সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

মুদ্গলপুরাণোক্তং গণেশমন্ত্রস্তোত্রম্

मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

श्रीगणेशमन्त्रस्तोत्रम्

श्रीगणेशाय नमः । उद्दालक उवाच । श‍ृणु पुत्र महाभाग योगशान्तिप्रदायकम् । येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥ १॥ चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते । विक्षिप्तं च तथैकाग्रं निरोधं भूमिसज्ञकम् ॥ २॥ तत्र प्रकाशकर्ताऽसौ चिन्तामणिहृदि स्थितः । साक्षाद्योगेश योगेज्ञैर्लभ्यते भूमिनाशनात् ॥ ३॥ चित्तरूपा स्वयंबुद्धिश्चित्तभ्रान्तिकरी मता । सिद्धिर्माया गणेशस्य मायाखेलक उच्यते ॥ ४॥ अतो गणेशमन्त्रेण गणेशं भज पुत्रक । तेन त्वं ब्रह्मभूतस्तं शन्तियोगमवापस्यसि ॥ ५॥ इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथारुणिः । एकाक्षरं स्वपुत्राय ध्यनादिभ्यः सुसंयुतम् ॥ ६॥ तेन तं साधयति स्म गणेशं सर्वसिद्धिदम् । क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवत्ततः ॥ ७॥ इति मुद्गलपुराणोक्तं गणेशमन्त्रस्तोत्रम् ।
পাঠ জপ: 0/108