सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्री मृत्युञ्जय अष्टोत्तरशतनामावलिः

stotra-84bcfc64
रचयिता: पारंपरिक पाठ संख्या: 1
23px

॥ अथ श्री मृत्युञ्जय अष्टोत्तरशतनामावलिः ॥

ॐ भगवते नमः । ॐ सदाशिवाय नमः । ॐ सकलतत्त्वात्मकाय नमः । ॐ सर्वमन्त्ररूपाय नमः । ॐ सर्वयन्त्राधिष्ठिताय नमः । ॐ तन्त्रस्वरूपाय नमः । ॐ तत्त्वविदूराय नमः । ॐ ब्रह्मरुद्रावतारिणे नमः । ॐ नीलकण्ठाय नमः । ॐ पार्वतीप्रियाय नमः । ॐ सौम्यसूर्याग्निलोचनाय नमः । ॐ भस्मोद्धूलितविग्रहाय नमः । ॐ महामणिमकुटधारणाय नमः । ॐ माणिक्यभूषणाय नमः । ॐ सृष्टिस्थितिप्रलयकालरौद्रावताराय नमः । ॐ दक्षाध्वरध्वंसकाय नमः । ॐ महाकालभेदकाय नमः । ॐ मूलाधारैकनिलयाय नमः । ॐ तत्त्वातीताय नमः । ॐ गङ्गाधराय नमः । २० ॐ सर्वदेवाधिदेवाय नमः । ॐ वेदान्तसाराय नमः । ॐ त्रिवर्गसाधनाय नमः । ॐ अनेककोटिब्रह्माण्डनायकाय नमः । ॐ अनन्तादिनागकुलभूषणाय नमः । ॐ प्रणवस्वरूपाय नमः । ॐ चिदाकाशाय नमः । ॐ आकाशादिस्वरूपाय नमः । ॐ ग्रहनक्षत्रमालिने नमः । ॐ सकलाय नमः । ॐ कलङ्करहिताय नमः । ॐ सकललोकैककर्त्रे नमः । ॐ सकललोकैकभर्त्रे नमः । ॐ सकललोकैकसंहर्त्रे नमः । ॐ सकलनिगमगुह्याय नमः । ॐ सकलवेदान्तपारगाय नमः । ॐ सकललोकैकवरप्रदाय नमः । ॐ सकललोकैकशङ्कराय नमः । ॐ शशाङ्कशेखराय नमः । ॐ शाश्वतनिजावासाय नमः । ४० ॐ निराभासाय नमः । ॐ निरामयाय नमः । ॐ निर्लोभाय नमः । ॐ निर्मोहाय नमः । ॐ निर्मदाय नमः । ॐ निश्चिन्ताय नमः । ॐ निरहङ्काराय नमः । ॐ निराकुलाय नमः । ॐ निष्कलङ्काय नमः । ॐ निर्गुणाय नमः । ॐ निष्कामाय नमः । ॐ निरुपप्लवाय नमः । ॐ निरवद्याय नमः । ॐ निरन्तराय नमः । ॐ निष्कारणाय नमः । ॐ निरातङ्काय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निस्सङ्गाय नमः । ॐ निर्द्वन्द्वाय नमः । ॐ निराधाराय नमः । ६० ॐ निरोगाय नमः । ॐ निष्क्रोधाय नमः । ॐ निर्गमाय नमः । ॐ निर्भयाय नमः । ॐ निर्विकल्पाय नमः । ॐ निर्भेदाय नमः । ॐ निष्क्रियाय नमः । ॐ निस्तुलाय नमः । ॐ निस्संशयाय नमः । ॐ निरञ्जनाय नमः । ॐ निरूपविभवाय नमः । ॐ नित्यशुद्धबुद्धपरिपूर्णाय नमः । ॐ नित्याय नमः । ॐ शुद्धाय नमः । ॐ बुद्धाय नमः । ॐ परिपूर्णाय नमः । ॐ सच्चिदानन्दाय नमः । ॐ अदृश्याय नमः । ॐ परमशान्तस्वरूपाय नमः । ॐ तेजोरूपाय नमः । ८० ॐ तेजोमयाय नमः । ॐ महारौद्राय नमः । ॐ भद्रावतारय नमः । ॐ महाभैरवाय नमः । ॐ कल्पान्तकाय नमः । ॐ कपालमालाधराय नमः । ॐ खट्वाङ्गाय नमः । ॐ खड्गपाशाङ्कुशधराय नमः । ॐ डमरुत्रिशूलचापधराय नमः । ॐ बाणगदाशक्तिबिन्दिपालधराय नमः । ॐ तौमरमुसलमुद्गरधराय नमः । ॐ सपरशुपरिघधराय नमः । ॐ भुशुण्डीशतघ्नीचक्राद्ययुधधराय नमः । ॐ भीषणकरसहस्रमुखाय नमः । ॐ विकटाट्टहासविस्फारिताय नमः । ॐ ब्रह्माण्डमण्डलाय नमः । ॐ नागेन्द्रकुण्डलाय नमः । ॐ नागेन्द्रहाराय नमः । ॐ नागेन्द्रवलयाय नमः । ॐ नागेन्द्रचर्मधराय नमः । १०० ॐ नागेन्द्राभरणाय नमः । ॐ त्र्यम्बकाय नमः । ॐ त्रिपुरान्तकाय नमः । ॐ विरूपाक्षाय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वरूपाय नमः । ॐ विश्वतोमुखाय नमः । ॐ मृत्युञ्जयाय नमः । १०८

॥ इति श्री मृत्युञ्जय अष्टोत्तरशतनामावलिः ॥
पाठ जप: 0/108