சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

தே³வர்ஷிபி⁴꞉ க்ருʼதா வக்ரதுண்ட³ஸ்துதி꞉

देवर्षिभिः कृता वक्रतुण्डस्तुतिः
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

वक्रतुण्डस्तुतिः

श्रीगणेशाय नमः । देवर्षय ऊचुः । नमस्ते वक्रतुण्डाय गजवक्त्राय ते नमः । एकदन्ताय देवाय सर्वाधिपतये नमः ॥ ३०॥ निर्गुणाय निरूपाय चतुर्बाहुधराय ते । सिंहवाहाय नागानां पत्युर्नाभौ धराय च ॥ ३१॥ अनन्ताय ह्यपाराय दुर्लक्ष्याय नमो नमः । पाशाङ्कुशधरायैव नागयज्ञोपवीतिने ॥ ३२॥ वरदाभयहस्ताय सिद्धिबुद्धिवराय च । ब्रह्मभूताय भक्तानां ब्रह्मभूयकराय ते ॥ ३३॥ नमस्ते शम्भुरूपाय विष्णुरूपाय ते नमः । सूर्यरूपाय धात्रे च नमः शक्तिमयाय च ॥ ३४॥ दैत्यदानवरूपाय देवरूपधराय च । नमः पक्षिस्वरूपाय शुकरूपाय ते नमः ॥ ३५॥ ग्रहनक्षत्ररूपाय लतावृक्षस्वरूपिणे । पर्वताय नमस्तुभ्यं सरित्सागररूपिणे ॥ ३६॥ जलजन्तुस्वरूपाय सर्परूपाय ते नमः । वेदाधिकाशीतिलक्षयोनिसंस्थाय ते नमः ॥ ३७॥ चराचरमयायैव नमो नानाप्रभेदिने । कर्माकर्मस्वरूपाय नमः खलु विकर्मणे ॥ ३८॥ ज्ञानयोगाय देवाय स्वात्मरूपधराय ते । स्वसंवेद्यस्वरूपाय सदा योगमयाय ते ॥ ३९॥ नानाधारप्रधाराय शब्दब्रह्ममयाय ते । मायारूपाय मायायै मायाहीनाय ते नमः ॥ ४०॥ मायिभ्यो मोहदात्रे च सर्वकाराय ते नमः । स्थूलसूक्ष्मादिभेदाय भेदहीनाय ते नमः ॥ ४१॥ भेदाभेदमयायैवानन्तपाराय ते नमः । भक्तेभ्यो वरदात्रे च भक्तसंरक्षकाय ते ॥ ४२॥ नमो नमः परेशायाव्ययाय च नमो नमः । गणेशाय नमस्तुभ्यं योगाधीशाय ते नमः ॥ ४३॥ यं स्तोतुं न समर्थाश्च वेदाः साङ्गाश्च योगिनः । नं किं स्तुमो गणेशानं वक्रतुण्डस्वरूपिणम् ॥ ४४॥ मायादुःखं च सर्वेषां मनसि ज्ञानकारकम् । ब्रह्म तस्मात्तथा वक्रं ज्ञानहीनं बुधैः स्मृतम् ॥ ४५॥ माया च ब्रह्मतुण्डं यद् द्वयोर्योगे भवेत्परम् । योगशान्तिश्च सर्वेषां योगिनां हृदि संस्थिता ॥ ४६॥ मायादहस्वरूपा ते ब्रह्म वक्रं स्मृतं मुखम । उभयोर्योगभावे त्वं वक्रतुण्डः प्रकथ्यते ॥ ४७॥ तं वक्रतुण्डं पश्यामः साक्षाद् योगमयं परम् । धन्या वयं गणाध्यक्षं स्तुत्वा तं प्रणताः स्तवैः ॥ ४८॥ धन्यं जन्म त्वक्षि धन्यं धन्याः सम्पद एव च । ज्ञानं धन्यं तपश्चैव यन दृष्टो गजाननः ॥ ४९॥ प्रमन्नो यदि देवेश यदि देयो वरः शुभः । तदा त्वदीयपादाब्जे भक्तिरस्तु सदा च नः ॥ ५०॥ प्रार्थयामो वरं चैतं यतस्त्वं चिन्तितार्थदः । मत्सरासुरनाशं च वक्रतुण्ड कुरु प्रभो ॥ ५१॥ जगत्सर्वं वयं चैव पीडितास्तेन विघ्नप । सर्वेषामुपकारार्थं जहि दैत्यं महाबलम् ॥ ५२॥ स्तुत्वैवं प्रार्थयित्वा तं प्रणतास्ते सुरर्षयः । तानुत्थाप्य स्वयं साक्षाद्वक्रतुण्ड उवाच ह ॥ ५३॥ वक्रतुण्ड उवाच । भवेत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं परम् । भविष्यति महाभागा ईप्सितार्थप्रदं महत् ॥ ५४॥ मत्सरासुरनाशं च करिष्यामि सुरर्षयः । भवतां भक्तियोगेन प्रसन्नः पूर्णतां गतः ॥ ५५॥ पञ्चभूतमयं सर्वं त्रिगुणं जगदुच्यते । अष्टावरणसंयुक्तं ब्रह्माण्डं हि सुरर्षयः ॥ ५६॥ अष्टावरणसंयुक्ता देवाः सर्वे च मानवाः । नागाश्चराचरं सर्वं तस्य तेभ्यो भयं नहि ॥ ५७॥ अतो मत्सरदैत्यस्य नाशश्च कठिनो महान् । नथापि भवतां देवाः करिष्यामि प्रियं द्विजाः ॥ ५८॥ इति देवर्षिभिः कृता वक्रतुण्डस्तुतिः
ஜப எண்ணிக்கை: 0/108