সনাতন দেব
॥ শ্রীলক্ষ্মী অষ্টোত্তরশতনামাবলিঃ ॥
॥ श्रीलक्ष्मी अष्टोत्तरशतनामावलिः ॥
॥ श्रीलक्ष्म्यष्टोत्तरशतनामावलिः ॥
वन्दे पद्मकरां प्रसन्नवदनां सौभज्ञदां भाज्ञदां हस्ताभ्यां अभयं प्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्ट फलप्रदां हरिहर ब्रह्मादिभिः सेवितां पाश्वे पङ्कजशङ्खपद्म निधिभिर्युक्तां सदा शक्तिभिः ॥
सरसिजनिलये सरोजहस्ते धवल तरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ विद्यायै नमः । ॐ सर्वभूतहितप्रदायै नमः । ॐ श्रद्धायै नमः । ॐ विभूत्यै नमः । ॐ सुरभ्यै नमः । ॐ परमात्मिकायै नमः । ॐ वाचे नमः । ९ ॐ पद्मालयायै नमः । ॐ पद्मायै नमः । ॐ शुचये नमः । ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ सुधायै नमः । ॐ धन्यायै नमः । ॐ हिरण्मय्यै नमः । ॐ लक्ष्म्यै नमः । १८ ॐ नित्यपुष्टायै नमः । var नित्यपुष्ट्यै ॐ विभावर्यै नमः । ॐ अदित्यै नमः । ॐ दित्यै नमः । ॐ दीप्तायै नमः । ॐ वसुधायै नमः । ॐ वसुधारिण्यै नमः । ॐ कमलायै नमः । ॐ कान्तायै नमः । २७ ॐ कामाक्ष्यै नमः । ॐ क्षीरोदसम्भवायै नमः । ॐ अनुग्रहप्रदायै नमः । ॐ बुद्धये नमः । ॐ अनघायै नमः । ॐ हरिवल्लभायै नमः । ॐ अशोकायै नमः । ॐ अमृतायै नमः । ॐ दीप्तायै नमः । ३६ ॐ लोकशोकविनाशिन्यै नमः । ॐ धर्मनिलयायै नमः । ॐ करुणायै नमः । ॐ लोकमात्रे नमः । ॐ पद्मप्रियायै नमः । ॐ पद्महस्तायै नमः । ॐ पद्माक्ष्यै नमः । ॐ पद्मसुन्दर्यै नमः । ॐ पद्मोद्भवायै नमः । ४५ ॐ पद्ममुख्यै नमः । ॐ पद्मनाभप्रियायै नमः । ॐ रमायै नमः । ॐ पद्ममालाधरायै नमः । ॐ देव्यै नमः । ॐ पद्मिन्यै नमः । ॐ पद्मगन्धिन्यै नमः । ॐ पुण्यगन्धायै नमः । ॐ सुप्रसन्नायै नमः । ५४ ॐ प्रसादाभिमुख्यै नमः । ॐ प्रभायै नमः । ॐ चन्द्रवदनायै नमः । ॐ चन्द्रायै नमः । ॐ चन्द्रसहोदर्यै नमः । ॐ चतुर्भुजायै नमः । ॐ चन्द्ररूपायै नमः । ॐ इन्दिरायै नमः । ॐ इन्दुशीतलायै नमः । ६३ ॐ आह्लादजनन्यै नमः । ॐ पुष्टायै नमः । var पुष्ट्यै ॐ शिवायै नमः । ॐ शिवकर्यै नमः । ॐ सत्यै नमः । ॐ विमलायै नमः । ॐ विश्वजनन्यै नमः । ॐ तुष्टायै नमः । var तुष्ट्यै ॐ दारिद्र्यनाशिन्यै नमः । ७२ ॐ प्रीतिपुष्करिण्यै नमः । ॐ शान्तायै नमः । ॐ शुक्लमाल्याम्बरायै नमः । ॐ श्रियै नमः । ॐ भास्कर्यै नमः । ॐ बिल्वनिलयायै नमः । ॐ वरारोहायै नमः । ॐ यशस्विन्यै नमः । ॐ वसुन्धरायै नमः । ८१ ॐ उदाराङ्गायै नमः । ॐ हरिण्यै नमः । ॐ हेममालिन्यै नमः । ॐ धनधान्यकर्यै नमः । ॐ सिद्धये नमः । ॐ स्त्रैणसौम्यायै नमः । ॐ शुभप्रदाये नमः । ॐ नृपवेश्मगतानन्दायै नमः । ॐ वरलक्ष्म्यै नमः । ९० ॐ वसुप्रदायै नमः । ॐ शुभायै नमः । ॐ हिरण्यप्राकारायै नमः । ॐ समुद्रतनयायै नमः । ॐ जयायै नमः । ॐ मङ्गळा देव्यै नमः । ॐ विष्णुवक्षस्स्थलस्थितायै नमः । ॐ विष्णुपत्न्यै नमः । ॐ प्रसन्नाक्ष्यै नमः । ९९ ॐ नारायणसमाश्रितायै नमः । ॐ दारिद्र्यध्वंसिन्यै नमः । ॐ देव्यै नमः । ॐ सर्वोपद्रव वारिण्यै नमः । ॐ नवदुर्गायै नमः । ॐ महाकाल्यै नमः । ॐ ब्रह्माविष्णुशिवात्मिकायै नमः । ॐ त्रिकालज्ञानसम्पन्नायै नमः । ॐ भुवनेश्वर्यै नमः । १०८॥ इति श्रीलक्ष्म्यष्टोत्तरशत नामावलिः ॥