ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೀಗಣೇಶ
ಸನಾತನ ದೇವ

ಶ್ರೀಗಣೇಶಪುರಾಣೇ ಮಯೂರೇಶ್ವರಸ್ತೋತ್ರಂ 

श्रीगणेशपुराणे मयूरेश्वरस्तोत्रम् 
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 2
23px
मयूरेश्वरस्तोत्रम् श्री गणेशाय नमः । सर्वे उचुः । परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् । गुणातीतमीशं मयूरेशवंद्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ॥ १॥ जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् । जगत्पालकं हारकं तारकं तं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ २॥ महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् । सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ ३॥ अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववंद्यम् । सुरार्यंतकं भुक्तिमुक्तिप्रदं तं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ ४॥ परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् । असंख्यावतारं निजाज्ञाननाशं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ ५॥ अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् । क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ ६॥ महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् । जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ ७॥ महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् । मुदा कामरूपं कृपावारिधिं तं मयूरेशवंद्यं नताः स्मो नताः स्मः ॥ ८॥ सदा भक्तिं नाथे प्रणयपरमानंदसुखदो यतस्त्वं लोकानां परमकरुणामाशु तनुषे । षडूर्मीनां वेगं सुरवर विनाशं नय विभो ततो भक्तिः श्लाघ्या तव भजनतोऽनन्यसुखदात् ॥ ९॥ किमस्माभिः स्तोत्रं सकलसुरतापालक विभो विधेयं विश्वात्मन्नगणितगुणानामधिपते । न संख्याता भूमिस्तव गुणगणानां त्रिभुवने न रूपाणां देव प्रकटय कृपां नोऽसुरहते ॥ १०॥ मयूरेशं नमस्कृत्य ततो देवोऽब्रवीच्च तान् । य इदं पठते स्तोत्रं स कामान् लभतेऽखिलान् ॥ ११॥ सर्वत्र जयमाप्नोति मानमायुः श्रियं पराम् । पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् ॥ १२॥ सहस्रावर्तनात्कारागृहस्थं मोचयेज्जनम् । नियुतावर्तनान्मर्त्यो साध्यं यत्साधयेत्क्षणात् ॥ १३॥ इति श्रीगणेशपुराणे मयूरेश्वरस्तोत्रम्
ಜಪ ಎಣಿಕೆ: 0/108