సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

.. శ్రీవరవరమున్యష్టకం ..

॥ श्रीवरवरमुन्यष्टकम् ॥
రచయిత: పారంపరిక వీక్షణలు: 10
లిపిని ఎంచుకోండి: देवनागरी (संस्कृत)
14px
श्रीवरदनारायणगुरुभिरनुगृहीतम्

॥ श्रीवरवरमुन्यष्टकम् ॥

 सकलवेदान्तसारार्थपूर्णाशयं 
विपुलवाधूलगोत्रोद्भवानां वरम् 
रुचिरजामातृयोगीन्द्रपादाश्रयं-
वरदानारायणं मद्गुरुं संश्रये॥ 

पर्यंकेऽपि परं तत्त्वं रंगशायिनमेव यः। 
उत्तिष्ठत्यनुभूयाहं तं वन्दे वरयोगिनम्॥१॥

उषस्युत्थाय लोकार्यप्रमुखाचार्यसूक्तिभिः। 
उच्चैः स्तुत्वाऽथ गोविन्दं तत्तद्दिव्यस्थलाञ्चितम् ॥२॥

कावेर्याः कमलोद्भासि संस्पृश्य सलिलं शुभम्।
 गोविन्दगुणशीलादि ध्यात्वाऽश्रुकलिकाननः॥३॥

रोमाञ्चितचलद्गात्रः भक्तया परमयैव यः।
 पुनाति तीर्थं संग्राह्य तं वन्दे वरयोगिनम्॥४॥

भगवच्छास्रनिर्दिष्टविधिनैव निमज्ज्य यः। 
दिव्यकाषायशुद्धोर्ध्वपुण्ड्रमालादिभूषितः ॥५॥

महामन्त्रादि संजप्य विशिष्टैः परिवारितः। 
श्रीरंगधाम संसेव्य तत्तत्त्वान्युपबृंह्य च॥६॥

आराध्य रंगजादीननुयागं विधाय च। 
अपुनादमृतैरार्यान् तं वन्दे वरयोगिनम् ॥७॥ 

वन्दे सौम्यवराग्र्ययोगिनमहं ध्यानामृतास्वादिन 
श्रीरंगाधिपपादपकंजपरीचर्यागुणैकान्तिनम् ।
आज्ञाशास्रविधेरविच्युतमलं संसारिगन्धासह 
कालेषु त्रिषु चैव कामितफलप्राप्त्यै गुरूणां गुरुम्॥८॥

इति श्रीवरदनारायणगुरुभिरनुगृहीतम् श्रीवरवरमुन्यष्टकम् 
జప గణన: 0/108