- त्रिवेदी निर्वेदप्रशमनविनोदप्रणयीनी ॥ ५४॥ श्रुतिश्रेणीचूडापदबहुमते लक्ष्मणमते स्वपक्षस्थान् दोषान् वितथमतिरारोपयति यः । स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥ ५५॥ निरालोके लोके निरुपधि परस्नेहभरितो यति क्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह । अहंकारध्वान्तं विजहति कथंकारमनघाः कुतर्क व्यालौघं कुमति मतपाताळकुहरम् ॥ ५६॥ यति क्षमाभृद्धृष्टं मतमिह नवीनं तदपि किं ततः प्रागेवान्यद्वद तदपि किं वर्णनिकषे । निशाम्यन्तां यद्वा निजमतितिरस्कारविगमात् निरातङ्काष्टङ्कद्रमिडगुहदेव प्रभृतयः ॥ ५७॥ सुधासारं श्रीमध्यतिवर भुवः श्रोत्रकुहरे निषिञ्चन्ति न्यञ्चन्निगमगरिमाणः फणितयः । यदास्वादाभ्यासप्रचयमहिमोल्लासितधियां सदास्वाध्यं काले तदमृतमनन्तं सुमनसाम् ॥ ५८॥ यति क्षोणीभर्तुर्यदिदमनिदं भोगजनता- शिरः श्रेणीजुष्टं तदिह दृढबन्धं प्रभवति । अविद्यारण्यानी कुहरविहरन्मामकमनः- प्रमाद्यन्मातङ्गप्रथमनिगलं पादयुगलम् ॥ ५९॥ सवित्री मुक्तानां सकलजगदेनः प्रशमनी गरीयोभिस्तीर्त्थैरुपचितरसा यामुनमुखैः । निरुच्छेदा निम्नेतरमपि समाप्लावयति मां यदृच्छा विख़्शेपाद् यतिपतिदया दिव्यतटिनी ॥ ६०॥ चिन्ताशेषदुरर्थदन्तुरवचः कन्था शतग्रन्थिलाः सिध्दान्ता न समिन्धते यतिवरग्रन्थानुसंधायिनि । मुक्ता शुक्तिविशुध्दसिध्दतटिनी चूडालचूडापदः किं कुल्यां कलयेत खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥ ६१॥ वन्दे तं यमिनां धुरन्धरमहं मानान्धकारद्रुहा पन्थानं परिपन्थिनां निजदृशा रुन्धानमिन्धानया । दत्तं येन दया सुधाम्बुनिधिना पीत्वा विशुध्दं पयः काले नः करिशैलकृष्णजलदः काङ्क्षाधिकं वर्षति ॥ ६२॥ काषायेण गृहीतपीतवसनादण्डैस्त्रभिर्मण्डिता सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्तसंरक्षिणी । यत् प्रख्यापिततीर्थवर्धितधियामभ्यस्यतां यद्गुणान् आसिन्धोरनिदं प्रदेशनियता कीर्तिः प्रजागर्ति नः ॥ ६३॥ लिप्से लक्ष्मणयोगिनः पदयुगं रथ्या परागच्छटा रक्षारोपणधन्यसूरिपरिषत्सीमन्तसीमान्तिकम् । भिक्षा पर्यटनक्षणेषु बिभरांचक्रे गळत्किल्बिषा यद्विन्यासमिषेण पत्रमकरीमुद्रां समुद्राम्बरा ॥ ६४॥ नाना तन्त्रविलोभितेन मनसा निर्णीतदुर्नीतिभिः कष्टं कुत्सितदृष्टिभिर्यतिपतेरादेशवैदेशिकैः । व्यासो हासपदी कृतः परिहृतः प्राचेतसश्चेतसः क्लुप्तः केलिशुकः शुकः स च मुधा बाधाय बोधायनः ॥ ६५॥ अर्थ्या तिष्ठति मामिका मतिरसावाजन्मराजन्वती पत्या संयमिनामनेन जगतामत्याहितच्छेदिना । यत्सारस्वतदुग्धसागरसुधा सिद्धौषधास्वादिनां प्रस्वापाय न बोभवीति भगवन्माया महायामिनी ॥ ६६॥ शुध्दादेशवशंददीकृतयतिक्षोणीशवाणीशता- प्रत्यादिष्टबहिर्गतिः श्रुतिशिरः प्रसादमासीदति । दुग्धोदन्वदपत्यसन्निधि सदा सामोददामोदर- श्लक्ष्णालोकेन दौर्ललित्य ललितोन्मेषा मनीषा मम ॥ ६७॥ आस्तां नाम यतीन्द्रपध्दति जुषामाजानशुध्दा मतिः तच्चा व्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम् । को वा चक्षुरुदञ्चयेदपि पुरः साटोपतर्कच्छटा शस्त्राशस्त्रिविहारसंभृतरणास्वास्देषु वादेषु नः ॥ ६८॥ पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे मीमांसा मांसलात्मा समजनिषि मुहुः सांख्ययोगौ समाख्यम् । इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषा तन्त्रकान्तारपान्थैः अन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥ ६९॥ गाथा ताथागतानां गलति गमनिका कापिली क्वाऽपि लीना क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवात् दूरवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥ ७०॥ विष्वग्व्यापिन्यगाधे यतिनृपति यशः संपदेकार्णवेऽस्मिन् श्रध्दा शुध्दावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः । प्रज्ञादौर्जन्यगर्जत्प्रतिकथकवचस्तूलवातूलवृत्या सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम् ॥ ७१॥ आशामतङ्गजगणानविषह्य वेगान् पादे यतिक्षितिभृतः प्रसभं निरुन्धन् । कार्यः कथाहव कुतूहलिभिः परेषां कर्णे स एष कवितार्किक् सिंहनादः ॥ ७२॥ उपशमितकुदृष्टिविप्लवानाम् उपनिषदामुपचारदीपिकेयम् । कबलितभगवद्विभूतियुग्मां दिषतु मतिं यतिराजसप्ततिर्नः ॥ ७३॥ करतलामलकीकृतसत्पथाः श्रुतिवतंसितसूनृतसूक्तयः । दिवसतारकयन्ति समत्सरान् यतिपुरन्दरसप्ततिसादराः ॥ ७४॥ कवितार्किक सिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥॥ इति यतिराज सप्ततिः ॥