सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

॥ श्रीवेङ्कटेश मङ्गलाष्टकम् ॥

stotra-821acab3
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

sri venkatesha mangalashtakam ॥ श्रीवेङ्कटेश मङ्गलाष्टकम् ॥

श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः पौत्रश्चन्द्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः । तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्माण्डमाद्यः पुमान् श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ १॥

यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते यस्य श्रीवदनाम्बुजस्य सुषमा राकेन्दुकोटीरपि । सौन्दर्यं च मनोभवानपि बहून् कान्तिश्च कादम्बिनीं श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ २॥

नानारत्न किरीटकुण्डलमुखैर्भूषागणैर्भूषितः श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लाञ्छनः । विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शङ्खचक्रादिभिः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ३॥

यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते कस्तूरीघनसारकेसरमिलच्छ्रीगन्धसारो द्रवैः । गन्धैर्लिप्ततनुः सुगन्धसुमनोमालाधरो यः प्रभुः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ४॥

एतद्दिव्यपदं ममास्ति भुवि तत्सम्पश्यतेत्यादरा- द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः । एतद्भक्तिमतो महानपि भवाम्भोधिर्नदीति स्पृशन् श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ५॥

यः स्वामी सरसस्तटे विहरतो श्रीस्वामिन्नाम्नः सदा सौवर्णालयमन्दिरो विधिमुखैर्बर्हिर्मुखैः सेवितः । यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ६॥

यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान् दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः । तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ७॥

यो देवो भुवि वर्तते कलियुगे वैकुण्ठलोकस्थितो भक्तानां परिपालनाय सततं कारुण्यवारां निधिः । श्रीशेषाख्यमहीध्रमस्तकमणिर्भक्तैकचिन्तामणि श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ८॥

शेषाद्रिप्रभुमङ्गलाष्टकमिदं तुष्टेन यस्येशितुः प्रीत्यर्थं रचितं रमेशचरणद्वन्द्वैकनिष्टावता । वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ ९॥

॥ इति श्रीवेङ्कटेश मङ्गलाष्टकम् सम्पूर्णम् ॥

पाठ जप: 0/108