ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೀಗಣೇಶ
ಸನಾತನ ದೇವ

.. ಗಣೇಶಾಷ್ಟೋತ್ತರಶತನಾಮಸ್ತೋತ್ರಂ ..

॥ गणेशाष्टोत्तरशतनामस्तोत्रम् ॥
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 8
ಲಿಪಿಯನ್ನು ಆಯ್ಕೆಮಾಡಿ: देवनागरी (संस्कृत)
14px

॥ गणेश अष्टोत्तरशतनामस्तोत्रम् ॥

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः। स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः॥१॥

अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः। सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः॥२॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः। शुद्धो बुद्धिप्रियः शान्तो ब्रह्मचारी गजाननः॥३॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः। एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः॥४॥

लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः। कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः॥५॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः। अकल्मषः स्वयंसिद्धः सिद्धार्चितपदाम्बुजः॥६॥

बीजपूरफलासक्तो वरदः शाश्वतः कृतिः। विद्वत्प्रियो वीतभयो गदी चक्रीक्षुचापधृत्॥७॥

श्रीदोऽजोत्पलकरः श्रीपतिः स्तुतिहर्षितः। कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः॥८॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः। आश्रितः श्रीकरः सौम्यो भक्तवाञ्छितदायकः॥९॥

शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः। ज्ञानी दयायुतो दान्तो ब्रह्म द्वेषविवर्जितः॥१०॥

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः। रमार्चितो विधिर्नागराजयज्ञोपवीतवान्॥११॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियो परः। स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः॥१२॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान्। शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः॥१३॥

स्वलावण्यसुधासारजितमन्मथविग्रहः। समस्तजगदाधारो मायी मूषिकवाहनः॥१४॥

हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः॥१५॥

॥  इति श्रीगणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

ಜಪ ಎಣಿಕೆ: 0/108